अनुशासनपर्व

अध्यायः २४५

Anusasana Parva (Sanskrit) · Adhyaya 245
अक्षर का आकार

महेश्वर उवाच।

साङ्ख्यज्ञानं प्रवक्ष्यामि यथावत्ते शुचिस्मिते।
यज्ज्ञात्वा न पुनर्मर्त्यः संसारेषु प्रवर्तते।।

ज्ञानेनैव विमुक्तास्ते साङ्ख्याः संन्यासकोविदाः।
शरीरं तु तपो घोरं साङ्ख्याः प्राहुर्निरर्थकम्।

पञ्चविंशतिकं ज्ञानं तेषां ज्ञानमिति स्मृतम्।
मूलप्रकृतिरव्यक्तमव्यक्ताज्जायते महान्।।

महतोऽभूदहङ्कारस्तस्मात्तन्मात्रपञ्चकम्।
इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्युत।।

तेभ्यो भूतानि पञ्चास्य शरीरं यैः प्रवर्तते।
इति क्षेत्रस्य संक्षेपं चतुर्विंशतिरिष्यते।
पञ्चविंशतित्याहुः पुरुषेणेह सङ्ख्यया।।

सत्वं रजस्तमश्चेति गुणाः प्रकृतिसम्भवाः।
तैः सृजत्यखिलं लोकं प्रकृतिः स्वात्मकैर्गुणैः।।

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः।
विकाराः प्रकृतेश्चैते वेदितव्या मनीषिभिः।।

लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक्।
विस्तरेणैव वक्ष्यामि तस्य व्याख्यामहं शृणु।।

नित्यमेकमणु व्यापि क्रियाहीनमहेतुकम्।
अग्राह्यमिन्द्रियैः सर्वैरेतदव्यक्तलक्षणम्।।

अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम्।
अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः।।

तत्सूक्ष्मत्वादनिर्देश्यं तत्सदित्यभिधीयते।
तन्मूलं च जगत्सर्वं तन्मूला सृष्टिरिष्यते।।

सत्वादयः प्रकृतिजा गुणास्तान्प्रब्रवीम्यहम्।।

सुखं तुष्टिः प्रकाशश्च त्रयस्ते सात्विका गुणाः।
रागद्वेषौ सुखं दुःखं स्तम्भश्च रजसो गुणाः।
अप्रकाशो भयं मोहस्तन्द्री च तमसो गुणाः।।

श्रद्धा प्रहर्षो विज्ञानमसंमोहो दया धृतिः।
सत्वे प्रवृत्ते वर्धन्ते विपरीते विपर्ययः।।

कामक्रोधौ मनस्तापो लोभो मोहस्तथामृषा।
प्रवृद्धे परिवर्धन्ते रजस्येतानि सर्वशः।।

विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा।
तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुकम्।।

एवमन्योन्यमेतानि वर्धन्ते च पुनःपुनः।
हीयन्ते च तथा नित्यमभिभूतानि भूरिशः।।

तत्र यत्प्रीतिसंयुक्तं कायेन मनसाऽपि वा।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा।।

यदा सन्तापसंयुक्तं चित्तक्षोभकरं भवेत्।
वर्तते रज इत्येव तदा तदभिचिन्तयेत्।।

यदा सम्मोहसंयुक्तं यद्विषादकरं भवेत्।
अप्रतार्क्यमविज्ञेयं तमस्तदुपधारयेत्।।

समासात्सात्विको धर्मः समासाद्राजसं धनम्।
समासात्तामसः कामस्त्रिवर्गे त्रिगुणाः क्रमात्।।

ब्रह्मादिदेवसृष्टिर्या सात्विकीति प्रकीर्त्यते।
राजसी मानवी सृष्टिस्तिर्यग्योनिस्तु तामिसी।।

ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणवृतच्तिस्था अधो गच्छन्ति तामसाः।।

देवमानुषतिर्यक्षु यद्भूतं सचराचरम्।
आदिप्रभृति संयुक्तं व्याप्तमेभिस्त्रिभिर्गुणैः।।

अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः।
विज्ञानं च विवेकश्च महतो लक्षणं भवेत्।।

महान्बुद्धिर्मतिः प्रज्ञा नामानि महतो विदुः।
अहङ्कारः स विज्ञेयो लक्षणेन समासतः।।

अहङ्कारेण भूतानां सर्गो नानाविधो भवेत्।
अहङ्कारनिवृत्तिर्हि निर्वाणायोपपद्यते।।

खं वायुरग्निः सलिलं पृथिवी चेति पञ्चमी।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ।।

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम्।
स्पर्शवत्प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः।।

रूपं पाकोक्षिणी ज्योतिश्चत्वारस्तेजसो गुणाः।
रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः।।

गन्धो घ्राणं शरीरं च पृथिव्यास्ते गुणास्त्रयः।
इति सर्वगुणा देवि विख्याताः पाञ्चभौतिकाः।।

