अनुशासनपर्व

अध्यायः ३१

Anusasana Parva (Sanskrit) · Adhyaya 31
अक्षर का आकार

युधिष्ठिर उवाच।

मित्रसौहार्दयोगेन उपदेशं करोति यः।
जात्याऽधरस्य राजर्षे दोषस्तस्य भवेन्न वा।।

एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह।
सूक्ष्मा गतिर्हि धर्मस्यि यत्र मुह्यन्ति मानवाः।।

भीष्म उवाच।

अत्र ते वर्तयिष्यामि शृणु राजन्यथाक्रमम्।
`मदुक्तं वचनं राजन्यथान्यायं यथागमम्।'
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा पुरा।।

उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित्।
उपदेशे महान्दोष उपाध्यायस्य भाष्यते।।

`नाध्यापयेच्छूद्रमिह तथा नैव च याजयेत्।'
निदर्शनमिदं राजञ्शृणु मे भरतर्षभ।।

दुरुक्तवचने राजन्यथापूर्वं युधिष्ठिर।
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे।।

तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम्।
नानागुल्मलताकीर्णं मृगद्विजनिषेवितम्।
सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम्।।

व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम्।
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः।।

नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः।
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः।।

वेदाध्ययनघोषैश्च नादितं भरतर्षभ।
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम्।।

तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः।
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः।।

तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः।
विविधां वहतो दीक्षां सम्प्राहृष्यत भारत।।

अथास्य बुद्धिरभावत्तापस्ये भरतर्षभ।
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत।।

भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ।
तस्मादभिगतं त्वं मां प्रव्राजयितुमर्हसि।।

वर्णावरोऽहं भगवञ्शूद्रो जात्याऽस्मि सत्तम।
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे।।

कुलपतिरुवाच।

न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम्।
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव।।

शुश्रूषया पराँल्लोकानवाप्स्यसि न संशयः।।

भीष्म उवाच।

एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप।
कथमत्र मया कार्यं श्रुद्धा धर्मपरा च मे।।

विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः।
गत्वाऽऽश्रमपदाद्दूरमुटजं कृतवांस्तु सः।।

तत्र वेदीं च भूमिं च देवतायतनानि च।
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवन्मुनिः।।

अभिषेकांश्च नियमान्देवतायतनेषु च।
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत्।।

सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः।
नित्यं सन्निहिताभिस्तु ओषधीभिः फलैस्तथा।।

अतिथीन्पूजयामास यथावत्समुपागतान्।
एवं हि सुमहान्कालो व्यत्यक्रामत तस्य वै।।

अथास्य मुनिरागच्चत्सङ्गत्या वै तमाश्रमम्।
सम्पूज्य स्वागतेनर्षिं विधिवत्समतोषयत्।।

अनूकूलाः कथाः कृत्वा यथागतमपृच्छत।
ऋषिः परमतेजस्वी धर्मात्मा संशितव्रतः।।

एवं सुबहुशस्तस्य शूद्रस्य भरतर्षभ।
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभः।।

अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ।
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु।।

बाढमित्येव तं विप्र उवाच भरतर्षभ।
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत्।।

अथ दर्भाश्च वन्यांश्च ओषधीर्भरतर्षभ।
पवित्रमासनं चैव बृसीं चि समुपानयत्।।

अथ दक्षिणमावृत्य बृसीं चरमशैर्षिकीम्।
कृतामन्यायतो दृष्ट्वा तं शूद्रमृषिरब्रवीत्।।

कुरुष्वैतां पूर्वशीर्षां भवांश्चोदङ्मुखः शुचिः।
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत्।।

यथोपदिष्टं मेधावी दर्भार्घादि यथातथम्।
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना।।

ऋषिणा पितृकार्येषु सदा धर्मपथे स्थितः।
पितृकार्ये कृते चापि विसृष्टः स जगाम ह।।

अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः।
वने पञ्चत्वमगमत्सुकृतेन च तेन वै।
अजायत महाराज वंशे स च महाद्युतिः।।

