अनुशासनपर्व

अध्यायः २६०

Anusasana Parva (Sanskrit) · Adhyaya 260
अक्षर का आकार

भीष्म उवाच।

इत्युक्तः स नृपस्तूष्णीमभूद्वायुस्ततोऽब्रवीत्।
शृणु राजन्नगस्त्यस्य महात्म्यं ब्राह्ममस्य ह।।

असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः।
यज्ञाश्चैषां हृताः सर्वे पितॄणां च स्वधास्तथा।।

कर्मज्या मानवानां च दानवैर्हैहयर्षभ।
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः।।

ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम्।
ददृशुस्तेजसाः युक्तमगस्त्यं विपुलव्रतम्।।

अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च।
इदमूचुर्महात्मानं वाक्यं काले जनाधिप।।

दानवैर्युधि भग्नाः स्म तथैश्वर्याच्चि भ्रंशिताः।
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गवः।।

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्।
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये।।

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा।
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः।।

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा।
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम्।।

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः।
येन्येऽधस्ता महीस्थाश्च तेन दग्धा महासुराः।।

त्यक्तलोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप।
अथैनमब्रुवन्देवा भूमिष्ठानसु राञ्जहि।।

इत्युक्तः प्राह देवान्स न शक्तोस्मि महीगतान्।
दग्धुं तपो हि क्षीयेन्मे न धक्ष्यामीति पार्थिव।।

एवं दग्धा भगवता दानवाः स्वेन तेजसा।
अगस्त्येन तदा राजंस्तपसा भावितात्मना।।

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ।
ब्रवीम्यन्यं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम्।।

भीष्म उवाच।

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्।
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः।।

`वैखानसविधानेन गङ्गातीरं समाश्रिताः।'
आदित्याः सत्रमासन्त सरो वैखानसं प्रति।
वसिष्ठं मनसा गत्वा ज्ञात्वा तत्वस्य गोचरम्।।

यजमानांस्तु तान्दृष्वा सर्वान्दीक्षानुकर्शितान्।
हन्तुमैच्छन्त शैलाभा बलिनो नाम दानवाः।।

अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः।
हता हता वै तत्रैते जीवन्त्याप्लुत्य दानवाः।।

ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान्।
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम्।।

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि।
ततस्तैरर्दिता देवाः शरणं वासवं ययुः।।

स च तैर्व्यथितः शक्रो वसिष्ठं सरणं ययौ।
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः।।

तदा तान्दुःकितान्ज्ञात्वा आनृशंस्यपरो मुनिः।
अयत्नेनादहत्सर्वाञ्ज्वलता स्वेन तेजसा।।

कैलासं प्रस्थितां चैव नदीं गङ्गां महातपाः।
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः।।

सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत्।
हताश्च बलिनो यत्र स देशे बलिनोऽभवत्।।

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः।
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना।।

एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ।
ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम्।। 26 ।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः।। 260 ।।