अनुशासनपर्व

अध्यायः २४६

Anusasana Parva (Sanskrit) · Adhyaya 246
अक्षर का आकार

महेश्वर उवाच।

साङ्ख्यज्ञाने नियुक्तानां यथावत्कीर्तितं मया।
योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि ते शृणु।।

स च योगो द्विधा भिन्नो ब्रह्मिदेवर्षिसम्मतः।
समानमुभयत्रापि वृत्तं शास्त्रप्रचोदितम्।।

च चाष्टगुणमैश्वर्यमधिकृत्य विधीयते।
सायुज्यं सर्वदेवानां योगधर्मं परं श्रिताः।।

ज्ञानं सर्वस्य योगस्य मूलमित्यवधारय।
व्रतोपवासनियमैस्तत्सर्वं चापि बृंहयेत्।।

ऐकात्म्यं बुद्धिमनसोरिन्द्रियाणां च सर्वशः।
आत्मनो वेदितं प्राज्ञे ज्ञानमेतत्तु योगिनाम्।।

अर्चयेद्ब्राह्मणानग्निं देवतायतनानि च।
वर्जयेदशिवं भावं सर्वसत्त्वमुपाश्रितः।।

दानमध्ययनं श्रुद्धा व्रतानि नियमास्तथा।
सत्यमाहारशुद्धिश्च शौचमिन्द्रियनिग्रहः।
एतैश्च वर्धते तेजः पापं चाप्यवधूयते।।

निर्धूतपापस्तेजस्वी लघ्वाहारो जितेन्द्रियः।
अमोधो निर्मलो दान्तः पश्चाद्योगं समाचरेत्।।

अवरुध्यात्मनः पूर्वं मत्स्यघात इवामिषम्।
एकान्ते विजने देशे सर्वतः संवृते शुचौ।
कल्पयेदासनं तत्र स्वास्तीर्णं मृदुभिः कुशैः।।

उपविश्यासने तस्मिन्नृजुकायशिरोधरः।
अव्यग्रः सुखमासीनः स्वाङ्गानि न विकम्पयेत्।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्।।

मनोऽवस्थापनं देवि योगस्योपनिषद्भवेत्।
तस्मात्सर्वप्रयत्नेन मनोऽवस्थापयेत्सदा।।

त्वक्छ्रोत्रं च ततो जिह्वा घ्राणं चक्षुश्च संहरेत्।
पञ्चेन्द्रियाणि सन्धाय मनसि स्थापयेद्बुधः।।

सर्वं चापोह्य सङ्कल्पमात्मनि स्थापयेन्मनः।
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि।।

प्राणापानौ तदा तस्य युगपत्तिष्ठतो वशे।
प्राणे हि वशमापन्ने योगसिद्धिर्ध्रुवा भवेत्।।

शरीरं चिन्तयेत्सर्वं विपाट्य च समीपतः।
अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत्।।

ततो मूर्धानमग्निं च शरीरं परिपालयेत्।
प्राणो मूर्धनि च श्वासो वर्तमाने विचेष्टते।।

सज्जस्तु सर्वभूतात्मा पुरुषः स सनातनः।
मनो बुद्धिरहङ्कारो भूतानि विषयांश्च सः।।

बस्तिर्मूलं गुदं चैव पावकं च समाश्रितः।
वहन्मूत्रं पुरीषं च सदाऽपानः प्रवर्तते।।

अतः प्रवृत्तिर्देहषु कर्म चापानसंयुतम्।
उदीरयन्सर्वधातूनन्त ऊर्ध्वं प्रवर्तते।
उदान इति तं विद्युरध्यात्मकुशला जनाः।।

सन्धौसन्धौ स निर्विष्टः सर्वचेष्टाप्रवर्तकः।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते।।

धातुष्वग्नौ च विततः समानोऽग्निः समीरणः।
स एव सर्वचेष्टानामन्तकाले निवर्तकः।।

प्राणानां सन्निपातेषु संसर्गाद्यः प्रजायते।
ऊष्मा सोग्निरिति ज्ञेयः सोन्नं पचति देहिनाम्।।

