अनुशासनपर्व

अध्यायः २६९

Anusasana Parva (Sanskrit) · Adhyaya 269
अक्षर का आकार

युधिष्ठिर उवाच।

नाभागधेयः प्राप्नोति धनं सुबलवानपि।
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति।।

नालाभकाले लभते प्रयत्नेऽपि कृते सति।
लाभकालेऽप्रयत्नेन लभते विपुलं धनम्।।

कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः।
अयत्नेनैधमानाश्च दृश्यन्ते बहवो जनाः।।

यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात्।
नालभ्यं चोपलभ्येत नृणां भरतसत्तम।।

प्रयत्नं कृतवन्तोपि दृश्यन्ते ह्यफला नराः।
मार्गत्यागशतैरर्थानमार्गश्चापरः सुखी।।

अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः।
धनयुक्ताः स्वकर्मस्था दृश्यन्ते चापरेऽधनाः।।

अधीत्य नीतिशास्त्राणि नीतियुक्तो न दृश्यते।
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना।।

विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्मतिस्तथा।
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात्।।

न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत्।
यथा पिपासां जयति पुरुषः प्राप्य वै जलम्।।

इष्टार्थो विद्यया ह्येव न विद्यां प्रजहेन्नरः।।

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति।।

भीष्म उवाच।

ईहमानः समारम्भान्यदि नासादयेद्धनम्।
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति।।

दानेन भोगी भवति मेधावी वृद्धसेवया।
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः।।

तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि।
सुभाषी प्रियकृच्छान्तः सर्वसत्वाविहिंसकः।।

यदा प्रमाणं प्रसवः स्वभावश्च सुखासुखे।
दंशकीटपिपीलानां स्थिरो भव युधिष्ठिर।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः।। 269 ।।