अनुशासनपर्व

अध्यायः २६४

Anusasana Parva (Sanskrit) · Adhyaya 264
अक्षर का आकार

युधिष्ठिर उवाच।

ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन।
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः।।

वासुदेव उवाच।

शृणुष्वावहितो राजन्द्विजानां भरतर्षभ।
यथातत्त्वेन वदतो गुणान्वै कुरुसत्तम।।

द्वारवत्यां समासीनं पुरा मां कुरुनन्दन।
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः।।

किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन।
ईश्वरत्वं कुतस्तेषामिहैव च परत्र च।।

सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद।
एतद्ब्रूहि स्फुटं सर्वं सुमहान्संशयोऽत्र मे।।

इत्युक्ते वचने तस्मिन्प्रद्युम्नेन तथा त्वहम्।
प्रत्यब्रवं महाराज यत्तच्छृणु समाहितः।।

व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे।
एते हि सोमराजान ईश्वराः सुखदुःखयोः।।

अस्मिँल्लोके रौक्मिणेय तथाऽमुष्मिंश्च पुत्रक।
ब्राह्मणप्रमुखं सौम्यं न मेऽत्रास्ति विचारणा।।

ब्राह्मणप्रभवं सौख्यमायुः कीर्तिर्यशो बलम्।
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूजकाः।।

त्रिवर्गे चापवर्गे च यशःश्रीरोगशान्तिषु।
देवतापितृपूजासु सन्तोष्याश्चैव नो द्विजाः।।

तान्कथं वै नाद्रियेयमीश्वरोस्मीति पुत्रक।
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति।।

ब्राह्मणा हि महद्भूतमस्मिँल्लोके परत्र च।
भस्म कुर्यर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः।।

हन्युस्तेऽपि सृजेयुस्च लोकान्लोकेश्वरांस्तथा।
कथं तेषु न वर्तेरन्सम्यग्ज्ञानात्सुतेजसः।।

अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः।
चीरवासा बिल्वदण्डी दीर्घश्मश्रुः कृशो महान्।।

दीर्घभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि।
स स्वैरं चरते लोकान्ये दिव्या ये च मानुषाः।।

इमां गाथां गायमानश्चत्वरेषु सभासु च।
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे।।

रोषणः सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते।
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम्।।

यो मां कश्चिद्वासयीत न स मां कोपयेदिति।
यस्मान्नाद्रियते कश्चित्ततोऽहं समवासयम्।।

स सम्भुङ्क्ते सहस्राणां बहूनामन्नमेकदा।
एकदा सोल्पकं भुङ्क्ते नचैवैति पुनर्गृहान्।।

अकस्माच्च प्रहसति तथाऽकस्मात्प्ररोदिति।
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा।।

अथ स्वावसथं गत्वा सशय्यास्तरणानि च।
अदहत्स महातेजास्ततश्चाभ्यपतत्स्वयम्।।

अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः।
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः।।

तदैव तु मया तस्य चित्तज्ञेन गृहे जनः।
सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा।।

भवन्तु सत्कृतानीह पूर्वमेव प्रयोचितः।
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम्।।

तं भुक्त्वैव स तु क्षिप्रं ततो वचनमब्रवीत्।
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह।।

अविमृश्यैव च ततः कृतवानस्मि तत्तथा।
तेनोच्छिष्टेन गात्राणि शरीरं च समालिपम्।।

स ददर्श तदाऽभ्याशे मातरं ते शुभाननाम्।
तामपि स्मयमानां स पायसेनाभ्यलेपयत्।।

मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत्।
तमारुद्य रथं चैव निर्ययौ स गृहान्मम।।

अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत्।
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः।।

न च मे स्तोकमप्यासीद्दुः खमीर्ष्याकृतं तदा।
तथा स राजमार्गेणि महता निर्ययौ बहिः।।

तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः।
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम्।।

ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन।
को ह्येनां रथमास्थाय जीवेदन्य पुमानिह।।

आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः।
ब्रह्माहिविषदिग्धस्य नास्ति कश्चिच्चिकित्सकः।।

तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि।
अमर्षयंस्तथा श्रीमान्स्मितपूर्वमचोदयम्।।

ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः।
पदातिरुत्पथेनैव प्राद्रवद्दक्षिणामुखः।।

तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम्।
तथैव पायसादिग्धः प्रसीद भगवन्निति।।

ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह।
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज।।

न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत।
प्रीतोस्मि तव गोविन्द वृणु कामान्यथेप्सितान्।।

प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधाम्।।

यावदेव मनुष्याणामन्ने भावो भविष्यति।
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति।।

यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति।
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे।
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन।।

यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम्।
सर्वं तथैव द्रष्टासि विशिष्टं जनार्दन।।

यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन।
अतो मृत्युभयं नास्ति यावदिच्छसि चाच्युत।।

न तु पादतले लिप्ते तस्मात्ते मृत्युरत्र वै।
नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत्तदा।।

इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम्।

रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः।
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने।।

न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि।
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि।।

षोडशानां सहस्राणां बधूनां केशवस्य ह।
वरिष्ठा च सलोक्या च केशवस्य भविष्यसि।।

तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत्।
प्रस्थितः सुमहातेजा दुर्वासाऽग्निरिव ज्वलन्।।

एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव।
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत।।

तस्मिन्नन्तर्हिते चाहमुपांशु व्रतमाचरम्।
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो।।

एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक।
ततः परमहृष्टात्मा प्राविशं गृहमेव च।।

प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम्।
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक।।

ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम्।
अपूजयं च मनसा रौक्मिणेय सदा द्विजान्।।

इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ।
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा।।

तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो।
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा।।

एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम्।
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः।। 264 ।।