अनुशासनपर्व

अध्यायः २४७

Anusasana Parva (Sanskrit) · Adhyaya 247
अक्षर का आकार

उमोवाच।

त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप।
त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर।।

दक्षयज्ञप्रशमन सूलपाणेऽरिसूदन।
नमस्ते लोकपालेश लोकपालवरप्रद।।

नैकशाखमपर्यन्तमध्यात्मज्ञानमुत्तमम्।
अप्रतर्क्यमविज्ञेयं साङ्ख्ययोगसमन्वितम्।।

भवता परिपृष्टेन शृण्वन्त्या मम भाषितम्।
इदानीं श्रोतुमिच्छामि सायुज्यं त्वद्गतं विभो।।

कथं परिचरन्त्येते भक्तास्त्वां परमेष्ठिनम्।
आचारः कीदृशस्तेषां केन तुष्टो भवेद्भवान्।
वर्ण्यमानं त्वया साक्षात्प्रीणयत्यधिकं हि मा।।

महेश्वर उवाच।

हन्त ते कथयिष्यामि मम सायुज्यमद्भुतम्।
येन ते न निवर्तन्ते युक्ताः परमयोगिनः।।

अव्यक्तोऽहमचिन्त्योऽहं पूर्वैरपि मुमुक्षुभिः।
साङ्ख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम्।।

अर्चनीयोऽहमीशोऽहमव्ययोऽहं सनातनः।
अहं प्रसन्नो भक्तानां ददाम्यमरतामपि।।

न मां विदुः सुरगणा मुनयश्च तपोधनाः।
त्वत्प्रियार्थमहं देवि मद्विभूतिं ब्रवीमि ते।।

आश्रमेभ्यश्चतुर्भ्योऽहं चतुरो ब्राह्मणाञ्शुभे।
मद्भक्तान्निर्मलान्पुण्यान्समानीय तपस्विनः।।

व्याचख्येऽहं तथा देवि योगं पाशुपतं महत्।
गृहीतं तच्च तैः सर्वं मुखाच्च मम दक्षिणात्।।

श्रुत्वा तत्त्रिषु लोकेषु स्थापितं चापि तैः पुनः।
इदानीं च त्वया पृष्टो वदाम्येकमनाः शृणु।।

अहं पसुपतिर्नाम मद्भक्ता ये च मानवाः।
सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः।।

रक्षार्थं मङ्गलार्थं न पवित्रार्थं च भामिनि।
लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा।।

तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः।
जटिला मुण्डिता वाऽपि नानाकारशिखण्डिनः।।

विकृताः पिङ्गलाभिस्च नग्ना नानाप्रकारिणः।
भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः।।

मृत्पात्रहस्ता मद्भक्ता मन्निवेशितबुद्ध्यः।
चरन्तो निखिलं लोकं मम हर्षविवर्धनाः।।

मम पाशुपतं दिव्यं योगशास्त्रमनुत्तमम्।
सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश्चरन्ति ते।।

एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम्।
उपायं चिन्तयाम्याशु येन मामुपयान्ति ते।।

स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया मम।
नमस्कारेण वा तस्य मुच्यन्ते सर्वकिल्बिषैः।।

इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः।
शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम्।।

अर्चया शिवलिङ्गस्य परितुष्याम्यहं प्रिये।
शिवलिङ्गार्चनायां तु विदानमपि मे शृणु।।

गोक्षीरनवनीताभ्यामर्चयेद्यः शिवं मम।
इष्टस्य हयमेधस्य यत्फलं तत्फलं भवेत्।।

घृतमण्डेन यो नित्यमर्चयेद्यः शिवं मम।
स फलं प्राप्नुयान्मर्त्यो ब्राह्मणस्याग्निहोत्रिणः।।

केवलेनापि तोयेन स्नापयेद्यः शिवं मम।
स चापि लभते पुण्यं प्रियं च लभते नरः।।

सघृतं गुग्गुलु सम्यग्धूपयेद्यः शिवान्तिके।
गोसवस्य तु यज्ञस्य यत्फलं तस्य तद्भवेत्।।

यस्तु गुग्गुलपिण्डेन केवलेनापि धूपयेत्।
तस्य रुक्मप्रधानस्य यत्फलं तस्य तद्भवेत्।।

यस्तु नानाविधैः पुष्पैर्मम लिङ्गं समर्चयेत्।
स हि धेनुसहस्रस्य दत्तस्य फलमाप्नुयात्।

यस्तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत्।
तस्मात्सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः।।

एवं नानाविधैर्द्रव्यैः शिवलिङ्गं समर्चयेत्।
मत्समानो मनुष्येषु न पुनर्जायते नरः।।

अर्चनाभिर्नमस्कारैरुपहारैः स्तवैरपि।
भक्तो मामर्चयेन्नित्यं शिवलिङ्गेष्वतन्द्रितः।।

पलाशबिल्वपत्राणि राजवृक्षस्रजं तथा।
अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः।।

फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम्।
दत्तं सम्प्रीणयेद्देवि भक्तैर्मद्गतमानसैः।।

ममाभिपरितुष्टस्य नास्ति लोकेषु दुर्लभम्।
तस्मात्ते सततं भक्ता मामेवाभ्यर्चयन्त्युत।।

मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः।
मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः।।

मद्द्वेषिणश्चि ये मर्त्या मद्भक्तद्वेषिणश्च वा।
यान्ति ते नरकं घोरमिष्ट्वा क्रतुशतैरपि।।

एतत्ते सर्वमाख्यातं योगं पाशुपतं महत्।
मद्भक्तैर्मनुजैर्देवि श्राव्यमेतद्दिनेदिने।।

शृणुयाद्यः पठेद्वाऽपि ममेदं धर्मनिश्चयम्।
स्वर्गं कीर्तिं धनं धान्यं स लभेत नरोत्तमः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः।। 247 ।।