अनुशासनपर्व

अध्यायः २७०

Anusasana Parva (Sanskrit) · Adhyaya 270
अक्षर का आकार

भीष्म उवाच।

कार्यते यच्च क्रियते सच्चासच्च कृताकृतम्।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्।।

काल एवान्तराशक्तिर्निग्रहानुग्रहौ ददत्।
बुद्धिमाविश्य भूतानां धर्माधर्मौ प्रवर्तते।।

यदा त्वस्य भवेद्बुद्धिर्धर्मार्थस्य प्रदर्शनात्।
तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत्।।

एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्।
कालयुक्तोऽप्युभयविच्छेषं युक्तं समाचरेत्।।

यथा ह्युपस्थितैश्वर्याः पूजयन्ति नरा जनान्।
एवमेवात्मनाऽऽत्मानं पूजयन्तीह धार्मिकाः।।

`भावशुद्धिस्तु तपसा देवतानां च मूजया।
सनातनेन शुद्ध्या च श्रुतदानजपैरपि।
न ह्यशुद्धस्तु तां दद्याद्धर्मकाले कथञ्चन।।'

न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन।
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम्।।

स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम्।
अधर्मः सन्ततो धर्मं कालेन परिरक्षितम्।।

कार्यावेतौ हि धर्मोणि धर्मो हि विजयावहः।
त्रयाणामपि लोकानामालोकः कारणं भवेत्।।

न तु कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम्।
ऊह्यमानस्तु धर्मेण प्राप्नुयात्परमच्युतम्।
विश्वास एव कर्तव्यो बहुधर्मे शुभच्छले।।

शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने।
इति विज्ञानमपरे नात्मन्युपदधत्युत।।

विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः।
पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम्।।

लोकधर्मे च धर्मे च विशेषकरणं कृतम्।
यथैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः।।

अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः।
यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः।।

सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम्।
कालो धर्मेण संयुक्तः शेष एव स्वयं गुरुः।।

एवं सति न दोषोऽस्ति भूतानां धर्मसेवने।
तिर्यग्योनावपि सतां लोक एव मतो गुरुः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः।। 270 ।।