अपानप्राणयोर्मध्ये व्यानोदानावुपाश्रितौ।
समन्वितः समानेन सम्यक्पचति पावकः।।

शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः।
अग्नौ प्राणाश्च संयुक्ताः प्राणेष्वात्मा व्यवस्थितः।।

पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयस्तथा।
नाभिर्मध्ये शरीरस्य सर्वप्राणाश्च संश्रिताः।।

स्थिताः प्राणादयः सर्वे तिर्यगूर्ध्वमधश्वराः।
वहन्त्यन्नरसान्नाड्यो दशप्राणाग्निचोदिताः।।

योगिनामेष मार्गस्तु पञ्चस्वेतेषु तिष्ठति।
जितश्रमः समासीनो मूर्धन्यात्मानमादधेत्।।

मूर्धन्यात्मानमाधाय भ्रुवोर्मध्ये मनस्तथा।
सन्निरुध्य ततः प्राणानात्मानं चिन्तयेत्परम्।।

प्राणे त्वपानं युञ्जीत प्राणांश्चापानकर्मणि।
प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत्।।

एवमन्तः प्रयुञ्जीत पञ्च प्राणान्परस्परम्।
विजने सम्मिताहारो मुनस्तूष्णीं निरुच्छ्वसन्।।

अश्रान्तश्चिन्तयेद्योगी उत्थाय च पुनःपुनः।
तिष्ठन्गच्छन्स्वपंस्चापि युञ्जीतैवमतन्द्रितः।।

एवं नियुञ्जतस्तस्य योगिनो युक्तचेतसः।
प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परम्।।

विधूम इव दीप्तोऽग्निरादित्य इव रश्मिवान्।
वैद्युतोऽग्निरिवाकाशे पुरुषो दृश्यतेऽव्ययः।।

दृष्ट्वा तदात्मनो ज्योतिरैश्वर्याष्टगुणैर्युतः।
प्राप्नोति परमं स्थानं स्पृहणीयं सुरैरपि।।

इमान्योगस्य दोषांश्च दशैव परिचक्षते।
दोषैर्विघ्ने वरारोहे योगिनां कविभिः स्मृताः।।

कामः क्रोधो भयं स्वप्नः स्नेहमत्यशनं तथा।
वैचित्यं व्याधिरालस्यं लोभं च दशमं स्मृतम्।।

एतैस्तेषां भवेद्विघ्नो दशभिर्देवकारितैः।
तस्मादेतानपास्यादौ युञ्जीत च परं मनः।।

इमानपि गुणानष्टौ योगस्य परिचक्षते।
गुणैस्तैरष्टभिर्द्रव्यमैश्वर्यमधिगम्यते।।

अणिमा महिमा चैव प्राप्तिः प्राकाम्यमेव हि।
ईशित्वं च वशित्वं च यत्र कामावसायिता।।

एतानष्टौ गुणान्प्राप्य कथञ्चिद्योगिनां वराः।
ईशाः सर्वस्य लोकस्य देवानप्यतिशेरते।।

योगोस्ति नैवात्यशिनो न चैकान्तमनश्नतः।
न चातिस्वप्नशीलस्य नातिजागतरस्तथा।।

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।

अनेनैव विधानेन सायुज्यं तत्प्रकल्प्यते।
सायुज्यं देवसात्कृत्वा प्रयुञ्जीतात्मभक्तितः।।

अनन्यमनसा देवि नित्यं तद्गतचेतसा।
सायुज्यं प्राप्यते देवैर्यत्नेन महता चिरात्।।

हविर्भिरर्चनैर्होमैः प्रणामैर्नित्यचिन्तया।
अर्चयित्वा यथाशक्ति स्वकं देशं विशन्ति ते।।

सायुज्यानां विशिष्टं च मामकं वैष्णवं तथा।
मां प्राप्य न निवर्तन्ते विष्णु वा शुभलोचने।।

इति ते कथितो देवि योगधर्मः सनातनः।
न शक्यः प्रष्टुमन्येन योगधर्मस्त्वया विना।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः।। 246 ।।