अनुशासनपर्व
अध्यायः २७
`भीष्म उवाच।
हत्वा तं पक्षिशार्दूलः कुविन्दानां जनं व्रती।
उपोपविश्य शैलाग्रे भक्षयामास तावुभौ।
वारणं कच्छर्प चैव संहृष्टः स पतत्रिराट्।।
तयोः स रुधिरं पीत्वा मेदसी च परन्तप।
संहृष्टः यततांश्रेष्ठो लब्ध्वा बलमनुत्तमम्।
जंगाम देवराजस्य भवनं पन्नगाशनः।।
तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम्।
रात्रिदिवं प्रज्वलितं रक्षार्थममृतस्य ह।।
तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमुपाविशत्।
नतु तोयान्न रक्षिभ्यो भयमस्योपपद्यते।।
पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम्।
पितामहमथो गत्वा ददर्श भुजगाशनः।।
तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः।
प्रोवाच तदसन्दिग्धं वचनं पन्नगेश्वरः।।
उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम्।
विमोक्षणार्थं मातुर्हि दासभावादनिन्दितम्।।
कद्रूसकाशममृतं मयाहर्तव्यमीश्वर।
तदा मे जननी देव दासभावात्प्रमोक्ष्यते।।
तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति।
हिरण्यरेता भगवान्पाकशासनशासनात्।।
तत्र मे देवदेवेश भयं तीव्रमथाविशत्।
ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो।।
समतिक्रमितुं शक्यः कथं स्यात्पावको मया।
तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो।।
तमब्रवीन्महाभाग तप्यमानं विहङ्गमम्।
अग्नेः संशमनोपायमुत्सयन्त पुनःपुनः।।
पयसा शाम्यते वत्स सर्पिषा च हुताशनः।
शरीरस्थोपि भूतानां किं पुनः प्रज्वलन्भुवि।।
नवनीतं पयो वाऽपि पावके त्वं समादधेः।
ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तविंशोऽध्यायः।। 27 ।।