अनुशासनपर्व

अध्यायः २६

Anusasana Parva (Sanskrit) · Adhyaya 26
अक्षर का आकार

`गरुड उवाच।

कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ।।
युगपद्गृहीतं तं मे त्वमुपायं वक्तुमर्हसि।।

कश्यय उवाच।

योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः।
उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः।।

जलजं निर्गतं तात प्रमत्तं चैव वारणम्।
ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते।।

भीष्म उवाच।

इत्येमुक्तो विहगस्तद्गत्वा वनमुत्तमम्।
ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम्।।

तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारतः।
स तं दृष्ट्वा महाभागः सम्प्रहृष्टतनूरुहः।।

बिभक्षयिषतो राजन्दारुणस्य महात्मनः।।
मातङ्गं कच्छपं चैव प्रहर्षः सुमहानभूत्।।

अथ वेगेन महता खेचरः स महाबलः।
सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत।।

तथा गत्वा तमध्वानं वारणप्रवरो बली।
निशश्वास महाश्वासः श्रमाद्विश्रमणाय च।।

तस्य निश्वासवातेन मदगन्धेन चैव ह।
उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः।।

तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः।
कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्वादयोरिव।।

स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम्।
दन्तैर्नस्तैश्च जलजो वारयामास भारत।।

जलजं वारणोऽप्येवं चरणैः पुष्करेण च।
प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च।।

मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम्।
अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः।।

स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तत।
तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः।।

तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवात्।
अभिदुद्राव वेगेन वज्रयाणिरिवासुरम्।।

तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम्।
उभावेव समस्तौ तु जग्राह विनतासुतः।।

चरणेन तु सव्येन जग्राह स गजोत्तमम्।
प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम्।।

उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदतः।
दिवं खं च समुत्पत्य पक्षाभ्यामपराजितः।।

तेन चोत्पतता तूर्णं सङ्गृहीतौ नखैर्भृशम्।
वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः।।

तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ।
विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह।।

अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते।
निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम्।।

नैमिषं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः।
अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम्।।

हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम्।
परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः।।

तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम्।
दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता।।

तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ।
अत्तुकामस्ततः शाखा तस्य वेगादवापतत्।।

तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः।
आसीनान्वसुभिः सार्धं सत्रेण जगतीपते।।

वैखानसान्नाम यतीन्वालखिल्यगणानपि।
तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत।।

तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह।
तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः।
तौच पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत्।।

तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम्।
ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह।
न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः।।

असौ यच्छति धर्मात्मा गुरुभारसमन्वितः।
अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः।।

एवं ते समयं सर्वे वसवश्च दिवौकसः।
अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह।।

स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः।
मुमुक्षः शाखिनः शाखां न स्म देशमपश्यत।।

स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः।
देवदूतस्य विस्पष्टमाभाष्य गरुडेति च।।

वैनतेय कुविन्देषु समुद्रान्ते महाबल।
पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयाः।।

तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः।
उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः।।

ततो गत्वा ततः शाखां मुमोच पततांवरः।
तया हता ********* दास्तदा षड्विंशतो नृप।।

स देशो राजशार्दूल ख्यातः परमदारुणः।
शाखापतग इत्येव कुविन्दानां महात्मनाम्।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षड्विंशोऽध्यायः।। 26 ।।