गुणान्पूर्वस्यपूर्वस्य प्राप्नुवन्त्युत्तराणि तु।
तस्मान्नैकगुणाश्चेह दृश्यन्ते बूतसृष्टयः।।

उपलभ्याप्सु ये गन्धं केचिद्ब्रूयुरनैपुणाः।
अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे।।

तद्गन्धत्वमपां नास्ति पृथिव्या एव तद्गुणः।
भूमिर्गन्धे रसे स्नेहो ज्योतिश्चक्षुषि संस्थितम्।
प्राणापानाश्रयोः वायुः खेष्वाकाशः शरीरिणां

केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च।
पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम्।।

यत्किञ्चिदपि कायेऽस्मिन्धातुदोषमलाश्रितम्।
तत्सर्वं भौतिकं विद्धि देहैरेवास्य स्वामिकम्।।

बुद्धीन्द्रियाणि कर्णत्वक्चक्षुर्जिह्वाऽथ नासिका।
कर्मेन्द्रियाणि वाक्पाणिपादौ मेढ्रं गुदस्तथा।।

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
बुद्धीन्द्रियार्थाञ्जानीयाद्भूतेभ्यस्त्वभिनिःसृतान्।।

वाक्यं क्रिया गतिः प्रीतिरुत्सर्गश्चेति पञ्चधा।
कर्मेन्द्रियार्थाञ्जानीयात्ते च भूतोद्भवा मताः।।

इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते।
प्रार्थनालक्षणं तच्च इन्द्रियं तु मनः स्मृतम्।।

नियुङ्क्ते च सदा तानि भूतानि मनसा सह।
नियमे च विसर्गे च मनसः कारणं प्रभुः।।

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना धृतिः।
भूताभूतविकारश्च शरीरमिति संस्मृतम्।।

शरीराच्च परो देही शरीरं च व्यपाश्रितः।
शरीरिणः शरीरस्य सोऽन्तरं वेत्ति वै मुनिः।।

रसः स्पर्शस्च गन्धश्च रूपं शब्दविवर्जितम्।
अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम्।

अव्यक्तं सर्वदेहेषु मर्त्येष्वमरमाश्रितम्।
यः पश्येत्परमात्मानं बन्धनैः स विमुच्यते।।

नैवायं चक्षुषां ग्राह्यो नापरैरिन्द्रियैरपि।
मनसैव प्रदीप्तेन महानात्मा प्रदृश्यते।।

स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च।
वसत्येको महावीर्यो नानाभावसमन्वितः।।

नैव चोर्ध्वं न तिर्यक्च नाधस्तान्न कदाचन।
इन्द्रियैरिव बुद्ध्या वा न दृश्येत कदाचन।।

नवद्वारं पुरं गत्वा स्थितोऽसौ नियतो वशी।
ईश्वरः सर्वलोकेषु स्थावरस्य चरस्य च।।

तमेवाहुरणुभ्योऽणुं तु महद्भ्यो महत्तरम्।
बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतम्।।

क्षेत्रज्ञमेकतः कृत्वा सर्वं क्षेत्रमथैकतः।
एवं स विमृशेज्ज्ञानी संयतः सततं हृदि।।

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्।
अकर्ता लेपको नित्यो मध्यस्थः सर्वकर्मणाम्।।

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते।।

अजय्योऽयमचिन्त्योऽयमव्यक्तोऽयं सनातनः।
देही तेजोमयो देहि तिष्ठतीत्यपरे विदुः।।

ज्ञानमूष्मा च वायुश्च शरीरे जीवसंज्ञकः।
इत्येते निश्चिता बुद्ध्या तत्रैते बुद्धिचिन्तकाः।।

अपरे सर्वलोकांश्च व्याप्य तिष्ठन्तमीश्वरम्।
ब्रुवते केचिदत्रैव तिलतैलवदास्थितम्।।

अपरे नास्तिका मूढा हीनत्वात्स्थूललक्षणैः।
नास्त्यात्मेति विनिश्चित्याप्रज्ञास्ते निरयालयाः।।

एवं नानाविधा नैव विमृशन्ति महेश्वरम्।।

उमोवाच।

भगवन्ब्राह्मणो लोके नित्यमक्षरमव्ययम्।
अस्त्यात्मा सर्वभूतेषु हेतुस्तत्र सुदुर्गमः।।

महेश्वर उवाच।

ऋषिभिश्चापि देवैश्च व्यक्तमेष न दृश्यते।
दृष्ट्वा तु तं महात्मानं पुनस्तु न निवर्तते।।

तस्मात्तद्दर्शनादेव विन्दते परमां गतिम्।
इति ते कथितो देवि साङ्ख्यधर्मः सनातनः।
कपिलादिभिराचार्यैः सेवितः परमर्षिभिः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः।। 245 ।।