अनुशासनपर्व

अध्यायः २६७

Anusasana Parva (Sanskrit) · Adhyaya 267
अक्षर का आकार

वैशम्पायन उवाच।

इत्युक्तवति तद्वाक्यं कृष्णे देवकिनन्दने।
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः।।

निर्णये वा महाबुद्धे सर्वधर्मविदांवर।
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्।।

भीष्म उवाच।

नास्त्यत्रि संशयः कश्चिदिति मे वर्तते मतिः।
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वं मेऽनुपृच्छसि।।

संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः।
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शन्।।

प्रत्यक्षं कारणं दृष्टं हैतुकं प्राज्ञमानिनः।
नास्तीत्येवं व्यवस्यन्ति सत्यमागममेव वा।।

तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः।
अथ सञ्चिन्त्यमेवैकं कारणं किं भवेदिति।।

शक्यं दीर्घेण कालेन युक्तेनामन्त्रितेन च।
प्राणयात्रामनेकां च कल्पयानेन भारत।।

तत्परेणैव नान्येन शक्यते तत्तु कारणम्।
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्।।

ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते।
न त्वेव गमनं राजन्हेतुतो गमनं तथा।
अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत्।।

युधिष्ठिर उवाच।

प्रत्यिक्षं लोकतः सिद्धिर्लोकश्चागमपूर्वकः।
शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामहः।।

भीष्म उवाच।

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः।
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते।।

अधर्मो धर्मरूपेण तृणैः कूप इवावृतः।
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर।।

अवृत्त्या ये तु निन्दनि श्रुतत्यागपरायणाः।
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः।।

अतृप्यन्तस्तु साधूनां यावदागमबुद्धयः।
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च।।

कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ।
धर्म इत्येव सम्बुद्धस्तानुपास्स्व च पृच्छ च।।

न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च।
आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः।।

युधिष्ठिर उवाच।

पुनरेव हि मे बुद्धि संशये परिमुह्यति।
अपरो मज्जमानस्य परं तीरमपश्यतः।।

वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि।
पृथक्त्वं लभ्यते चैषां धर्मश्चैतत्त्रयं कथम्।।

भीष्म उवाच।

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः।
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा।।

एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम्।
पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा।।

[उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर।
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्।।

सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः।
अन्धो जड इवाशङ्की यद्ब्रवीमि तदाचर।।

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्।
अजातशत्रो सेवस्य धर्म एष सनातनः।।]

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता।
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः।।

प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः।
न स प्रमाणतामर्हो विषादजननो हि सः।।

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमान्य च।
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः।। 267 ।।