अनुशासनपर्व
अध्यायः २४८
नारद उवाच।
एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः।
अनुकूलां प्रियां भार्यां पार्श्वस्तामभ्यभाषत।।
महेश्वर उवाच।
परावरज्ञे धर्माणां तपोवननिवासिनाम्।
दीक्षाविधिदमोपेते सततं व्रतचारिणि।
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम्।।
सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा।
लक्ष्मीर्विष्णोः प्रिया भार्या धृतिर्भार्या यमस्य तु।।
मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य तु।
वरुणस्य प्रिया गौरी सवितुश्च सुवर्चला।।
रोहिणी शशिनो भार्या स्वाहा चाग्नेरनिन्दिता।
काश्यपस्यादितिश्चैव वसिष्ठस्याप्यरुन्धती।।
एताश्चान्याश्च देव्यस्तु सर्वास्ताः पतिदेवताः।
श्रूयन्ते लोकविख्यातास्त्वया चैव सहोषिताः।।
ताभिश्च पूजिताऽपि त्वमनुवृत्त्यनुभाषणैः।
तस्मात्तु परिपृच्छामि धर्मज्ञे लोकसम्मते।।
स्त्रीधर्मं श्रोतुमिच्छामि त्वयैव समुदाहृतम्।
सध्रमचारिणी मे त्वं लोकसन्धारिणी तथा।।
अयं हि स्त्रीगणस्त्वां तु अनुयाति न मुञ्चति।
त्वत्प्रसादाद्धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणम्।।
त्वया चोक्तं विशेषेण गुणभूतं हि तिष्ठति।
स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये।।
शश्वद्गौर्गोषु गच्छेत नान्यत्र रमते नरः।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते।।
प्रमदोक्तं तु यत्किञ्चित्तत्स्त्रीषु बहुमन्यते।
न तथा मन्यते स्त्रीषु पुरुषोक्तमनिन्दिते।।
त्वयैष विदितो ह्यर्थः स्त्रीणां धर्मः सनातनः।
तस्मात्त्वां प्रति पृच्छामि पृष्टा वद ममेप्सितम्।।
नारद उवाच।
एवमुक्ता तदा देवी महादेवेन शोभना।
सोद्वेगा च सलज्जा च नावदत्तत्र किञ्चन।
पुनः पुनस्तदा देवी देवः किमिति चाब्रवीत्।।
उमोवाच।
भगवन्देवदेवेश सुरासुरनमस्कृत।
त्वदन्तिके मया वक्तुं स्त्रीणां धर्मः कथं भवेत्।।
महेश्वर उवाच।
मन्नियोगादवश्यं तु वक्तव्यं तु मम प्रिये।।
उमोवाच।
इमा नद्यो महादेव सर्वतीर्थोदकान्विताः।
उपस्पर्शनहेतोस्त्वां न त्यजन्ति समीपतः।।
एताभिः सह सम्मन्त्र्य प्रवक्ष्यामि तवेप्सितम्।
अयुक्तं सत्सु तन्त्रेषु तानतिक्रम्य भाषितुम्।।
मया सम्मानिताश्चैव भविष्यन्ति सरिद्वराः।।
नारद उवाच।
इति मत्वा महादेवी नदीर्देवीः समाह्वयत्।
विपाशां च वितस्त्यां च चन्द्रभागां सरस्वतीम्।।
शतद्रुं देविक्तां सिन्धुं गौतमीं कौशिकीं तथा।
यमुनां नर्मदां चैव कावेरीमथ निम्नगाम्।।
तथा देवनदीं गङ्गां श्रेष्ठां त्रिपथगां शुभाम्।
सर्वतीर्थोदकवहां सर्वपापविनाशिनीम्।
एता नदीः समाहूय समुद्वीक्ष्येदमब्रवीत्।।
उमोवाच।
हे पुण्याः सरितः श्रेष्ठाः सर्वपापविनाशिकाः।
ज्ञानविज्ञानसम्पन्नाः शृणुध्वं वचनं मम।।
अयं भगवता प्रश्न उक्तः स्त्रीधर्ममाश्रितः।
न चैकया मया साद्यं तस्माद्वस्त्वानयाम्यहम्।।
युष्माभिस्तद्विचार्यैवं वक्तुमिच्छामि शोभनाः।
तत्कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः।।
नारद उवाच।
इति पृष्टास्तथा देव्या महानद्यश्चकम्पिरे।
तासां श्रेष्ठतमा गङ्गा वचनं त्ववेमब्रवीत्।।
धन्याश्चानुगृहीताः स्म अनेन वचनेन ते।
या त्वं सुरासुरैर्मान्या नदीराद्रियसेऽनघे।।
तवैवार्हति कल्याणि एवं सान्त्वप्रसादनम्।
अशक्यमपि ये मूर्खाः स्वात्मसम्भावनायुताः।
वाक्यं वदन्ति संसत्सु स्वयमेव यथेष्टतः।।
शक्तो यश्चानहंवादी सुदुर्लभतमो मतः।।
त्वं हि शक्ता सती देवी वक्तुं प्रश्नमशेषतः।
व्याहर्तुं नेच्छसि स्त्रीत्वात्संपूजयति नस्तथा।।
त्वं हि देवि महादेवी ऊहापोहविशारदा।
दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनैधिता।।
त्वमेवार्हसि तद्वक्तुं स्त्रीणां वृत्तं शुभाशुभम्।
याचामहे वयं श्रोतुममृतं त्वन्मुखोद्गतम्।
कुरु देवप्रियं देवि वद स्त्रीधर्ममुत्तमम्।।
नारद उवाच।
एवं प्रसादिता देवी गङ्गया लोकपूज्यया।
प्राह धर्ममशेषेण स्त्रीधर्मं सुरसुन्दरी।।
उमोवाच।
भगवन्देवदेवेश सुरेश्वर महेश्वर।
त्वत्प्रसादात्सुरश्रेष्ठ तवैव प्रियकाम्यया।
तमहं कीर्तयिष्यामि यथावच्छ्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः।। 248 ।।