अनुशासनपर्व

अध्यायः २६३

Anusasana Parva (Sanskrit) · Adhyaya 263
अक्षर का आकार

युधिष्ठिर उवाच।

ब्राह्मणानर्चसे राजन्सततं संशितव्रतान्।
कं तु धर्मोदयं दृष्ट्वा तानर्चसि जनाधिप।।

कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत।
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे।।

भीष्म उवाच।

एष ते केशवः सर्वमाख्यास्यति महामतिः।
व्युष्टिं ब्राह्मणपूजायां दृष्ट्वा व्युष्टिं महाव्रत।।

बलं श्रोत्रे वाङ्मनश्चक्षुषी च
ज्ञानं तथा नविशुद्धं ममाद्य।
देहन्यासो नातिचिरान्मतो मे
न चातितूर्णं सविताऽद्य याति।।

उक्ता धर्मा ये पुराणे महान्तो
राजन्विप्राणां क्षत्रियाणां विशां च।
येये शूद्राणां धर्ममुपासते ते
तानेव कृष्णदुपशिक्षस्व पार्थः।।

अहं ह्येनं वेद्मि तत्त्वेन कृष्णं
योऽयं हि यच्चास्य बलं पुराणम्।
अमेयात्मा केशवः कौरवेन्द्र
सोयं धर्मं वक्ष्यति सर्वमेतत्।।

कृष्णः पृथ्वीमसृजत्स्वं दिवं च
कृष्णस्यि देहान्मेदिनी सम्बभूव।
वराहोऽयं भीमबलः पुराणः
स पर्वतान्व्यसृजद्वै दिशश्च।।

अस्माद्वायुश्चान्तरिक्षं दिवं च
दिशश्चतस्रो विदिशश्चतस्रः।
सृष्टिस्तथैवेयमनुप्रसूता
स निर्ममे विश्वमिदं पुराणः।।

अस्य नाभ्यां पुष्करं सम्प्रसूतं
यत्रोत्पन्नः स्वयमेवामितौजाः।
येनाच्छिन्नं तत्तमः पार्थ घोरं
यत्र तिष्ठन्त्यर्णवास्तच्छयानाः।।

कृते युगे धर्म आसीत्समग्र-
स्त्रेताकाले यज्ञमनुप्रपन्नः।
बलं त्वासीद्द्वापरे पार्थ कृष्णः
कलौ त्वधर्मः क्षितिमेवाजगाम।।

स एव पूर्वं निजघान दैत्या-
न्स एव देवश्च बभूव सम्राट्।
स भूतानां भावनो भूतभव्यः
स विश्वस्यास्य जगतश्चाभिगोप्ताः।।

यदा धर्मो ग्लाति वंशे सुराणां
तदा कृष्णो जायते मानुषेषु।
धर्मे स्थित्वा स तु वै भावितात्मा
परांश्च लोकानपराश्च पाति।।

त्याज्यांस्त्यक्त्वा चासुराणां वधेन
कार्याकार्ये कारणं चैव पाति।
कृतं करिष्यत्क्रियते च देवो
राहुं सोमं विद्धि च शक्रमेनम्।।

स विश्वकर्मा स हि विश्वरूपः
स विश्वबुग्विश्वसृग्विश्वजिच्च।
स शूलभृच्छोणितभृत्कराल-
स्तं कर्मभिर्विदितं वै स्तुवन्ति।।

तं गन्धर्वाणामप्सरसां च नित्य-
मुपतिष्ठन्ते विबुधानां शतानि।
तं राक्षसाश्च परिसंवदन्ति
राजन्यानां स विजिगीषुरेकः।।

तमध्वरे शंसितारः स्तुवन्ति
रथन्तरे सामगाश्च स्तुवन्ति।
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति
तस्मै हविरध्वर्यवः कल्पयन्ति।।

स पौराणीं ब्रह्मगुहां प्रविष्टो
महीसत्रं भारताग्रे ददर्श।
स चैव गामुद्दधाराग्र्यकर्मा
विक्षोभ्य दैत्यानुरगान्दानवांश्च।।

तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्ति
स चापीशो भारतैकः पशूनाम्।
तस्य भक्षान्विविधान्वेदयन्ति
तमेवाजौ वाहनं वेदयन्ति।।

तस्यान्तरिक्षं पृथिवी दिवं च
सर्वं वशे तिष्ठति शाश्वतस्य।
स कुम्भे रेतः ससृजे सुराणां
यत्रोत्पन्नमृषिमाहुर्वसिष्ठम्।।

स मातरिश्वा विभुरश्ववाजी
स रश्मिवान्सविता चादिदेवः।
तेनासुरा विजिताः सर्व एव
तद्विक्रान्तैर्विजितानीह त्रीणि।।

स देवानां मानुषाणां पितॄणां
तमेवाहुर्यज्ञविदां वितानम्।
स एव कालं विभजन्नुदेति
तस्योत्तरं दक्षिणं चायने द्वे।।

तस्यैवोर्ध्वं तिर्यगधश्चरन्ति
गभस्तयो मेदिनीं भासयन्तः।
तं ब्राह्मणा वेदविदो जुषन्ति
तस्यादित्यो गामुपयुज्य भाति।।