तथैव स ऋषिस्तात कालधर्ममवाप ह।
पुरोहितकुले विप्रः स जातोऽस्य वशानुगः।।

एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा।
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ।।

अथर्ववेदे वेदे च बभूवर्षिः सुनिष्ठितः।
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः।
साङ्ख्ये चैव परा प्रीतिस्तस्य चैवं व्यवर्धत।।

पितर्युपरते चापि कृतशौचस्तु पार्थिवः।
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः।।

अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः।।

स तं पुरोधाय सुखमवसद्भरतर्षभः।
राज्यं शशास धर्मेण प्रजाश्च परिपालयन्।।

पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत्।
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम्।
एवं स बहुशो राजन्पुरोधसमुपाहसत्।।

लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम्।
उत्स्मयन्तं च सततं दृष्ट्वा तं मन्युमानभूत्।।

अथ शून्ये पुरोधास्तु सह राज्ञा समागतः।
कथाभिरनुकूलाभी राजानं चाभ्योरचयत्।।

ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ।
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते।।

राजोवाच।

वराणां ते शतं दद्यां किं बतैकं द्विजोत्तम।
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव।।

पुरोहित उवाच।

एकं वै वरमिच्छामि यदि तुष्टिसि पार्थिव।
प्रतिजानीहि तावत्त्वं सत्यं यद्वद नानृतम्।।

भीष्म उवाचि।

बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर।
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे।।

पुरोहित उवाच।

पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत्।
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य मां।।

सव्रीडं वै भवति हि मनो मे हसता त्वया।
कामया शापितो राजन्नान्यथावक्तुमर्हसि।।

भाव्यं हि कारणेनात्र न ते हास्यमकारणम्।
कौतूहलं मे सुभृशं तत्त्वेन कथमस्व मे।।

राजोवाच।

एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि।
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज।।

पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम।
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु।।

शुद्रोऽहमभवं पूर्वं तपसे कृतनिश्चयः।
ऋषिरुग्रतपास्त्वं च तदाऽभूर्द्विजसत्तम।।

प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना।
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ।।

वृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम।
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः।।

अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम्।
मत्कृतस्योपदेशस्य त्वयाऽवाप्तमिदं फलम्।।

एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम।
न त्वां परिभवन्ब्रह्मनप्रहसामि गुरुर्भवान्।।

विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः।
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै।।

एवं तवोग्रं हि तप उपदेशेन नाशितम्।
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे।।

इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज।
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम।।

भीष्म उवाच।

ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः।
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः।।

कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमैः।
तीर्थानि चापि गत्वा वै दानानि विविधानि च।।

दत्त्वा गाश्चैव विप्रेभ्यः पूतात्माऽभवदात्मवान्।
तमेव चाश्रमं गत्वा चचार विपुलं तपः।।

ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम।
सम्मतस्चाभवत्तेषामाश्रमे तन्निवासिनाम्।।

एवं प्राप्तो महत्कृच्छ्रमृषिः सन्नृपसत्तम।
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने।।

`वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप।
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात्।।

नेषितव्यं सदा वाचा द्विजेन नृपसत्तम।
न च प्रवक्तव्यमिह किञ्चिद्वर्णावरे नरे।।'

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः।
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति।।

तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः।
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः।।

तस्मान्मौनेन मुनयो दीक्षां कुर्वन्ति चादृताः।
दुरुक्तस्य भयाद्राजन्नाभाषन्ते च किञ्चन।।

धार्मिका गुणसम्पन्नाः सत्यार्जवसमन्विताः।
दुरुक्तवाचाभिहितैः प्राप्नुवन्तीह दुष्कृतम्।।

उपदेशो न कर्तव्यो ह्यज्ञात्वा यस्यकस्य चित्।
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात्।।

विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता।
सत्यानृतेन हि कृत उपदेशो हिनस्ति हि।।

वक्तव्यमिह पृष्टेन विनिश्चयविपर्ययम्।
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात्।।

एतत्ते सर्वमाख्यातमुपदेशकृते मया।
महान्क्लेशो हि भवति तस्मान्नोपदिशेदिह।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकविंशोऽध्यायः।। 31 ।।