अनुशासनपर्व

अध्यायः २५३

Anusasana Parva (Sanskrit) · Adhyaya 253
अक्षर का आकार

युधिष्ठिर उवाच।

कृपया परया प्रोक्तः सर्वेषां पापकर्मणाम्।
ज्ञानस्य च परस्येह तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

उपायोऽयं परप्राप्तौ परमः परिकीर्तितः।
नारायणास्यानुध्यानमर्चनं यजनं स्तुतिः।।

श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा।
विद्वच्छुश्रूषणप्रीतिरुपदेशानुपालनम्।
स ध्यानेन जपेननाशु मुच्यते प्राकृतोपि वा।।

जपश्चतुर्विधः प्रोक्तो वैदिकस्तान्त्रिकोपि च।
पौराणिकोथ विद्वद्भिः कथितः स्मार्त एव च।।

विद्वच्छुश्रूषया ज्ञानं विद्वत्संरक्षणेन च।
नासाध्यं ज्ञानिनां किञ्चित्तस्माद्रक्ष्यास्त्वया द्विजाः।।

सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु।
आसीदाश्वासिता विद्वत्संरक्षणफलात्किल।।

विप्रस्य मरणे हेतुस्तत्पत्नी पितृशोकदा।
वैश्या त्वमतिलाभोऽयं विप्रकन्येति साम्प्रतम्।

इत्युक्ताऽऽश्वासिताऽपृच्छत्केनैवं पापसंयुता।
जाता विप्रकुले सम्यक् श्रेयश्चापि ब्रवीहि मे।।

यम उवाच।

अन्यजन्मनि विद्वांसं प्रहारैरभिपीडितम्।
चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका।।

इत्युक्ताऽष्टाक्षरध्यानजपादिश्रेयसंयुता।
यमेनानुगृहीताऽभूत्पुण्यलोकनिवासिनी।।

तन्नित्यं विदुषां रक्षा तत्परोऽभूर्महीपते।
तेषां संरक्षणात्सद्यः सर्वपापैः प्रमुच्यते।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिपञ्चशदधिकद्विशततमोऽध्यायः।। 253 ।।