अनुशासनपर्व
अध्यायः २५२
नारद उवाच।
अथ व्योम्नि महाञ्शब्दः सविद्युत्स्तनयित्नुमान्।
मेघैश्च गगनं नीलं संरुद्धमभवद्धनैः।।
प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः।
तमश्वैवाभवद्धोरं दिशश्च न चकाशिरे।।
ततो देवगिरौ तस्मिन्रम्ये पुण्ये सनातने।
न शर्वं भूतसङ्घं वा ददृशुर्मनयस्तदा।।
व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत।
तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम्।।
तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताऽभवन्।
शङ्करस्योमया सार्धं संवादं त्वत्कथाश्रयम्।।
स भवान्पुरुषव्याघ्र ब्रह्मभूतः सनातनः।
यदर्थमनुशिष्टा स्मो गिरिपृष्ठे महात्मना।।
द्वितीयं त्वद्भुतमिदं त्वत्तेजःकृतमद्य वै।
दृष्ट्वा च विस्मिताः कृष्ण सा च नः स्मृतिरागता।।
एतत्ते देवदेवस्य माहात्म्यं कथितं प्रभो।
कपर्दिनो गिरीशस्य महाबाहो जनार्दन।।
इत्युक्ताः स तदा कृष्णस्तपोवननिवासिभिः।
मानयामास तान्सर्वानृषीन्देवकिनन्दनः।।
अथर्षयः सम्प्रहृष्टाः पुनस्ते कृष्ममब्रुवन्।
पुनःपुनर्दर्शयास्मान्सदैव मधुसूदन।।
न हि नः सा रति स्वर्गे या च त्वद्दर्शने विभो।
तदृतं च महाबाहो यदाह भगवान्भवः।।
एतत्ते सर्वमाख्यातं रहस्यमरिकर्शन।
त्वमेव ह्यर्ततत्त्वज्ञः पृष्टोऽस्मान्पृच्छसे यदा।।
तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम्।
न च तेऽविदितं किञ्चित्त्रिषु लोकेषु विद्यते।।
जन्म चैव प्रसूतिश्च यच्चान्यत्कारणं विभो।
वयं तु बहुचापल्यादशक्ता गुह्यधारणे।।
ततः स्थिते त्वयि विभो लघुत्वात्प्रलपामहे।
न हि किञ्चित्तदाश्चर्यं यन्न वेत्ति भवानिह।।
दिवि वा भुवि वा देव सर्वं हि विदितं तव।
साधयाम वयं कृष्ण बुद्धिं पुष्टिमवाप्नुहि।।
पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति।
महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभुः।।
भीष्म उवाच।
ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम्।
प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः।।
सोयं नारायणः श्रीमन्दीप्त्या परमया युतः।
व्रतं यथावत्तच्चीर्त्वा द्वारकां पुनरागमत्।।
पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भुतः।
रुक्मिण्यां सम्मतो जज्ञे शूरो वंशधरः प्रभो।।
स कामः सर्वभूतानां सर्वभावगतो नृप।
असुराणां सुराणां च चरत्यन्तर्गतः सदा।।
सोयं पुरुषशार्दूलो मेघवर्णश्चतुर्भुजः।
संश्रितः पाण्डवान्प्रेम्णा भवन्तश्चैनमाश्रिताः।।
कीर्तिर्लक्ष्मीर्धृतिश्चैवक स्वर्गमार्गस्तथैव च।
यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः।।
सेन्द्रा देवास्त्रयस्त्रिंशदेष नात्र विचारणा।
आदिदेवो महादेवः सर्वभूतप्रतिश्रयः।।
अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः।
अयं जातो महातेजाः सुराणामर्थसिद्धये।।
सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः।
तव पार्थ जयः कृत्स्नस्तव कीर्तिस्तथाऽतुला।।
तवेयं पृथिवी देवी कृत्स्ना नारायणाश्रयात्।
अयं नाथस्तवाचिन्त्यो यस्य नारायणो गतिः।।
स भवांस्त्वमुपाध्वर्यू रणाग्नौ हुतवान्नृपान्।
कृष्णस्रुवेण महता युगान्ताग्निसमेन वै।।
दुर्योधनश्च शोच्योसौ सपुत्रभ्रातृबान्धवः।
कृतवान्योऽबुधः क्रोधाद्धरिगाण्डीविविग्रहम्।।
दैतेया दानवेन्द्राश्च महाकाया महाबलाः।
चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव।।
प्रतियोद्धुं न शक्यो हि मानुषैरेव संयुगे।
विहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः।।
जयो योगी युगान्ताभः सव्यसाची रणाग्रगः।
तेजसा हतवान्सर्वं सुयोधनवलं नृप।।
यत्तु गोवृषभाङ्केन मुनिभ्यः समुदाहृतम्।
पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु।।
