अनुशासनपर्व

अध्यायः २५९

Anusasana Parva (Sanskrit) · Adhyaya 259
अक्षर का आकार

वायुरुवाच।

इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ।।

धारिणीं सर्वभूतानामयं प्राप्य वरो नृपः।
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम्।।

साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम्।
अयं सराष्ट्रो नृपतिर्मार्भूदिति ततोऽगमत्।।

ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा।
प्रविवेश महीं सद्यो युक्तात्मा सुसमाहितः।।

ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता।
धर्मोत्तरा नष्टभया भूमिरासीत्तमतो नृप।।

एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः।
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः।।

अथागम्य महाराजन्नमस्कृत्यि च कश्यपम्।
पृथवी काश्यपी जज्ञे सुता तस्य महात्मनः।।

एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत्।
अन्यं प्रब्रूहि वा त्वं च कश्यपात्क्षत्रियं वरम्।।

तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीद्वचः।
शृणु राजन्नुचथ्यस्य जातस्याङ्गिरसे कुले।।

भद्रा सोमस्य दुहिता रूपेण परमा मता।
तस्यास्तुल्यं पतिं सोम उचथ्यं समपश्यत।।

सा च तीव्रं तपस्तेपे महाभागा यशस्विनी।
उचथ्यं तु महाभागं तत्कृते वरयत्तदा।।

तत आहूय चोचथ्यं ददामीति यशस्विनीम्।
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिणः।।

तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह।
स चागम्य वनप्रस्थं यमुनायां जहार ताम्।।

जलेश्वरस्तु हृत्वा तामनयस्त्वं पुरं प्रति।
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम्।।

न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम्।
वासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम्।।

तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः।
तदाख्यातमुचथ्याय ततः पत्न्यवमर्दनम्।।

तच्छ्रुत्वा नारदात्सर्वमुचथ्यो नारदं तदा।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः।।

मद्वाक्यान्मुञ्च मे भार्यां कस्मात्तां हृतवानसि।
लोकपालोसि लोकानां न लोकस्य विलोपकः।।

सोमेन दत्ता भार्या मे त्वया चापहृताऽद्य वै।
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः।।

मुञ्च भार्यामुचथ्यस्य कस्मात्त्वं हृतवानसि।
इति श्रुत्वा वचस्तस्य सोऽथ तं वरुणोऽब्रवीत्।।

ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे।
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम्।
उचथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव।।

गले गृहीत्वा क्षिप्तोस्मि वरुणेन महामुने।
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत्।।

नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः।
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः।।

पीयमाने तु सर्वस्मिंस्तोयेऽपि सलिलेश्वरः।
सुहृद्भिर्भिक्षमाणोऽपि नैवामुञ्चत तां तदा।।

ततः क्रुद्धोऽब्रवीद्भूमिमुचथ्यो ब्राह्मणोत्तमः।
दर्शय स्वस्थलं भद्रे षट्सहस्रशतह्रदम्।।

ततस्तदीरणं जातं समुद्रस्यावसर्पतः।
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः।।

अदृश्या गच्छ भीरु त्वं सरस्वति मरून्प्रति।
अणुण्यभूषो भवतु देशस्त्यक्तस्तया शुभे।।

ततश्चूर्णीकृते देशेक भद्रामादाय वारिपः।
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै।।

प्रतिगृह्य तु तां भार्यामुचथ्यः सुमनाऽभवत्।
मुमोच च जगद्दुःखान्मरुतश्चैव निर्मलाः।।

ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित्।
उचथ्यः सुमहातेजा यत्तुच्छृणु नराधिप।।

मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप।
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ।।

एष राजन्नीदृशो वै उचथ्यो ब्राह्मणर्षभः।
ब्रवीमि हान्यं ब्रूहि त्वमुचथ्यात्क्षत्रियं वरम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः।। 259 ।।