अनुशासनपर्व

अध्यायः २५०

Anusasana Parva (Sanskrit) · Adhyaya 250
अक्षर का आकार

उमोवाच।

पतिमत्या दिवारात्रं वृत्तान्तं श्रूयतां शुभम्।
पत्युः पूर्वं समुत्थाय प्रातःक्रम समाचरेत्।।

पत्युर्भावं विदित्वा तु पश्चात्सम्बोधयेत्तु तम्।
नित्यं पौर्वाह्णिकं कार्यं स्वयं कुर्याद्यथाविधि।।

निवेद्य च तथाऽऽहारं यथा सम्पद्यतामिति।
तथैव कुर्यात्तत्सर्वं यथा पत्युः प्रियं भवेत्।।

यथा भर्ता तथा नारी गुरूणां प्रतिपद्यते।।

शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया।
भर्तुर्निष्क्रमणे कार्यं संस्मरेदप्रमादतः।।

आगतं तु पतिं दृष्ट्वा सहसा परिचारणम्।
स्वयं कुर्वीत सम्प्रीत्या कायश्रमहरं परम्।।

पाद्यसनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः।
अतिथीनामागमेन प्रीतियुक्ता सदा भवेत्।।

कर्मणा वचनेनापि तोषयेदतिथीन्सदा।
मङ्गलं गृहशौचं च सर्वोपकरणानि च।।

सर्वकालमवेक्षेत कारयन्ती च कुर्वती।
धर्मकार्ये तु सम्प्राप्ते तद्वद्धर्मपरा भवेत्।।

अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता।
सा यत्नं परमं कुर्यात्तस्यि साहाय्यकारणात्।।

धुरन्धरा भवेद्भर्तुः साध्वी धर्मार्थयोः सदा।
विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम्।।

अलङ्कृत्य यथायोगं मन्दहाससमन्वितम्।
वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम्।।

कठोराणि न वाच्यानि अन्यथा प्रमदान्तरे।
यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरी भवेत्।।

अप्रमादं पुरस्कृत्य मनसा तोषयेत्पतिम्।
अनन्तरमथान्येषां भोजनावेक्षणं चरेत्।।

दासीदासबलीवर्दांश्चण्डालं च शुनस्तथा।
अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च।
पूजयेद्बलिभैक्षेण पत्युर्धर्मं विवर्धयेत्।।

कुपितं वाऽर्थहीनं वा श्रान्तं वोपचरेत्पतिम्।
यता स तुष्टः स्वस्थश्च तथा सन्तोषयेत्पतिम्।।

यथा कुटुम्बचिन्तायां विवादे वाऽर्थसञ्चये।
आहूता तत्सहायार्थं तथा प्रियहितं वदेत्।।

अप्रियं च हितं ब्रूयात्तस्य धर्मार्थकाङ्क्षया।
एकान्तचर्याकथनं कलहं वर्जयेत्परैः।।

बहिरालोकनं चैव मोहं व्रीडां च पैशुनम्।
बह्वाशित्वं दिवास्वप्नमेवमादि विवर्जयेत्।।

रहस्येकासनं साध्वी न कुर्यादात्मजैरपि।
यद्यद्दद्यान्नियत्स्वेति न्यासवत्परिपालयेत्।।

विस्मृतं वाऽपि यद्द्रव्यं प्रतिपद्यात्स्वशौचतः।
यत्किञ्चित्पतिना दत्तं लब्ध्वा तत्सा सुकी भवेत्।।

अतीवाज्ञामतीर्ष्यां च दूरतः परिवर्जयेत्।
बालवद्वृद्धवद्भार्या सदैवानुचरेत्पतिम्।।

भार्याया व्रतमित्येव कर्तव्यं सततं विभो।
एतत्पतिव्रतावृत्तमुक्तं देव समासतः।।

न च भोगे न चैश्वर्ये न सुखे न धने तथा।
स्पृहा यस्यास्तथा भर्तुः सा नारीणां पतिव्रता।।

