अनुशासनपर्व

अध्यायः २७४

Anusasana Parva (Sanskrit) · Adhyaya 274
अक्षर का आकार

वैशम्पायन उवाच।

एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा।
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम।।

धारयामास चात्मानं धारणासु यथाक्रमम्।
तस्योर्ध्वमगमन्प्राणाः सन्निरुद्धा महात्मनः।।

इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्।
सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो।।

यद्यन्मुञ्चति गात्रं हि स शन्तनुसुतस्तदा।
तत्तद्विशल्यमभवद्योगयुक्तस्य वै क्रमात्।
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा।।

तद्दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः।
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप।।

सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च।
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह।।

देवदुन्दुभिनादश्च पुष्पवर्षैः सहाभवत्।
सिद्धा ब्रह्मर्षयश्चैव सादुसाध्विति हर्षिताः।।

महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप।
निःसृकत्याकाशमाविश्य क्षणेनान्तरधीयत।।

एवं स राजशार्दूल नृपः शान्तनवस्तदा।
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः।।

ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून्।
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा।
युयुत्सुश्चापि कौरव्यं प्रेक्षकास्त्वितरेऽभवन्।।

युधिष्ठिरश्च गाङ्गेयं धृतराष्ट्रश्च दुःखितौ।
छादयामासतुरुभौ क्षौमेर्माल्यैश्च कौरवम्।।

धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम्।
चामरे व्यजने शुभ्रे भीमसेनार्जुनावुभौ।
उष्णीषे परिगृह्णीतां माद्रीपुत्रावुभौ तथा।।

युधिष्ठिरेण सहितो धृतराष्ट्रश्च पादतः।
वृद्धा स्त्रियः कौरवाणां भीष्मं कुरुकुलोद्वहम्।
तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः।।

ततोस्य विदिवच्चक्रुः पितृमेधं महात्मनः।
याजका जुहुवुश्चाग्नौ जगुः सामानि समागाः।।

ततश्चन्दनकाष्ठैश्च तथा कालीयकैरपि।
कालागुरुप्रभृतिभिर्गन्धैश्चोच्चावच्चैस्तथा।।

समवच्छाद्य गाङ्गेयं सम्प्रज्वाल्य हुताशनम्।
अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम्।।

संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः।
जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः।।

अनुगम्यमाना व्यासेन नारदेनासितेन च।
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः।।

उदकं चक्रिरे सर्वे गाङ्गेयस्य महात्मनः।
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा।।

ततो भागीरथी देवी तनयस्योदके कृते।
उत्थाय सलिलात्तस्माद्रुदती शोकविह्वला।
परिदेवयती तत्र कौरकवानभ्यभाषत।।

निबोधत यथावृत्तमुच्यमानं मया नृपाः।
राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च।
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः।।

जामदग्न्येन रामेण यः पुरा न पराजितः।
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना।।

अश्मसारमयं नूनं हृदयं मम पार्थिवाः।
अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै।।

समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंपरे।
विजित्यैकरथेनाजौ कन्याश्चायं जहारह।।

यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन।
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः।।

जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना।
पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना।।

एवंविधं बहु तदा विलन्पतीं नहानदीम्।
आश्वासयामास तदा साम्ना दामोदरो विभुः।।

समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने।
गतः स परमं लोकं तव पुत्रो न संशयः।।

वसुरेष महातेजाः शापदोषेण शोभने।
मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि।।

स एष क्षत्रधर्मेण युध्यमानो रणाजिरे।
धनंजयेन निहतो नैष देवि शिखण्डिना।।

भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे।
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः।।

स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने।
न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः।।

तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्य कुरुनन्दनम्।
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव।।

वैशम्पायन उवाच।

इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा।
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह।।

सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप।
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः।।

।। इति श्रीमन्महाभारते
शतसाहस्रिकायां संहितायां
वैयासिक्यां अनुशासनपर्वणि
भीष्मस्वर्गारोहणपर्वणि
चतुःसप्तत्यधिकद्विशततमोऽध्यायः।। 274 ।।