अनुशासनपर्व
अध्यायः २६८
युधिष्ठिर उवाच।
ये च धर्ममसूयन्ते ये चैनं पर्युपासते।
ब्रवीतु मे भवानेतत्क्व ते गच्छन्ति तादृशाः।।
भीष्म उवाच।
रजसा तमसा चैव समवस्तीर्णचेतसः।
नरकं प्रतिपद्यन्ते धर्मविद्वेषिमो जनाः।।
ये तु धर्मं महाराज सततं पर्युपासते।
सत्यार्जवपराः सन्तस्ते वै स्वर्गभूजो नराः।।
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत्।
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते।।
मनुष्या यदि वा देवाः शरीरमुपताप्य वै।
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः।।
प्रथमं ब्रह्म्णः पुत्रं धर्ममाहुर्मनीषिणः।
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशिनः।।
युधिष्ठिर उवाच।
असाधोः कीदृशं शीलं साधोश्चैव तु कीदृशम्।
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः।।
भीष्म उवाच।
दुराधाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः।
साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम्।।
राजमार्गे गवां मध्ये जनमध्ये च धर्मिणः।
नोपसेचन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः।।
पञ्चानां यजनं कृत्वा शेषमश्नन्ति साधवः।
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः।।
चित्रभानुमपां देवं गोष्ठं चैव चतुष्पथम्।
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम्।।
वृद्धानां भारतप्रानां स्त्रीणां बालातुरस्य च।
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये।।
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च।
`सामान्यं भोजनं कुर्यात्स्वयं नाग्र्यशनं व्रजेत्।।
न सत्यार्जवधर्मस्य तुल्यमन्यच्च विद्यते।
बहुला नाम गौस्तेन गतिमग्र्यां गता किल।।
मुनिशापाद्द्विजः कश्चिद्व्याघ्रतां समुपागतः।
बहुलां भक्षणरुचिरास्वाद्य शपथेन तु।।
विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम्।
जगाम लोकानमलान्सा स्वराष्ट्रं तथा पुनः।।
तस्मात्सत्यार्जवरतो राजन्राष्ट्रं समानवम्।
तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ।।
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः।।
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्।
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः।।
होमकाले यथा वह्निः काले होमं प्रतीक्षते।
ऋतुकाले तथाऽऽधानं पितरश्च प्रतीक्षते।
नान्यदा गच्छते यस्तु ब्रह्मचर्यं च तत्स्मृतम्।।
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः।
तस्मादोब्राह्मणान्नित्यमर्चयेत यथाविधि।।
यजुषां संस्कृतं मांसमुपभुञ्जत दुष्यति।
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम्।।
स्वदेशे परदेशे वाऽप्यतिथिं नोपवासयेत्।
कर्म वै सफलं कृत्वा गुरुणां प्रतिपादयेत्।।
गुरुभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च।
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया।।
वृद्धान्नाभिभवेज्जातु न चैतान्प्रेषयेदिति।
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते।।
न नग्रामीक्षते नारीं न नग्रान्पुरुषानपि।
मैथुनं सततं गुप्तं तपश्चैव समाचरेत्।।
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि।
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम्।।
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः।
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया।।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्।
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च।।
संस्कृतं पायसं नित्यं यावकं कृसरं हविः।
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम्।।
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्।
व्याधितानां च सर्वेषामायुषामभिनन्दनम्।।
न जातु त्वमिति ब्रूयादापन्नोपि महृत्तरम्।
त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते।
अवराणां समानानां शिष्याणां च समाचरेत्।।
पापमाचरते नित्यं हृदयं पापकर्मणाम्।
ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः।।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने।
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः।।
पापेनाभिहितः पापः पापमेवाभिजायते।।
यथा वार्धुषिको वृद्धिं दिनभेदे प्रतीक्षते।
धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत्।।
यथा लवणमम्भोभिराप्लुतं प्रविलीयते।
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति।।
तस्मात्पापं न गूहेत गूहमानं विवर्धते।
कृत्वा तु सादुष्वाख्यायाधर्मं प्रशमयन्त्युत।।
आशया सञ्चितं द्रव्यं स्वकाले नोपभुज्यते।
अन्ये चैतत्प्रद्यन्ते वियोगे तस्य देहिनः।।
`तद्धर्मसाधनं नित्यं सङ्कल्पाद्धनमार्जयेत्।'
मननं सर्वभूतानां धर्ममाहुर्मनीषिणः।
तस्मात्सर्वाणि भूतानि धर्ममेव समासते।।
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्।
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते।।
अर्चेद्देवानदम्भेन सेवेताऽमायया गुरून्।
धनं निदध्यात्पात्रेषु परत्रार्थं समावृतम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः।। 268 ।।