अनुशासनपर्व

अध्यायः २५८

Anusasana Parva (Sanskrit) · Adhyaya 258
अक्षर का आकार

वायुरुवाच।

शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम्।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः।।

त्यक्त्वा महीत्वं भूमिस्तु स्पर्धया काश्यपस्य ह।
नाशं जगाम तां विप्रो व्यस्तम्ययत कश्यपः।।

अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा।
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा।।

स ताः पिबञ्शीरमिव नातृप्यत महातपाः।
अपूरयन्महौघेन महीं सर्वां च पार्थिव।।

तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो भयात्।
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्।।

अथ शप्तश्च भगवान्गौतमेन पुरंदरः।
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः।।

तथा समुद्रो नृपते पूर्णो दृष्टश्च वारिणा।
ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः।।

सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः।
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः।।

महतश्चूर्णितान्पश्य ये हासन्त महोदधिम्।
सुवर्णिधारिणा नित्यमवशप्ता द्विजातिना।।

सम्मतत्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप।
गर्भस्थान्ब्राह्मणाञ्शश्वन्नमस्यति किल प्रभुः।।

दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम्।
तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम्।।

त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा।
दत्तात्रेयप्रसादेन प्रप्तं परमदुर्लभम्।।

अग्निं त्वं यजसे नित्यं कस्माद्ब्राह्मणमर्जन।
स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम्।।

अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम्।
कर्तारं जवलोकस्य कस्माज्जानन्विमुह्यसे।।

तथा प्रजापतिर्ब्राह्मा अव्यक्तप्रभवोऽव्ययः।
येनेदं विपुलं विश्वं जनितं स्थावरं चरम्।।

अण्डजातं तु ब्रह्माणं केचिदिच्छिन्त्यपण्डिताः।
अण्डाद्भिन्नाद्बभुः शैला दिशोंऽभः पृथिवी दिवम्।।

दृष्टवानेतदेवं हि कथं जायेदजो हि सः।
स्थानमाकाशमण्डं तु यस्माज्जातः पितामहः।।

तिष्ठेत्कथमिति ब्रूयान्न किञ्चिद्धि तदा भवेत्।
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः।।

नास्त्यन्तमस्ति तु ब्रह्मा स राजा लोकभावनः।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः।। 258 ।।