अनुशासनपर्व
अध्यायः २७१
वैशम्पायन उवाच।
शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः।
युधिष्ठिरो हितं प्रेप्सुरपृच्छत्कल्मषापहम्।।
युधिष्ठिर उवाच।
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते।
विपाप्मा स भवेत्केन किं वा कल्मषनाशनम्।।
वैशम्पायन उवाच।
तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा।
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ।।
भीष्म उवाच।
अयं दैवतवंशो वै ऋषिवंशसमन्वितः।
त्रिसन्ध्यं पठितः पुत्र कल्मषापहरः परः।।
यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन्।
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि सन्ध्ययोः।।
मुच्यते सर्वपापेभ्यः कीर्तयन्वै शुचिः सदा।
नान्धो न बधिरः काले कुरुते स्वस्तिमान्सदा।।
तिर्यग्योनिं न गच्छेच्च नरकं सङ्कराणि च।
न च दुःखमयं तस्य मरणे स न मुह्यति।।
देवासुरगकुरुर्देवः सर्वभूतनमस्कृतः।
अचिन्त्योथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः।।
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती।
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः।।
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा।
विशाखो हुतभुग्वायुश्चन्द्रसूर्यौ प्रभाकरौ।।
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह।
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः।।
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः।
सङ्कल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः।।
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः।।
तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः।
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः।।
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा।।
आदित्या वसवो रुद्राः साश्विनः पितरोपि च।
धर्मः श्रुतं तपो दीक्षा व्यवसायः पितामहः।।
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा।
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः।।
नक्षत्राण्यृतवश्चैव मासाः पक्षाः सवत्सराः।
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा।।
शतद्रुश्च विपाशा च चन्द्रभागा सरस्वती।
सिन्धुश्च देविका चैव प्रभासं पुष्कराणि च।।
गङ्गा महानदी वेणा कावेरी नर्मदा तथा।
कुलम्पुना विशल्या च करतोयाम्बुवाहिनी।।
सरयूर्गण्डकी चैव लोहितश्च महानदः।
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा।।
गोदावरी च वेण्या च कृष्णवेणा तथाऽद्रिजा।
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा।।
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च।
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः।।
पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम्।
सिन्धूत्तमं तपो दानं जम्बूमार्गमथापि च।।
हिरण्वती वितस्ता च तथा प्लक्षवती नदी।
वेदस्मृतिर्वेदवती मालवाऽथाश्ववत्यपि।।
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च।
ऋषिकुल्यास्तथा मेध्या नद्यः सिन्धुवहास्तथा।।
चर्मण्वती नदी पुण्या कौशिकी यमुना तथा।
नदी भीमरथी चैव बाहुदा च महानदी।।
माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती।
नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः।।
गयाऽथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्।
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्।।
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्।
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः।।
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः।
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः।।
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा।
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः।।
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः।
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः।।
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा।
पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया।।
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात्।।
सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः।
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान्।।
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान्।
यवक्रीतोऽथ रैम्यश्च कक्षीवानौशिजस्तथा।।
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः।
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः।।
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा।
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान्।।
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ।।
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्।
उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान्।।
ऋषिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा।
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः।।
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः।
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्।
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्।
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च।।
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा।
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा।।
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च।
लोमशो नाचिकेतश्च लोमहर्षण एव च।।
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा।
एष वै समवायश्च ऋषिदेवसमन्वितः।।
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः।
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्।।
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्।
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा।।
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः।
पवनो जनकश्चैव तथा दृष्टरथो नृपः।।
रघुर्नरवरश्चैव तथा दशरथो नृपः।
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः।।
हरिश्चन्द्रो मरुत्तश्च तथा द?ढरथो नृपः।
महोदर्यो ह्यलर्कश्च ऐलश्चैव नराधिपः।।
करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः।
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः।।
कुरु संवरणश्चैव मांधाता सत्यविक्रमः।
मुचुकुन्दश्च राजर्षिर्जह्नुर्जाह्नविसेवितः।।
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः।
त्रसद्दस्युस्तथा राजा श्वेतो राजर्षिसत्तमः।।
महाभिषश्च विख्यातो निमी राजा तथाऽष्टकः।
आयुः क्षुपश्च राजर्षिः कक्षेयुस्च नराधिपः।।
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः।
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः।।
हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा।
अजः प्राचीनबर्हिश्च तथैक्ष्वाकुर्महायशाः।।
अनरण्यो नरपतिर्जानुजङ्घस्तथैव च।
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः।।
कल्यमुत्थाय यो नित्यं सन्ध्ये द्वेऽस्तमयोदये।
पठेच्छुचिरनावृत्तः स धर्मफलभाग्भवेत्।।
देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा।
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः।।
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः।
ध्रुवो जयो मे नित्यः स्यात्परत्र च शुभा गतिः।।
`पालय त्वं प्रजाः सर्वाः शान्तात्मा त्वनुशासिता।
द्वैपायनः स्वयंचक्षुः कृष्णस्तेऽस्तु परायणम्।।
वैशम्पायन उवाच।
इत्युक्त्वोपासनार्थाय विरराम महामतिः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकसप्तत्यधिकद्विशततमोऽध्यायः।। 271 ।।