अनुशासनपर्व

अध्यायः २४

Anusasana Parva (Sanskrit) · Adhyaya 24
अक्षर का आकार

`भीष्म उवाच।

ततः कद्रूर्हसन्ती च विनतां धर्मचारिणीम्।
दासीवत्प्रेषयामास सा च सर्वं चकार तत्।।

न विवर्णा न संक्षुब्धा न च क्रुद्धा न दुःखिता।
प्रेष्यकर्म चकारास्या विनता कमलेक्षणा।।

इमा दिशश्चतस्रोऽस्याः प्रेष्यभावेन वर्तिताः।
अथ स्म वैनतेयं वै बलदर्पौ समीयतुः।।

तं दर्पवशमापन्नं परिधावन्तमन्तिकात्।
ददर्श नारदो राजन्देवर्षिर्दर्पसंयुतम्।।

तमब्रवीच्च देवर्षिर्नारदः प्रहसन्निव।
किं दर्पवशमापन्नो न वै पश्यसि मातरम्।।

बलेन दृप्तः सततमहंमानकृतः सदा।
दासीं पन्नगराजस्य मातुरन्तर्गृहे सतीम्।।

तमब्रवीद्वैनतेयः कर्म किं तन्महामते।
जनयित्री मयि सुते जाता दासी तपस्विनी।।

अथाब्रवीदृषिर्वाक्यं दीव्यती विजिता खग।
निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह।।

गरुड उवाच।

कथं जिता निकृत्या सा भगवञ्जननी मम।
ब्रूहि तन्मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम्।।

ततस्तस्य यथावृत्तं सर्वं तन्नारदस्तदा।
आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः।।

तच्छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत्।
जगर्हे पन्नगान्सर्वान्मात्रा सह परंतपः।।

ततस्तु रोषाद्दुःखाच्च तूर्णमुत्पत्यक पक्षिराट्।
जगाम यत्र माताऽस्य कृच्छ्रे महति वर्तते।।

तत्रापश्यत्ततो दीनां जटिलां मलिनां कृशाम्।
तोयदेन प्रतिच्छन्नां सूर्याभामिव मातरम्।।

तस्य दुःखाच्च रोषाच्च नेत्राभ्यामश्रु चास्रवत्।
प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः।।

अनुक्त्वा मातरं किञ्चित्पतत्रिवरपुङ्गवः।
कद्रूमेव स धर्मात्मा वचनं प्रत्यभाषत।।

यदि धर्मेण मे माता जिता यद्यप्यधर्मतः।
ज्येष्ठा त्वमसि मे माता धर्मः सर्वः स मे मतः।।

इयं तु मे स्यात्कृपणा मयि पुत्रेऽम्ब दुःखिता।
अनुजानीहि तां साधु मत्कृते धर्मदर्शिनि।।

कद्रूः श्रुत्वास्य तद्वाक्यं वैनतेयस्य धीमतः।
उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्च्छिता।।

नाहं तव न ते मातुर्वैनतेय कथञ्चन।
कुर्यां प्रियमनिष्टात्मा मां ब्रवीषि खग द्विजा।।

तां तदा ब्रुवतीं वाक्यमनिष्टं क्रूरभाषिणीम्।
दारुणां सूनृताभिस्तामनुनेतुं प्रचक्रमे।।

गरुड रुवाच।

ज्येष्ठा त्वमसि कल्याणि मातुर्मे भामिनि प्रिया।
सोदर्यी मम चासि त्वं ज्येष्ठा माता न संशयः।।

कद्रूरुवाच।

विहङ्गम यथाकामं गच्छ कामगम द्विज।
सूनृताभिस्त्वया माता नादासी शक्यमण्डज।।

अमृतं यद्याहरेस्त्वं विहङ्गं जननीं तव।
अदासीं मम पश्येमां वैनतेय न संशयः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।