अनुशासनपर्व
अध्यायः २७२
जनमेजय उवाच।
शरतल्पगते भीष्मे कौरवाणां धुरन्धरे।
शयाने वीरशयने पाण्डवैः समुपस्थिते।।
युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः।
धर्माणामागमं श्रुत्वा विदित्वा सर्वसंशयान्।।
दानानां च विधिं श्रुत्वा च्छिन्नधर्मार्थसंशयः।
यदन्यदकरोद्विप्र तन्मे शंसितुमर्हसि।।
वैशम्पायन उवाच।
अभून्मुहूर्तं स्तिमितं सर्वं तद्राजमण्डलम्।
तूष्णींभूते ततस्तस्मिन्पटे चित्रमिवार्पितम्।।
मुहूर्तमिव च ध्यात्वा व्यासःक सत्यवतीसुतः।
नृपं शयानं गाङ्गेयमिदमाह वचस्त्वरन्।।
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः।
सहितो भ्रातृभिः सर्वैः पार्तिवैश्चानुयायिभिः।।
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता।
तमिमं पुरयानाय समनुज्ञातुमर्हसि।।
एवमुक्तो भगवता व्यासेन पृथिवीपतिः।
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः।।
उवाच चैनं मधुरं नृपं शान्तनवो नृपः।
प्रविशस्व पुरीं राजन्धर्मे च ध्रियतां मनः।।
यजस्व विविधैर्यजैर्बह्वन्नैः स्वाप्तदक्षिणैः।
ययातिरिव राजेन्द्र श्रकद्धादमपुरःसरः।।
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय।
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः।।
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय।
सुहृदः फलसत्कारैरर्चयस्व यथार्हतः।।
अनुं त्वां तात जीवन्तु मित्राणि सुहृकदस्तथा।
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः।।
आगन्तव्यं च भवता समये मम पार्थिव।
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे।।
तथेत्युक्त्वा च कौन्तेयः सोभिवाद्य पितामहम्।
प्रययौ सपरीवारो नगरं नागसाह्वयम्।।
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्।
सह तैर्ऋषिभिः सर्वैर्भ्रातृभिः केशवेन च।।
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिव।
प्रविवेश कुरुश्रेष्ठः पुरं वारणसाह्वयम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः।। 272 ।।