स मासिमास्यध्वरकृद्विधत्ते
तमध्वरे वेदविदः पठन्ति।
स एवोक्तश्चक्रमिदं त्रिनाभि
सप्ताश्वयुक्तं वहते वै त्रिधामा।।

कृष्णं सदा पार्थ कर्तारमेहि।।

स एकदा कक्षगतो महात्मा
तुष्टो विभुः खाण्डवे धूमकेतुः।
स राक्षसानुरगांश्चावजित्य
सर्वत्रगः सर्वमग्नौ जुहोति।।

स एव पार्थाय श्वेतमश्वं प्रायच्छ-
त्स एवाश्वानथ सर्वांश्चकार।
सबन्धुरस्तस्य रथस्त्रिचक्र-
स्त्रिवृच्छिराश्चतुरश्वस्त्रिनाभिः।।

स विहायो व्यदधात्पञ्चनाभिः
स निर्ममे गां दिवमन्तरिक्षम्।
सोऽरण्यानि व्यसृजत्पर्वतांश्च
हृषीकेशोऽमितदीप्ताग्नितेजाः।।

अलङ्घयद्वै सरितो जिघांस-
ञ्शक्रं वज्रं प्रहरन्तं निरास।
स महेन्द्रः स्तूयते वै महाध्वरे
विप्रैरेको ऋक्सहस्रैः पुराणैः।।

दुर्वासा वै तेन नान्येन शक्यो
गृहे राजन्वासयितुं महौजाः।
तमेवाहुर्ऋषिमेकं पुराणं
स विश्वकृद्विदधात्यात्मभावान्।।

वेदांश्च यो वेदयतेऽधिदेवो
विधींश्च यश्चाश्रयते पुराणान्।
कामे वेदे लौकिके यत्फलं च
विष्वक्सेनः सर्वमेतत्प्रतीहि।।

ज्योतींषि शुक्लानि हि सर्वलोके
त्रयो लोका लोकपालास्त्रयश्च।
त्रयोऽग्रयो व्याहृतयश्च तिस्रः
सर्वे देवा देवकीपुत्र एव।।

स क्त्सरः स ऋतुः सोऽर्धमासः
सोऽहोरात्रः स कला वै स काष्ठाः।
मात्रा मुहूर्ताश्च लवाः क्षणाश्च
विष्वक्सेनः सर्वमेतत्प्रतीहि।।

चन्द्रादित्यौ ग्रहनक्षत्रताराः
सर्वाणि दर्शान्यथ पौर्णमासम्।
चन्द्रादित्यौ ग्रहनक्षत्रताराः
सर्वाणि दर्शान्यथ पौर्णमासम्।

सर्व कृष्णादृषयश्चैव सप्त।।

वायुर्भूत्वा विक्षिपते च विश्व-
मग्निर्भूत्वा दहते विश्वरूपः।
आपो भूत्वा मज्जयते च सर्वं
ब्रह्म भूत्वा सृजते विश्वसङ्घान्।।

वेद्यं च यद्वेदयते च वेद्यं
विधिश्च यश्च श्रयते विधेयम्।
धर्मे च वेदे च बले च सर्वं
चराचरं केशवं त्वं प्रतीहि।।

ज्योतिर्भूतः परमोसौ पुरस्ता-
त्प्रकाशते यत्प्रभया विश्वरूपः।
अपः सृष्ट्वा सर्वभूतात्मयोनिः
पुराऽकरोत्सर्वमेवाथ विश्वम्।।

ऋतूनुत्पातान्विविधान्यद्भुतानि
मेघान्विद्युत्सर्वमैरावतं च।
सर्वं कृष्णात्स्थावरं जङ्गं च
विश्वात्मानं विष्णुमेनं प्रतीहि।।

विश्वावासं निर्गुणं वासुदेवं
सङ्कर्षणं जीवभूतं वदन्ति।
ततः प्रद्युम्नमनिरुद्धं चतुर्थ-
माज्ञापयत्यात्मयोनिर्महात्मा।।

स पञ्चधा पञ्चगुणोपपन्नं
सञ्चोदयन्विश्वमिदं सिसृक्षुः।
ततश्चकारावनिमारुतौ च
खं ज्योतिरम्भश्चि तथैव पार्थ।।

स स्थावरं जङ्गमं चैवमेत-
च्चतुर्विधं लोकमिमं च कृत्वा।
ततो भूमिं व्यदधात्पञ्चबीजां
द्यावापृथिव्यग्निरथाम्बुवायू।।

न्सर्वान्सदा भूतपतिः सिसृक्षुः।।

शुभाशुभं स्थावरं जङ्गमं च
विष्वक्सेनात्सर्वमेतत्प्रतीहि।
यद्वर्तते यच्च भविष्यतीह
सर्वं ह्येतत्केशवं त्वं प्रतीहि।।

मृत्युश्चैव प्राणिनामन्तकाले
साक्षात्कृष्णः केशवो देहभाजाम्।
भूतं च यच्चेह न विद्म किञ्चि-
द्विष्वक्सेनात्सर्वमेतत्प्रतीहि।।

यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम्।
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतः परम्।।

एतादृशः केशवोऽतश्च भूयो
नारायणः परमश्चाव्ययश्च।
मध्याद्यन्तस्य जगतस्तस्तुषश्च
बुभूषतां प्रभवश्चाव्ययश्च।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः।। 263 ।।