अनुशासनपर्व

अध्यायः २५

Anusasana Parva (Sanskrit) · Adhyaya 25
अक्षर का आकार

`भीष्म उवाच।

तथेत्युक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः।
अमृताहरणे वाचं ततः पितरमब्रवीत्।।

कामं वै सूनृता वाचो विसृज्य च मुहुर्मुहुः।
यच्चाप्यनुज्ञां मातुर्वै न च सा ह्यनुमन्यते।।

सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै।
भगवन्विनता दासी मम माता महाद्युते।।

कद्रूः प्रेषयते चैव दासीयमिति चाब्रवीत्।
आहरामृतमित्येव मोक्ष्यते विनता ततः।।

सोहं मातृविमोक्षार्थमाहरिष्य इति ब्रुवन्।
अमृतं प्रार्थितस्तूर्णमाहर्तुं प्रतिनन्द्य वै।।

पितोवाच।

अमृतं तात दुष्प्रापं देवैरपि कुतस्त्वया।
रक्ष्यते हि भृशं पुत्र रक्षिभिस्तन्निबोध मे।।

गुप्तमद्भिर्भृशं साधु सर्वतः परिवारितम्।
अनन्तरमथो गुप्तं ज्वलता जातवेदसा।।

ततः शतसहस्राणि अयुतान्यर्बुदानि च।
रक्षन्त्यमृतमत्यन्तं किङ्करा नाम राक्षसाः।।

तेषां शक्त्यृष्टिशूलांश्च शतघ्न्यः पट्टसास्तथा।
आयुधा रक्षिणां तात वज्रकल्पाः शिलास्तथा।।

ततो जालेन महता अवनद्धं समन्ततः।
अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात्।।

तत्त्वमेवंविधं तात कथं प्रार्थयसेऽमृतम्।
सुरक्षितं वज्रभृतां वैनतेय विहङ्गम।
इन्द्रेण देवैर्नागैश्च खड्गैर्गिरिजलादिभिः।।

गरुड उवाच।

पुत्रगृद्ध्या ब्रवीष्येतच्छृणु तात विनिश्चयम्।
बलवानुपायवानस्मि भूयः किं करवाणि ते।।

तमब्रवीत्पिता हृष्टः प्रहसन्वै पुनः पुनः।
यदि तौ भक्षयेस्तात क्रूरौ कच्छपवारणौ।।

तथा बलममेयं ते भविता तन्न संशयः।
अमृतस्यैव चाहर्ता भविष्यसि न संशयः।।

गरुड उवाच।

क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ।
भक्षयिष्याम्यहं तात बलस्याप्यायनं प्रति।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चविंशोऽध्यायः।। 25।।