अनुशासनपर्व

अध्यायः २४९

Anusasana Parva (Sanskrit) · Adhyaya 249
अक्षर का आकार

नारद उवाच।

एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात्।
ऋषिगन्धर्वयक्षाणां योषितश्चाप्सरोगणाः।।

नागभूतस्त्रियश्चैव नद्यश्चैव समागताः।
श्रुतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे।।

उमादेवी मुदा युक्ता पुज्यमानाऽङ्गनागणैः।
आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति।।

स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया।
वक्तुं वचनमारेभे स्त्रीणां धर्माश्रयान्वितम्।।

उमोवाच।

भगवन्सर्वभूतेश श्रूयतां वचनं मम।
ऋतुप्राप्ता सुशुद्दा या कन्या सेत्यभिधीयते।।

तां तु कन्यां पिता माता भ्राता मातुल एव वा।
पितृव्यश्चैव पञ्चते दातुं प्रभवतां गताः।।

विवाहाश्च तथा पञ्च तासां धर्मार्थकारणात्।
कामतश्च मिथो दानमितरेतरकाम्यया।।

दत्ता यस्य भवेद्भार्या एतेषां येन केन चित्।
दातारः सुविमृश्यैव दातुमर्हन्ति नान्यथा।।

उत्तमानां तु वर्णानां मन्त्रवत्पाणिसङ्ग्रहः।
विवाहकारणं चाहुः शूद्राणां सम्प्रयोगतः।।

यदा दत्ता भवेत्कन्या तस्माद्भार्यार्थिने स्वकैः।
तदाप्रभृति सा नारी दशरात्रं विलज्जया।
मनसा कर्मणा वाचा अनुकूला च सा भवेत्।।

इति भर्तृव्रतं कुर्यात्पतिमुद्दिश्य शोभना।
तदाप्रभृति सा नारी न कुर्यात्पत्युरप्रियम्।।

यद्यदिच्छति वै भर्ता ध्रमकामार्थकारणात्।
तथैवानुप्रिया भूत्वा तथैवोपचरेत्पतिम्।
पतिव्रतात्वं नारीणामेतदेव सनातनम्।।

तादृशी सा भवेन्नित्यं यादृशस्तु भवेत्पतिः।
शुभाशुभसमाचार एतद्वृत्तं समासतः।।

दैवतं सततं साध्वी भर्तारं या तु पश्यति।
दैवमेव भवेत्तस्याः पतिरित्यवगम्यते।।

एतस्मिन्कारणं देव पौराणी श्रूयते श्रुतिः।
कथयामि प्रसादात्ते शृणु देव समासतः।।

कस्य चित्त्वथ विप्रस्य भार्ये द्वे हि बभूवतुः।
तयोरेका धर्मकामा देवानुद्दिश्य भक्तितः।।

भर्तारमवमत्यैव देवतासु समाहिता।
चकार विपुलं धर्मं पूजयानाऽर्चयाऽन्वितम्।।

अपरा धर्मकामा च पतिमुद्दिश्य शोभना।
भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम्।।

एवं विवर्तमाने तु युगपन्मरणेऽध्वनि।
गते किल महादेव तत्रैका या पतिव्रता।
देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा।।

देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता।
तां यमो लोकपालस्तु बभाषे पुष्कलं वचः।।

मा शुचस्त्वं निवर्तस्व न लोकाः सन्ति तेऽनघे।
स्वधर्मविमुखा सा त्वं तस्माल्लोका न सन्ति ते।।

देवता हि पतिर्नार्याः स्थापिता सर्वदैवतैः।
अवमत्य शुभे तत्त्वं कथं लोकान्गमिष्यसि।।

मोहेनि त्वं वरारोहे न जानीषे स्वदैवतम्।
पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पणस्त्विति।।

तस्मात्त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम्।
तदा गन्तासि लोकांस्तान्यान्गच्छन्ति पतिव्रताः।
नान्यथा शक्यते प्राप्तुं पतीनां लोकमुत्तमम्।।

यमेनैवंविधं चोक्ता निवृत्ता पुनरेव सा।
बभूव पतिमालम्ब्य पतिप्रियपरायणा।।

एवमेतन्महगादेव दैवतं हि स्त्रियाः पतिः।
तस्मात्पतिपरा भूत्वा पतीनुपचरेदिति।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः।। 249 ।।