अनुशासनपर्व
अध्यायः २५७
युधिष्ठिर उवाच।
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप।
कं वा धर्मोदयं मत्वा तानर्चसि महामते।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पवनस्य च संवादमर्जुनस्य च भारत।।
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः।।
स तु रत्नाकरवतीं सप्तद्वीपां ससागराम्।
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः।।
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे।
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च।।
आराधयामास च तं कृतवीर्यात्मजो मुनिम्।
न्यमन्त्रयत संतुष्टो द्विजश्चैनं वरैस्त्रिभिः।।
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्।
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा।।
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे।
विक्रमेणि महीं कृत्स्नां जयेयं संशितव्रत।।
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः।
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम।।
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित।
अनुशाशन्तु मां सन्तो मिथ्यावृत्तं त्वदाश्रयम्।।
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः।।
गतः स रथमास्थाय ज्वलनार्कसमद्युतिम्।
अब्रवीद्वीर्यसंमोहात्को वाऽस्ति सदृशो मम।।
धैर्यैर्वीर्यैर्यशःशौर्यौर्विक्रमेणौजसाऽपि वा।
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी।।
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम्।
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः।।
अर्जुन उवाच।
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये।
कर्म्णा मनसा वाचा न मत्तोस्ति वरो द्विजः।।
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः।
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते।।
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्।
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि।।
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्।
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः।।
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा।
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे।।
कथितं त्वनयाऽसत्यं गायन्त्या कन्यया दिवि।
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः।।
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन।
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम्।।
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्।
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम्।।
अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी।
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत।।
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु।
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति।।
अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः।
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः।।
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः।
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम्।।
अर्जुन उवाच।
अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः।
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम्।।
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम्।
अपां वै सदृशं वह्नेः सूर्यस्य नभसोऽपि वा।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः।।