अनुशासनपर्व

अध्यायः २६६

Anusasana Parva (Sanskrit) · Adhyaya 266
अक्षर का आकार

वासुदेव उवाच।

युधिष्ठिर महाबाहो महाभाग्यं महात्मनः।
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे।।

वदन्त्युग्रं महादेवं तथा स्थाणुं महेश्वरम्।
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा।।

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः।
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः।।

उग्रा घोरा तनुर्याऽस्य सोऽग्निर्विद्युत्स भास्करः।
शिवा सौम्या च या त्वस्य धर्मस्त्वापोथ चन्द्रमाः।।

आत्मनोऽर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते।
ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा।।

याऽस्य घोरतमा मूर्तिर्जगत्संहरते तथा।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः।।

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते।।

देवानां सुमहान्यच्च यच्चास्य विषयो महान्।
यच्च विश्वं जगत्पाति महादेवस्ततः स्मृतः।।

धूम्ररूपा जटा यस्माद्धूर्जटीत्यत उच्यते।।

स मेधयति यन्नित्यं सर्वान्वै सर्वकर्मभिः।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः।।

दहत्यूध्वं स्थितो यच्च प्राणान्नॄणां स्थिरश्च यत्।
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः।।

यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः।।

विश्वेदेवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः।
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोपि वा।
चक्षुषः प्रभवं तेजः सर्वतश्चक्षुरेव तत्।।

सर्वथा यत्पशून्पाति तैश्च यद्रमते सह।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः।।

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्।
`भक्तानुग्रहणार्थाय गूढलिङ्गस्ततः स्मृतः।'
महयत्यस्य लोकश्च प्रियं ह्येतन्महात्मनः।।

विग्रहं पूजयेद्यो वै लिङ्गं वाऽपि महात्मनः।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते।।

ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा।
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्।

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः।
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः।।

एष एव श्मशानेषु देवो वसति निर्दहन्।
यजन्ते ये जनास्तत्र वीरस्थाननिषेविणः।।

विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह।
स च वायुः शरीरेषु प्राणपालः शरीरिणाम्।।

तस्य घोराणि रूपाणि दीप्तानि च बहुनि च।
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः।।

नामधेयानि देवेषु बहून्यस्य यथार्थवत्।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा।।

वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्।
व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः।।

प्रदाता सर्वलोकानां विश्वसाक्षी निरामयः।
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे।।

प्रथमो ह्येष देवानां मुखादग्निमजीजनत्।
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि।।

विमोक्षयति तुष्टात्मा शरण्यः शरणागतान्।
आयुरारोग्यमैश्वर्यं हितं कामांश्च पुष्कलान्।।

स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः।
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते।।

स एव स्थापको नित्यं त्रैलोक्यस्य शुभाशुभे।
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते।।

महेश्वरश्च लोकानां महातामीश्वरश्च सः।
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्।
तस्य देवस्य यद्वक्त्रं समुद्रे वडंवामुखण्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्षष्ट्यधिकद्विशततमोऽध्यायः।। 266 ।।