अनुशासनपर्व
अध्यायः २९
`भीष्म उवाच।
ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम्।
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत्।।
कद्रूमभ्यगमत्तूर्णममृतं गृह्य भारतः।।
गरुड उवाच।
तदाहृतं मया शीघ्रममृतं जननीकृते।
अदासी सा भवत्वद्य विनता धर्मिचारिणी।।
कद्रूरुवाच।
स्वागतं स्वाहृतं चेदममृतं विनतात्मज।
अदासी जननी तेऽद्य पुत्र कामवशा शुभा।
एवमुक्ते तदा सा च सम्प्राप्ता विनता गृहम्।।
उपनीय यथान्यायं विहगो बलिनांवरः।
स्मृत्वा निकृत्या विजयं मातुः सम्प्रतिपद्य च।।
वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः।
बभूवुरसितप्रख्या निकृत्या वै जितं त्वया।।
तामुवाच ततो न्याय्यं विहगो बलिनांवरः।
उञ्जहारामृतं तूर्णमुत्पपात च रंहसा।।
तद्गृहीत्वाऽमृतं तूर्णं प्रयान्तमपराजितम्।
किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम्।
पुनर्हरति दुर्बुद्धे मा जातु वृजितं कृथाः।।
सुपर्णि उवाच।
अमृताहरणं मेऽद्य यत्कृतं जननीकृते।
भवत्या वचनादेतदाहरामृतमित्युत।।
आहृतं तदिदं शीघ्रं मुक्ता च जननी मम।
हराम्येष पुनस्तत्र यत एतन्मयाऽऽहृतम्।।
यदि मां भवती ब्रूयादमृतं मे च दीयताम्।
तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा।
मया धर्मेण सत्येन विनता च समुद्धृता।।
भीष्म उवाच।
ततो गत्वाऽथ गरुडः पुरन्दरमुवाच ह।
इदं मया वृत्रहन्तर्हृतं तेऽमृतमुत्तमम्।
मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम्।।
माता च मम देवेश दासीत्वमुपजग्मुषी।
भुजङ्गमानां मातुर्वै सा मुक्ताऽमृतदर्शनात्।।
एतच्छ्रुत्वा सहस्राक्षः सुपर्णमनुमन्यते।
उवाच च मुदा युक्तो दिष्ट्यादिष्ट्येति वासवः।।
क्रषयो ये सहस्राक्षमुपासन्ति सुरैः सह।
ते सर्वे च मुदा युक्ता विश्वेदेवास्तथैव च।।
ततस्तमृषयः सर्वे देवाश्च भरतर्षभ।
ऊचुः पुरन्दरं दृष्टा गरुडो लभतां वरम्।।
ततः शचीपतिर्वाक्यमुवाच प्रहसन्निव।
जनिष्यति हृषीकेशः स्वयमेवैष पक्षिराट्।।
केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि।
स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः।।
एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट्।
सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते।।
तदेतद्भरतश्रेष्ठ मयाऽऽख्यानं प्रकीर्तितम्।
सुपर्णस्य महाबाहो किं भूयः कथयामि ते।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनविंशोऽध्यायः।। 29 ।।