अनुशासनपर्व
अध्यायः २७३
वैशम्पायन उवाच।
ततः कुन्तीसुतो राजा पौरजानपदं जनम्।
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति।।
सान्त्वयामास नारीश्च हतपुत्रा हतेश्वराः।
विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः।।
सोभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः।
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा।।
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः।
प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतांवरः।।
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे।
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः।।
स निर्ययौ जगपुराद्यजकैः परिवारितः।
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम्।।
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः।
चन्दनागरुमुख्यानि तथा कालगरूणि च।।
प्रस्थाप्यच पूर्वं कौन्तेयो भीष्मसंस्करणाय वै।
माल्यानि च वरार्हाणि रत्नानि विविधानि च।।
धृतराष्ट्रं पुरुस्कृत्य गान्धारीं च यशस्विनीम्।
मातरं च पृथां धामान्भ्रातॄंश्च पुरुषर्षंभान्।।
जनार्दनेनानुगतो विदुरेण च धीमता।
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो।।
महता राजभोगेन पारिबर्हेण संवृतः।
स्तूयमानो महातेजा भीष्मिस्याग्नीननुव्रजन्।।
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा।
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः।।
उपास्यमानं व्यासेन पाराशर्येण धीमता।
नारदेन च राजर्षे देवलेनासितेन च।।
हतशिष्टैर्नृपैस्चान्यैर्नानादेशसमागतैः।
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः।।
शयानं वीरशयने ददर्श नृपतिस्ततः।
ततो रथादवारोहद्धातृभिः सह धर्मराट्।।
अभिवाद्याथ कौन्तेयः पितामहमरिंदमम्।
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः।।
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः।
आसाद्य शरतल्पस्थमृषिभिः परिवारितम्।।
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः।
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम्।।
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत।
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते।।
प्राप्तोस्मि समये राजन्नग्नीनादाय ते विभो।
आचार्यान्ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे।।
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः।
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान्।।
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः।
तान्पश्य नरशार्दूल समुन्मीलय लोचने।।
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया।
यथोक्तं भवता काले सर्वमेव च तत्कृतम्।।
वैशम्पायन उवाच।
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता।
ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य ह।।
ततश्चलवपुर्भीष्मः प्रगृह्य विपुलं भुजम्।
ओघमेघस्वरो वाग्मी काले वचनमब्रवीत्।।
दिष्ट्या प्राप्तोसि कौन्तेय सहामात्यो युधिष्ठिर।
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः।।
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः।
शरेषु निशिताग्नेषु यथा वर्षशतं तथा।।
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर।
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति।।
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्।
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत्।।
भीष्म उवाच।
राजन्विदितधर्मोसि सुनिर्णीतार्थसंशयः।
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः।।
वेद शास्त्राणि सूक्ष्माणि धर्मांश्च मनुजेश्वर।
वेदांश्च चतुरः सर्वान्षडङ्गैरुपबृंहितान्।।
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा।
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि।।
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः।
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान्।।
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव।
आनृशंस्यपरं ह्येन जानामि गुरुवत्सलम्।।
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः।
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि।।
वैशम्पायन उवाच।
एतावधुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्।
वासुदेवं महाबाहुमभ्यभाषय कौरवः।।
भीष्म उवाच।
भगवन्देवदेवेश सुरासुरनमस्कृत।
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर।।
वासुदेवो हिरण्यात्मा पुरुषः सविता विराद्।
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः।।
त्वद्भक्तं त्वद्गतिं शान्तमुदारमपरिग्रहम्।
त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः।
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम।।
रक्ष्याश्च ते पाण्डवेया भवान्येषां परायणम्।
उक्तवानस्मि दुर्बद्धिं मन्दं दुर्योधनं तदा।।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः।।
सन्धानस्य परः कालस्तवेति च पुनःपुनः।
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः।
घातयित्वेह पृथिवीं ततः स निधनं गतः।।
त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम्।
नरेण सहितं देव बदर्यां सुचिरोषितम्।।
तथा मे नारदः प्राह व्यासश्च सुमहातपाः।
नरनारायणावेतौ सम्भूतौ मनुजेष्विति।।
स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम्।
त्वयाऽहं समनुज्ञातो गच्छेयं परमां गतिम्।।
वासुदेव उवाच।
अनुजानामि भीष्म त्वां वसून्प्राप्नुहि पार्थिव।
न तेऽस्ति वृजिनं किञ्चिच्छुद्धात्मैश्वर्यसंयुतः।।
पितृभक्तोसि राजर्षे मार्कण्डेय इवापरः।
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः।।
वैशम्पायन उवाच।
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्।
धृतराष्ट्रमुखांश्चापि सर्वांश्च सुहृदस्तथा।।
प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ।
सत्येषु यतितव्यं वः सत्यं हि परमं बलम्।।
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः।
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः।।
इत्युक्त्वा सुहृदः सर्वांस्तथा सम्पूज्य चैव ह।
`धनं बहुविधं राजन्दत्त्वा नित्यं द्विजातिषु।'
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः।।
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः।
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
भीष्मस्वर्गारोहणपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः।। 273 ।।