अनुशासनपर्व

अध्यायः २५६

Anusasana Parva (Sanskrit) · Adhyaya 256
अक्षर का आकार

युधिष्ठिर उवाच।

के पूज्याः के नमस्कार्या कथं वर्तेत केषु च।
किमाचारः कीदृशेषु पितामह न रिष्यते।।

भीष्म उवाच।

ब्राह्मणानां परिभवः सादयेदपि देवताः।
ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते।।

ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्।
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः।।

ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः।।
धनत्यागाभिरामास्चि वाक्सङ्गमधुराश्च ये।।

रमणीयाश्च भूतानां नियमेन धृतव्रताः।
प्रणेतारश्च कोशानां शास्त्राणां च यशस्विनः।।

तपो येषां धनं नित्यं वाक्चैव विपुलं बलम्।
प्रसवाश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः।।

धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेवतः।
यान्समाश्रित्य तिष्ठन्ति प्रजाः सर्वाश्चतुर्विधाः।।

पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः।
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा।।

धुरि ये नावसीदन्ति विषमे सद्धया इव।
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः।।

भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात्।
दीपः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि।।

सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः।
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः।।

आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः।
परावरविशेषज्ञा गन्तारः परमां गतिम्।।

विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः।
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः।।

चन्दने मलपङ्के च भोजनेऽभोजने समाः।
समं येषां दुकूलं च शाणक्षौमाजिनानि च।।

तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि।
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः।।

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्।
लोकानन्यान्सृजेयुस्ते लोकपालांश्च कोपिताः।।

अपेयः सागरो येषामपि सापान्महात्मनाम्।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति।।

देवानामपि ये देवाः कारणं कारणस्य च।
प्रमामस्य प्रमाणं च तस्मान्नाभिभवेद्बुधः।।

तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः।
तपोविद्याविशेषात्तु मानयन्ति परस्परम्।।

अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत्।
विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः।।

अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्।
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत्।।

श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति।
हविर्यज्ञे च विधिवद्भूय एवाभिशोभते।।

एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु।
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः।। 256 ।।