अनुशासनपर्व
अध्यायः २६२
भीष्म उवाच।
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः।
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप।।
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः।
तदैव च्यवनेन द्यौर्हृता तेषां वसुन्धरा।।
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताऽभवन्।
शोकार्ताश्त महात्मानं ब्रह्माणं शरणं ययुः।।
देवा ऊचुः।
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित।
च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो।।
ब्रह्मोवाच।
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः।
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथापुरम्।।
ते ययुः शरणं विप्रानूचुस्ते काञ्जयामहे।
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति।।
भूगतान्हि विजेतारो वयमित्यब्रुवन्द्विजाः।
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम्।।
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः।
स च तान्ब्राह्मणानाह धनी कपवचो यथा।।
भवद्भिः सदृशः सर्वे कपाः किमिह वर्तते।
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः।।
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः।
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते।।
वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते।
दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः।।
सर्वे च नियतात्मानो बालानां संविभागिनः।
उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्।
स्वर्गातिं चैव गच्छन्ति तथैव शुभकर्मिणः।।
अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु।
पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते।।
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान्।
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः।।
ब्राह्मणा ऊचुः।
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः।
तस्माद्वध्याः कपाऽस्माकं धनिन्याहि यथागतम्।।
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः।
गृहीत्वाऽस्त्राण्यतो विप्रान्कपाः सर्वे समाद्रवन्।।
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः।
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान्।।
ब्रह्मसृष्टा हव्यभुजः कपान्हत्वा सनातनाः।
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप।।
हत्वा वै दानवान्देवाः सर्वे सम्भूय संयुगे।
ते नाभ्यजानन्हि तदा ब्राह्मणैर्निहतान्कपान्।।
अथागम्य महातेजा नारदोऽकथयद्विभो।
यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः।।
नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः।
प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः।।
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः।
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्।।
इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह।
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप।।
अर्जुन उवाच।
जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो।
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः।।
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम्।
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान्।।
अहो ब्राह्मणकर्माणि मयि मारुत तत्त्वतः।
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च।।
वायुरुवाच।
ब्राह्मणान्क्षात्राधर्मेण पालयस्वेन्द्रियाणि च।
विप्रेभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः।। 262 ।।