अनुशासनपर्व
अध्यायः २६५
युधिष्ठिर उवाच।
दुर्वाससः प्रसादात्ते शंकरांशस्य माघव।
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि।।
महाभाग्यं च यत्तस्य नामानि च महात्मनः।
तत्त्वमो ज्ञातुमिच्छामि सर्वं मतिमतांवर।।
वासुदेव उवाच।
हन्ति ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने।
यदवाप्तं मया राजञ्श्रेयो यच्चार्जितं यशः।।
प्रयतः प्रातरुत्थाय यस्त्वधीयेद्विशाम्पते।
प्राञ्जलिः शतरुद्रीयं नास्य किञ्चनि दुर्लभम्।।
`शिवः सर्वकतो रुद्रः स्रष्टा यस्त्वं शृणुष्व मे।'
प्रजापतिस्तमसृजत्तमसोऽन्ते महातपाः।
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः।।
नास्ति किञ्चित्परं भूतं महादेवाद्विशाम्पते।
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः।।
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते।।
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः।
विसंज्ञा हतभूयिष्ठा वेपनेते च पतन्ति च।।
घोरं च निनदं तस्य पर्जन्यनिनदोपम्।
श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे।
यं चाक्ष्णा घोररूपेण पश्येद्दग्धः पतेदधः।।
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः।
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः।।
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ।
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा।।
धनुषा वाणमुत्सृज्य सुघोरं विननाद च।।
ते न शर्म कुतः शान्ति विषादं लेभिरे सुराः।
विद्धे च सहसा यज्ञे कुपिते च महेश्वरे।।
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः।
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः।।
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरः।
व्यद्रवग्निरयश्चापि द्यौः पफाल च सर्वशः।।
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे।
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत।।
भृशं भीतास्ततः शान्तिं चत्रुः स्वस्त्ययनानि च।
ऋषयः सर्वभूतानामात्मनश्च हितैषिमः।।
ततः सोऽभ्यद्रवद्देवान्रुद्रो रौद्रपराक्रमः।
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्।।
पूषणं चाभिदुद्राव घोरेण वपुषाऽन्वितः।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्।।
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम्।
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम्।।
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः।
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः।।
जेषुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं तदा।
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः।।
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्।
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे।।
तेन चैव हि तुष्टेन स यज्ञः सन्धितोऽभवत्।
यद्यच्चापहृतं तत्र तत्तथैवान्वजीवयत्।।
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि।
आयसं राजतं चैव सौवर्णमपि चापरम्।।
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि।
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः।।
तत ऊचुर्महात्मानो देवाः सर्वे समागताः।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु।।
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद।
स तथोक्तस्तथेत्युक्त्वा कृत्वा विष्णुं शरोत्तमम्।।
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम्।
ओङ्कारं च धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमां।।
ब्रह्माणं सारथिं कृत्वा विनियुज्य च सर्वशः।
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः।।
शरेणादित्यवर्णेन कालाग्निसमतेजसा।
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत।।
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा।।
असूयतश्च शक्रस्य वज्रेणि प्रहरिष्यतः।
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्।।
न संयुयुधिरे चैव देवास्तं भुवनेश्वरम्।
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे।।
ततो ध्यात्वा च भगवान्ब्रह्मा तममितौजसम्।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम्।।
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः।
बभूव स तदा बालः प्रययौ तु यथापुरम्।।
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान्।
द्वारवत्यां मम गृहे चिरं कालमुपावसन्।।
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि।
तानुदारतया चाहं चक्षमे चातिदुःसहान्।।
स वै रुद्रः स च शिवः सोग्निः सर्वः स सर्वजित्।
स चैवेन्द्रश्च वायुश्च सोऽस्विनौ स च विद्युतः।।
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः।
स कालः सोन्तको मृत्युः स यमो रात्र्यहानि च।।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः।
सधाता स विधाता च विश्वकर्मा स सर्ववित्।।
नक्षत्राणि ग्रहाश्चैव दिशोऽथ प्रदिशस्तथा।
विश्वमूर्तिरमेयात्मा भगवान्परमद्युतिः।।
एकधा च द्विधा चैव बहुधा च स एव हि।
शतधा सहस्रधा चैव तथा शतसहस्रधा।।
ईदृशः स महादेवो भूयश्च भगवानतः।
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चषष्ट्यदिकद्विशततमोऽध्यायः।। 265 ।।