अनुशासनपर्व

अध्यायः २६१

Anusasana Parva (Sanskrit) · Adhyaya 261
अक्षर का आकार

भीष्म उवाच।

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्।
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः।।

घोरे तमस्ययुध्यन्त सहिता देवदानवाः।
अविद्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ।।

अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः।
देवा नृपतिशार्दूल सहैव बलिभिस्तदा।।

असुरेर्वध्यमानास्ते क्षीणप्राणा दिवौकसः।
अपश्यन्त तपस्यन्तमत्रिं विप्रं तपोधनम्।।

अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम्।
असुरेरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ।।

वयं वध्यामहे चापि शत्रुभिस्तमसा वृते।
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो।।

अत्रिरुवाच।

कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव।
तिमिरघ्नश्च सविता दस्युहन्ता च नो भव।।

एवमुक्तस्तदात्रिर्वै तमोनुदभवच्छशी।
अपश्यत्सौम्यभावाच्च सोमवत्प्रियदर्शनः।।

दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव।
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे।।

जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा।
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा।।

अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान्।
पराक्रमैस्तेऽपिं तदा व्यघ्नन्नत्रिसुरक्षिताः।
उद्भासितश्च सविता देवास्त्राता हतासुराः।।

अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा।
द्विजेनाग्निद्वितीयेनि जपता चर्मवाससा।।

फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम्।
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः।
ब्रवीम्यन्यं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम्।।

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्ततोऽब्रवीत्।
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः।।

अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम्।
प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु।।

इन्द्र उवाच।

अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम्।
देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः।।

अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत।
यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः।।

च्यवन उवाच।

पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ।
उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर।।

क्रियतां मद्वचो देवा यथा वै समुदाहृतम्।
एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम्।।

इन्द्र उवाच।

अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम।
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे।।

च्यवन उवाच।

न चेत्करिष्यसि वचो मयोक्तं बलसूदन।
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे।।

वायुरुवाच।

ततः कर्म समारब्धं हिताय सहसाऽश्विनोः।
च्यवनेनि ततो मन्त्रैरभिभूताः सुराऽभवन्।।

तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः।
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत्।।

तथा वज्रेम भगवानमर्षाकुललोचनः।
तमापतन्तं दृष्ट्वैव च्यवनस्तपसाऽन्वितः।।

अद्भिः सिक्त्वाऽस्तम्ययतं सवज्रं सहपर्वतम्।
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि।।

मदं नामाहुतिमयं व्यादितास्यं महामुनिः।
तस्य दन्तसहस्रं तु बभूव शतयोजनम्।।

द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः।
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम्।।

जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः।
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे।।

ते सम्मन्त्र्य ततो देवा मदस्यास्य समीपगाः।
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये।।

अश्विभ्यां सह सोमं च पिबाम विगतज्वराः।
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत्।।

च्यवनः कृतवानेतावश्विनौ सोमपायिनौ।
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः।।

अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान्।
एतैर्दोषैर्नरा राजन्क्षयं यान्ति न संशयः।।

तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेतद्।।

एतत्ते च्यवनस्यापि कर्मि राजन्प्रकीर्तितम्।
ब्रवीम्यन्यं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः।। 261 ।।