अनुशासनपर्व

अध्यायः ३२

Anusasana Parva (Sanskrit) · Adhyaya 32
अक्षर का आकार

युधिष्ठिर उवाच।

कीदृशे पुरुषे तात स्त्रीषु भरतर्षभ।
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम्।
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत।।

नारायणस्याङ्कगतां ज्वलन्तीं
दृष्ट्वा श्रियं पद्मसमानवक्त्राम्।

कौतूहलाद्विस्मितचारुनेत्रा
पप्रच्छ माता मकरध्वजस्यष।।

कानीह भूतान्युपसेवसे त्वं
सन्तिष्ठसे कानि च सेवसे त्वम्।
तानि त्रिलोकेश्वरभूतकान्ते
तत्त्वेन मे ब्रूहि महर्षिकन्ये।।

एवं तदा श्रीराभिभाष्यमाणा
देव्या समक्षं गरुडध्वजस्य।
उवाच वाक्यं मधुराभिधानं
मनोहरं चन्द्रमुखी प्रसन्ना।।

श्रीरुवाच।

वसामि नित्यं सुभगे प्रगल्भे
दक्षे नरे कर्मणि वर्तमाने।
अक्रोधने देवपरे कृतज्ञे
जितेन्द्रिये नित्यमुदीर्णसत्वे।।

नाकर्मशीले पुरुषे वसामि
न नास्तिके साङ्करिके कृतघ्ने।
न भिन्नवृत्ते न नृशंसवृत्ते
न चाविनीते न गुरुष्वसूयके।।

ये चाल्पतेजोबलसत्त्वमानाः
क्लिश्यन्ति कुप्यन्ति च यत्रतत्र।
न चैव तिष्ठामि तथाविधेषु
नरेषु सङ्गुप्तमनोरथेषु।।

यश्चात्मनि प्रार्थयते न किञ्चि-
द्यश्च स्वभावोपहतान्तरात्मा।
द्यश्च स्वभावोपहतान्तरात्मा।
नरेषु नाहं निवसामि स्म्यक्।।

वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु।
वृद्धसेविषु दान्तेषु सत्वज्ञेषु महात्मसु।।

अवन्ध्यकालेषु सदा दानशौचरतषु च।
ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च।।

स्त्रीषु कान्तासु शान्तासु देवद्विजपरासु च।
विशुद्धगृहभाण्डासु गोधान्याभिरतासु च।।

वसागि देवद्विजपूजिकासु।।

प्रकीर्णभाण्डामनवेक्ष्यकारिणीं
सदा च भर्तुः प्रतिकूलवादिनीम्।

लोलामदक्षामवलेपिनीं च
व्यपेतशौचां कलहप्रियां च।
निद्राभिभूतां सततं शयाना-
मेवंविधां स्त्रीं परिवर्जयामि।।

सत्यासु नित्यं प्रियदर्शनासु
सौभाग्ययुक्तासु गुणान्वितासु।
वसामि नारीषु पतिव्रतासु
कल्याणशीलासु विभूषितासु।।

यानेषु कन्यासु विभूषणेषु
यज्ञेषु मेघेषु च वृष्टिमत्सु।
वसामि फुल्लासु च पद्मिनीषु
नक्षत्रवीथीषु च शारदीषु।।

गजेषु गोष्ठेषु तथाऽऽसनेषु
सरःसु फुल्लोत्पलपङ्कजेषु।
नदीषु हंसस्वननादितासु
क्रौञ्चावघुष्टस्वरशोभितासु।।

विकीर्णकूलद्रुमराजितासु
तपस्विसिद्धद्विजसेवितासु।
वसामि नित्यं सुबहूदकासु
सिम्हैर्गजैश्चाकुलितोदकासु।।

मत्ते गजे गोवृषभे नरेन्द्रे
सिम्हासने सत्पुरुषेषु नित्यम्।।

यस्मिञ्चनो हव्यभुजं जुहोति
गोब्राह्मणं चार्चति देवताश्च
काले च पुष्पैर्बलयः क्रियन्ते
तस्मिन्गृहे नित्यमुपैमि वासम्।।

स्वाध्यायनित्येषु सदा द्विजेषु
क्षत्रे च धर्माभिरते सदैव।
वैश्ये च कृष्याभिरते वसामि
शूद्रे च शुश्रूषणनित्ययुक्ते।।

नारायणे त्वेकमना वसामि
सर्वेण भावेन शरीरभूता।
तस्मिन्हि धर्मः सुमहान्निविष्टो
ब्रह्मिण्यता चात्र तथा प्रियत्वम्।।

नाहं शरीरेण वसामि देवि
नैवं मया शक्यमिहाभिधातुम्।
भावेन यस्मिन्निवसामि पुंसि
स वर्धते धर्मयशोर्थकामैः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।।