यावत्तस्य भवेत्पुष्टिस्तेजो जीप्तिः पराक्रमः।
प्रभावः सन्नतिर्जन्म कृष्णे तत्त्रिगुणं विभो।।
कः शक्नोत्यन्यथा कर्तुं तद्यदि स्यात्तथा शृणु।
यत्रः कृष्णो हि भगवांस्तत्र पुष्टिरनुत्तमा।।
वयं त्विहाल्पमतयः परतन्त्राः सुविक्लबाः।
ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमव्ययम्।।
भवांश्चाप्यार्जवपरः पूर्वं कृत्वा प्रतिश्रयम्।
राजवृत्तं न लभते प्रतिज्ञापालने रतः।।
अत्येवात्मवधं लोके राजंस्त्वं बहु मन्यसे।
न हि प्रतिज्ञा या दत्ता तां प्रहातुमरिंदम।।
कालेनायं जनः सर्वो निहतो रणमूर्धनि।
वयं च कालेन हताः कालो हि परमेश्वरः।।
न हि कालेन कालज्ञः स्पृष्टः शोचितुमर्हसि।
कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः।।
तस्मात्कुन्तीसुत ज्ञातीन्नेह शोचितुमर्हसि।
व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन।।
माधवस्यास्य महात्म्यं श्रुतं यत्कथितं मया।
तदेव तावत्पर्याप्तं सज्जनस्य निदर्शनम्।।
व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः।
स्वयं चैव महाराज कृष्णस्यार्हतमस्य वै।।
प्रभावश्चर्षिपूगस्य कथितः सुमहान्मया।
महेश्वरस्य संवादं शैलपुत्र्याश्च भारत।।
धारयिष्यति यश्चैनं महापुरुषसम्भवम्।
शृणुयात्कथयेद्वा यः स श्रेयो लभते परम्।।
भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः।
प्रेत्य स्वर्गं च लभते नरो नास्त्यत्र संशयः।।
न्याय्यं श्रेयोभिकामेन प्रतिपत्तुं जनार्दनः।
एष एवाक्षयो विप्रैः स्तुतो राजञ्जनार्दनः।।
महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः।
ते त्वया मनसा धार्याः कुरुराज दिवानिशम्।।
एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च।
प्रजापालनदक्षस्य स्वर्गलोको भविष्यति।।
धर्मोणापि सदा राजन्प्रजा रक्षितुमर्हसि।
यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते।।
य एष कथितो राजन्मया सज्जनसन्निधौ।
शङ्करस्योमया सार्धं संवादो धर्मसंहितः।।
श्रुत्वा वा श्रोतुकामो वाऽप्यर्चयेद्वृषभध्वजम्।
विशुद्धेनेह भावेन य इच्छेद्भूतिमात्मनः।।
एष तस्यानवद्यस्य नारदस्य महात्मनः।
संदेशो देवपूजार्थं तं तथा कुरु पाण्डव।।
एतदत्यद्भुतं वृत्तं पुण्ये हि भवति प्रभो।
वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम्।।
दशवर्शसहस्राणि बदर्यामेष शाश्वतः।
तपश्चचार विपुलं सह गाण्डीवधन्वना।।
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ।
विदितौ नारदादेतौ मम व्यासाच्च पार्थिव।।
बाल एव महाबाहुश्चकार कदनं महत्।
कंसस्य पुण्डरीकाक्षो ज्ञातित्रामार्थकारणात्।।
कर्मणामस्य कौन्तेय नान्तं सङ्ख्यातुमुत्सहे।
शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर।।
ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम्।
यस्य ते पुरुषव्याघ्रः सखा चायं जनार्दनः।।
दुर्योधनं तु शोचामि प्रेत्य लोकेऽपि दुर्मतिम्।
यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा।।
दुर्योधनापराधेन कर्णस्य शकुनेस्तथा।
दुःशासनवतुर्थानां कुरवो निधनं गताः।।
वैशम्पायन उवाच।
एवं सम्भाषमाणे तु गाङ्गेये पुरुषर्षभे।
तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम्।।
तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः।
सम्पूज्य मनसा कृष्णं सर्वे प्राञ्जलयऽभवन्।।
ऋषयश्चापि ते सर्वे नारदप्रमुखास्तदा।
प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च।।
इत्येतदखिलं सर्वैः पाण्डवो भ्रातृभिः सह।
श्रुतवान्सुमहाश्चर्यं पुण्यं भीष्मानुशासनम्।।
वैशम्पायन उवाच।
युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम्।
पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः।। 252 ।।