पतिर्हि दैवतं स्त्रीणां पतिर्बन्धुः पतिर्गतिः।
नान्यं गतिमहं पश्ये प्रमदाया यथा पतिः।।

जातिष्वपि च वै स्त्रीत्वं विशिष्टं मे मतिः प्रभो।
कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम्।
तत्सर्वं लभते नारी सुखेन पतिपूजया।।

यथासुखं पतिमती सर्वं पत्यनुकूलतः।
ईदृशं धर्मसाकल्यं पश्य त्वं प्रमदां प्रति।
एतद्विसृज्य पच्यन्ते कुस्त्रियः पापमोहिताः।।

तपश्चर्या च दानं च पतौ तस्याः समर्पितम्।
रूपं कुलं यशस्तेजः सर्वं तस्मिन्प्रतिष्ठितम्।।

एवं व्रतसमाचाराः स्ववृत्तेनैव शोभनाः।
स्वभर्त्रा च सम गच्छेत्पुण्यलोकान्सुकर्मणा।।

वृद्धो विरुपो बीभत्सो धनवान्निर्धनोऽपि वा।
एवंभूतोपि वै भर्ता स्त्रीणां भूषणमुत्तमम्।।

आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम्।
या पतिं तोषयेत्साध्वी सा पत्नीनां विशिष्यते।।

दरिद्रांश्च विरूपाश्च प्रमूढान्कुष्टसंयुतान्।
पतीनुपचरेल्लोकानक्षयान्प्रतिपद्यते।।

एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत्।
तदाऽनुमरणं गच्छेत्पुनर्धर्मं चरेत वा।।

एतदेवं मया प्रोक्तं स्त्रियस्तु बहुधा स्मृताः।
देवदानवगन्धर्वा मनुष्या इति नैकधा।।

सौम्यशीलाः शुभाचाराः सर्वास्ताः सम्भवन्ति च।
यथा शुभं प्रवक्ष्यामि स्त्रीणां धर्मं महेश्वर।।

आसुर्यश्चैव पैशाच्यो राक्षस्यश्च भन्ति हि।
तासां वृत्तमशेषेण श्रूयतां लोककारणात्।।

न्यायतो वाऽन्यथा प्रोक्ता भावदोषसमन्विताः।
भर्तॄनुपचरन्त्येव रागद्वेषबलात्कृताः।।

स्वधर्मविमुखा भूत्वा प्रदूष्यन्ति यतस्ततः।
प्रवृद्दविषया नित्यं प्रतिकूलं वदन्ति च।।

अर्थान्विनाशयन्त्येवं न गृह्णन्ति हितं क्वचित्।
स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा।।

गुणवत्यः क्वचिद्भूत्वा पतिधर्मपरा इव।
पुनर्भवन्ति पापिष्ठा विषमं वृत्तमास्थिताः।।

अनवस्थितमर्यादा बहुवेषा व्यवस्थिताः।
असन्तुष्टाश्च लुब्धाश्च ईर्ष्याक्रोधयुता भृशम्।।

भोगप्रिया हितद्वेष्याः कामभोगपरायणाः।
प्रायशोऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः।।

एवंवृत्तसमाचारा आसुरं भावमाश्रिताः।
अपकारपरा नित्यं सततं कलहप्रिया।।

परुषा रुक्षवचना निर्घृणा निरपत्रपाः।
निःस्नेहाः क्रोधनाश्चैव भर्तृपुत्रस्वबन्धुषु।।

घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च।
पतीन्व्यभिचरन्त्येव दुर्मार्गेण यथा तथा।
बन्धुभिर्भर्त्सिता भूत्वा गृहकार्याणि कुर्वते।।

अथवा भर्त्सिता देव निवृत्ताः स्वेषु कर्मसु।
तथैवात्मवधं घोरं व्यवस्येयुर्न संशयः।।

निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपकाः।
धर्मर्थरहिता घोराः सततं कुर्वते क्रियाः।।

अनर्थे निपुणाः पापाः परप्राणेषु निर्दयाः।
एवंयुक्तसमाचाराः स्त्रियः पैशाचमाश्रिताः।।

अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः।
अशुद्धा मलदिग्धाङ्ग्य पानमांसरता भृशम्।
वदन्त्यनृतवाक्यानि हसन्ति विलपन्ति च।

दुष्पसादा महाक्रोधाः स्वप्नशीला निरन्तरम्।
तामस्यो नष्टतत्वार्था मन्दशीला महोदराः।
भुञ्जते विविधं सिद्धं भोजनं तीव्रसम्भ्रमाः।।

गुणरूपवयोयुक्तं पतिं कामिनमुत्तमम्।
हित्वाऽन्येनैव गच्छन्ति सर्वधा भृशतापिताः।।

निर्लज्जा धर्मसन्दिग्धाः प्रतिकूलाः समन्ततः।
एवंरूपसमाचाराः स्त्रियो राक्षसमाश्रिताः।।

एवंविधानां सर्वासां न परत्र महासुखम्।
नरकाद्विप्रमुक्तानां मानुष्यं दुर्लभं भवेत्।।

कष्टं तत्रापि भुञ्जन्ते स्वकृतं दुःखजं बहु।
दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः।
विधवा दुर्भगा वाऽपि लभन्ते दुःखमीदृशम्।।

शतवर्षसहस्राणि निरयं व्यभिचारिणी।
व्रजेत्पतिं च पापेन संयोज्य स्वकुलं तथा।।

एतद्विज्ञाय पतितं पुनश्चेद्धितमात्मनः।
कुर्याद्भर्तारमाश्रित्य तथा धर्मवमाप्नुयात्।।

अतिसंयान्ति ताँल्लोकान्पुण्यान्परमशोभनान्।
अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा।।

वर्तमानास्च सततं भर्तॄणां प्रतिकूलतः।
भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः।।

कामात्क्रोधाद्भयाल्लोभादपहास्या भवन्ति ताः।
आदिप्रभृति कुस्त्रीणां तथाऽनुमरणं वृथा।।

आदिप्रभृति या साध्वी पत्युः प्रियपरायणा।
ऊर्ध्वं गच्छति सा पूता भर्त्राऽनुमरणं गता।।

एवं मृताया वै लोकानहं पश्यामि चक्षुषा।
स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः।।

अथवा भर्तरि मृते वैधव्यं धर्ममाश्रिताः।
तूष्णीं भौमं जले नित्यमञ्जलिस्नानमुत्तमम्।
व्रतं च पतिमुद्दिश्य कुर्यश्चैव विधिं ततः।।

एवं गच्छति सा नारी पतिलोकमनुत्तमम्।
रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः।।

प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता।
इति ते कथितं देव स्त्रीणां धर्मिमनुत्तमम्।।

भवतः प्रियकामिन्या यन्मयोक्तं तवाग्रतः।
चापल्यान्मम देवेश तद्भवान्क्षन्तुमर्हति।।

नारद उवाच।

एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम्।
प्रशशंस च देवेशो वाचा सञ्जनयन्प्रियम्।।

ऋषयो देवगन्धर्वाः प्रमदाश्च सहस्रशः।
प्रणम्य शिरसा देवीं स्तुतिभिश्चाभितुष्टुवुः।।

पूजयामासुरपरे देवदेव मुदा युताः।
संवादं चिन्तयन्त्यन्ते श्रद्दधानाः सुचेतसः।।

ततस्तु देवदेवेशो देवीं वचनमब्रवीत्।
शृणु कल्याणि मद्वाक्यं संवादोऽयं मया तव।
पुण्यं पवित्रं ख्यातं च भविता नात्र संशयः।।

य इमं श्रावयेद्विद्वान्संवादं चावयोः प्रिये।
शुचिर्भूत्वा नरान्युक्तान्स तैः स्वर्गं व्रजेत्सुखम्।।

यस्त्वेनं शृणुयान्नित्यं संवादं चावयोः शुभम्।
कीर्तिमायुष्यमारोग्यं लभते स गतिं पराम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः।। 250 ।।