अनुशासनपर्व
अध्यायः ३०
युधिष्ठिर उवाच।
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह।
न प्रयच्छन्ति लोभात्ते के भवन्ति महामते।।
एतन्मे तत्वतो ब्रूहि धर्मे धर्मभृतांवर।
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः।।
भीष्म उवाच।
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु।
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम्।।
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति।
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत।।
यच्च तस्य हुतं किञ्चिद्दत्तं वा भरतर्षभ।
तपस्तप्तमथो वाऽपि सर्वं तस्योपहन्यते।।
अथैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः।
निशास्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया।।
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः।
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते।।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
सृगालस्य च संवादं वानरस्य च भारत।।
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप।
अन्यां योनिं समापन्नौ सृगालीं वानरीं तथा।
सम्भाषणात्ततः सख्यं तत्रतत्र परस्परम्।।
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत्।
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन्।।
किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम्।
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान्।।
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा।
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहृतम्।।
तत्कृते पापिकां योनिमापन्नोस्मि प्लवङ्गम।
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः।।
भीष्म उवाच।
सृगालो वानरं प्राह पुनरेव नरोत्तम।
किं त्वया पातकं कर्म कृतं येनासि वानरः।।
वानर उवाच।
स चाप्याह फलाहारो ब्राह्मणानां प्लवङ्गमः।
तस्मान्न ब्राह्मणस्वं तु हर्त्तव्यं विदुषा सदा।
सीमाविवादे मोक्तव्यं दातव्यं च प्रतिश्रुतम्।।
भीष्म उवाच।
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम्।
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम्।।
श्रुतं चापि मया भूयः कृष्णस्यापि विशांपते।
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव।।
न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः।
बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि।।
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै।
प्रतिश्रुतं भवेद्देयं नाशा कार्या द्विजोत्तमे।।
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते।
सुसमिद्धो यता दीप्तः पावकस्तद्विधः स्मृतः।।
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया।
प्रदहेच्च हितं राजन्कक्षमक्षय्यभुग्यथा।।
स एव हि यदा तुष्टो वचसा प्रतिनन्दति।
भवत्यगदसंकाशो विषये तस्य भारत।।
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा।
पुरं जनपदं चैव शान्तिरिष्टेन पोषयेत्।।
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते।
सहस्रकिरणस्येव सवितुर्धरणीतले।।
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर।
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम।।
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः।
शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया।।
इतो दत्तेन जीवन्ति देवताः पितरस्था।
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता।।
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते।
वेलायां न तु कस्यां चिद्गच्छेद्विप्रो ह्यपूजितः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिंशोऽध्यायः।। 30 ।।