अनुशासनपर्व

अध्यायः २५१

Anusasana Parva (Sanskrit) · Adhyaya 251
अक्षर का आकार

ऋषय ऊचुः।

पिनाकिन्भगनेत्रघ्न सर्वलोकनमस्कृत।
महात्म्यं वासुदेवस्य श्रोतुमिच्छाम शङ्कर।।

ईश्वर उवाच।

पितामहादपि वरः शाश्वतः पुरुषो हरिः।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः।।

दशबाहुर्महातेजा देवतारिनिषूदनः।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः।।

ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुराऽसुराः।।

ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः।
पितामहगृहं साक्षात्सर्वदेवगृहं च सः।।

सोस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च।।

स हि देववरः साक्षाद्देवनाथः परन्तपः।
सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः।।

परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः।
न तस्मात्परमं भूतं त्रिषु लोकेषु किञ्चन।।

सनातनो वै मधुहा गोविन्द इति विश्रुतः।
स सर्वान्पार्तिवान्सङ्ख्ये घातयिष्यति मानदः।।

सुरकार्यार्थमुत्पन्नो मानुषं वपुरास्थितः।
न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः।।

भुवने देवकार्याणि कर्तुं नायकवर्जिताः।
नायकः सर्वभूतानां सर्वदेवनमस्कृतः।।

एतस्य देवनाथस्य देवकार्यपरस्य च।
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च।।

ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः।
शर्वः सुखं संश्रितश्च् शरीरे सुखसंस्थितः।।

सर्वाः सुखं संश्रिताश्च शरीरे तस्य देवताः।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः।।

शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वज।
उत्तमेन स शीलेन दमेन च शमेन च।।

पराक्रमेण वीर्येण वपुषा दर्शनेन च।
आरोहेणि प्रमाणेन धैर्येणार्जवसम्पदा।।

आनृशंस्येन रूपेण बलेन न समन्वितः।
अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः।।

योगमायः सहस्राक्षो निरपायो महामनाः।
वीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः।।

क्षमावांश्चानहंवादी ब्रह्मण्यो ब्रह्मनायकः।
भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः।।

शरण्यः सर्वभूतानां दीनानां पालने रतः।
श्रुतवानर्थसम्पन्नः सर्वभूतनमस्कृतः।।

समाश्रितानां वरदः शत्रूणामपि धर्मवित्।
नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः।।

भवार्थमिह देवानां बुद्ध्या परमया युतः।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते।।

समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः।
अङ्गो नाम मनोः पुत्रो अन्तर्धामा ततः परः।।

अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः।
प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो महान्।।

तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः।
प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः।।

दाक्षायण्यास्तथाऽऽदित्यो मनुरादित्यतस्तथा।
मनोश्च वंशज इला सुद्युम्नश्च भविष्यति।।

बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति।
नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः।।

यदुस्तस्मान्महासत्वः क्रोष्टा तस्माद्भविष्यति।
क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति।।

वृजिनीवतश्च भविता उषङ्गुरपराजितः।
उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा।
तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति।।

तेषां विख्यातवीर्याणां चरित्रगुणशालिनाम्।
यज्वनां सुविशुद्धानां वंशे ब्राह्मणसम्मते।।

स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः।
स्ववंशविस्तरकरं जनयिष्यति मानदः।
वसुदेव इति ख्यातं पुत्रमानकदुन्दुभिम्।।

तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति।।
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः।

राज्ञो मागधसंरुद्धान्मोक्षयिष्यति यादवः।।

जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे।
सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान्।।

पृथिव्यामप्रतिहतो वीर्येण च भविष्यति।
विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः।।

शूरसेनेषु भूत्वा स द्वारकायां वसन्प्रभुः।
पालयिष्यति गां देवीं विजित्य नयवित्सदा।।

तं भवन्तः समासाद्य वाङ्भाल्यैरर्हणैर्वरैः।
अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम्।।

यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम्।
द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान्।।

दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा।
पितामहो वा देवेश इति वित्त तपोधनाः।।

स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति।
तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति।।

यश्च तं मानवे लोके संश्रयिष्यति केशवम्।
तस्य कीर्तिर्जयश्चैव स्वर्गश्चैव भविष्यति।।

धर्माणां देशिकः साक्षात्स भविष्यति धऱ्मिभाक्।
धर्मवद्भिः स देवेशो नमस्कार्यः सदोद्यतैः।।

धर्म एव परो हि स्यात्तस्मिन्नभ्यर्चिते विभौ।
सहि देवो महातेजाः प्रजाहितचिकीर्षया।।

धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह।
ताः सृष्टास्तेन विभुना पर्वते गन्धमादने।।

सनत्कुमारप्रमुखास्तिष्ठन्ति तपसाऽन्विताः।
तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः।।

दिवि श्रेष्ठो हि भगवान्हरिर्नारायणः प्रभुः।
वन्दितो हि स वन्देत मानितो मानयीत च।
अर्हितश्चार्हयेन्नित्यं पूजितः प्रतिपूजयेत्।।

दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत्।
अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः।।

एतत्तस्यानवद्यस्य विष्णोर्वै परमं व्रतम्।
आदिदेवस्य महतः सज्जनाचरितं सदा।।

भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः।
अभयेनानुरूपेणि युज्यन्ते तमनुव्रताः।।

कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा।
यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः।।

एष वोऽभिहितो मार्गो मया वै मुनिसत्तमाः।
तं दृष्ट्वा सर्वशो देवं दृष्टाः स्युः सुरसत्तमाः।।

महावराहं तं देवं सर्वलोकपितामहम्।
अहं चैव नमस्यामि नित्यमेव जगत्पतिम्।।

तत्र च त्रितयं दृष्टं भविष्यति न संशयः।
समस्ता हि वयं देवास्तस्य देहे वसामहे।।

तस्य चैवाग्रजो भ्राता सिताद्रिनिचयप्रभः।
हली बल इति ख्यातो भविष्यति धराधरः।।

त्रिशिरास्तस्य दिव्यश्च सातकुम्भमयो द्रुमः।
ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः।।

शिरो नागैर्महाभोगैः परिकीर्णं महात्मभिः।
भविष्यति महाबाहोः सर्वलोकेश्वरस्य च।।

चिन्तितानि समेष्यन्ति शस्त्राण्यस्त्राणि चैव ह।
अनन्तश्च स अवोक्तो भगवान्हरिरव्ययः।।

समादिष्टश्च विबुधैर्दर्शय त्वमिति प्रभो।
सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली।
अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः।।

स च शेषो विचरते परया वै मुदा युतः।
अन्तर्वसति भोगेन परिरभ्य वसुन्धराम्।।

य एव विष्णुः सोऽनन्तो भगवान्वसुधाधरः।
यो रामः स हृषीकेशो योच्युतः स धराधरः।।

तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ।
द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ।।

एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः।
यद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः।। 251 ।।