अनुशासनपर्व

अध्यायः २४४

Anusasana Parva (Sanskrit) · Adhyaya 244
अक्षर का आकार

महेश्वर उवाच।

अनुद्विग्नमतेर्जन्तोरस्मिन्संसारमण्डले।
शोकव्याधिजरादुःखैर्निर्वाणं नोपपद्यते।।
तस्मादुद्वेगजननं मनोऽवस्थानपं तथा।
ज्ञानं ते सम्प्रवक्ष्यामि तन्मूलममृतं हि वै।।

शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्।।

नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
अहो दुःखमिति ध्यायञ्शोकस्य पदमाव्रजेत्।।

द्रव्येषु समतीतेषु ये शुभास्तान्न चिन्तयेत्।
ताननाद्रियमाणस्य शोकबन्धः प्रणश्यति।।

सम्प्रयोगादनिष्टस्य विप्रयोगात्प्रियस्य च।
मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः।।

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
सन्तापेन च युज्येत तच्चास्य न निवर्तते।।

उत्पन्नमिह मानुष्ये गर्भप्रभृति मानवम्।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च।।

तयोरेकतरो मार्गो यद्येनमभिसंनमेत्।
सुखं प्राप्य न संहृष्येन्न दुःखं प्राप्य संज्वरेत्।।

दोषदर्शी भवेत्तत्र यत्र स्नेहः प्रवर्तते।
अनिष्टेनान्वितं पश्येद्यथा क्षिप्रं विरज्यते।।

यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वज्ज्ञातिसमागमः।।

अदर्शनादापतिताः पुनश्चादर्शनं गताः।
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम्।।

कुटुम्बपुत्रदारांश्च शरीरं धनसञ्चयम्।
ऐश्वर्यं स्वस्तिता चेति न मुह्येत्तत्र पण्डितः।।

सुखमेकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे।
तत्रापि सुमहद्दुःखं न नित्यं लभते सुखम्।।

सुखस्यान्तरं दुःखं दुःखस्यानन्तरं सुखम्।
क्षया निचयाः सर्वे पतनान्ताः समुच्छ्रयाः।।

संयोगा *********** मरणान्तं च जीवितम्।
उच्छ्रयांश्च निपाताश्च दृष्ट्या प्रत्यक्षतस्त्रयम्।
अनित्यमसुखं चेति व्यवस्येत्सर्वमेव च।।

अर्थानामार्जने दुःखमार्जितानां तु रक्षणे।
नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्।।

अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः।
राजा चोरश्च दायादा भूतानि क्षय एव च।।

अर्थमेव ह्यनर्थस्य मूलमित्यवधारय।
न ह्यनर्थाः प्रबाधन्ते नरमर्तविवर्जितम्।।

अर्थप्राप्तिर्महद्दुःखमाकिञ्चिन्यं परं सुखम्।
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत्।।

धनलोभेन तृष्णाया न तृप्तिरुपलभ्यते।
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः।।

जित्वाऽपि पृथिवीं कृत्स्नां चतुःसागरमेखलाम्।
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम्।।

अलं परिग्रहेणेह दोषवान्हि परिग्रहः।
कोशकारः क्रिमिर्देवि बध्यते हि परिग्रहात्।।

एकोऽपि पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति च।
एकस्मिन्नेव राष्ट्रे तु स चापि निवसेन्नृपः।।

तस्मिन्राष्ट्रेऽपि नगरमेकमेवाधितिष्ठति।
नगरेऽपि गृहं चैकं भवेत्तस्य निवेशनम्।।

एक एव प्रतिष्ठः स्यादावासस्तद्गृहेऽपि च।
आवासे शयनं चैकं निशि यत्र प्रलीयते।।

शयनस्यार्धमेवास्य स्त्रियाश्चार्धं विधीयते।
तदनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते।।

सर्वं ममेति सम्मूढो बलं पश्यति बालिशः।
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम्।।

तण्डुलप्रस्थमात्रेण यात्रा स्यात्सर्वदेहिनाम्।
ततो भूयस्तरो योगो दुःखाय तपनाय च।।

नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम्।
सर्वान्कामान्परित्यज्य ब्रह्मभूयाय कल्पते।।

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्।।

न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कुष्णवर्त्मेव भूय एवाभिवर्धते।।

अलाभेनैव कामानां शोकं त्यजति पण्डितः।
आयासविटपस्तीव्रः कामाग्निः कर्षणारणिः।
इन्द्रियार्थैश्च सम्मोह्य दहत्यकुशलं जनम्।।

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य पर्याप्तमिति पश्यन्न मुह्यति।।

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्।।

इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत्।
मनःषष्ठानि संयम्य नित्यमात्मनि योजयेत।।

इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम्।
संनियम्य नु तान्येव ततः सिद्धिमवाप्नुयात्।।

षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति।
न च पापैर्न चानर्थैः संयुज्येत विचक्षणः।।

अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः।
अरक्षितेषु तेष्वाशु नरो नरकमेति हि।।

हृदि काममयश्चित्रो मोहसञ्चयसम्भवः।
अज्ञानरूढमूलस्तु विवित्सापरिषेचनः।।

रोषलोभमहास्कन्धः पुरा दुष्कृतसारवान्।
आयासविटपस्तीव्रशोकपुष्पो भयाङ्कुरः।।

नानासङ्कल्पपत्राढ्यः प्रमादात्परिवर्धितः।
महतीभिः पिपासाभिः समन्तात्परिवेष्टितः।।

संरोहत्यकृतप्रज्ञे पादपः कामसम्भवः।
नैव रोहति तत्वज्ञे रूढो वा छिद्यते पुनः।।

कृच्छ्रोपायेष्वनित्येषु निःसारेषु फलेषु च।
दुःखादिषु दुरन्तेषु कामयोगेषु का रतिः।।

इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तताऽऽयुषि।
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतासुखे।।

व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः।
नरस्याकृतकृत्यस्य किं सुखं मरणे सति।।

सञ्चिन्वानं तमेवार्थं कामानामवितृप्तकम्।
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति।।

जन्ममृत्युजरादुःखैः सततं समभिद्रुतः।
संसारे पच्यमानस्तु पापान्नोद्विजते जनः।।

उमोवाच।

केनोपायेन मर्त्यानां निवर्त्येते जरान्तकौ।
यद्यस्ति भगवन्मह्यमेतदाचक्ष्व माचिरम्।।

तपसा वा सुमहता कर्मणा वा श्रुतेन वा।
रसायनप्रयोगैर्वा केनात्येति जरान्तकौ।।

महेश्वर उवाच।

नैतदस्ति महाभागे जरामृत्युनिवर्तनम्।
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनि।।

न धनेन न राज्येन नोग्रेण तपसाऽपि वा।
मरणं नातितरते विना मुक्त्या शरीरिणः।।

अश्वमेधसहस्राणि वाजपेयशतानि च।
न तरन्ति जरामृत्यू निर्वाणाधिगमाद्विना।।

ऐस्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा।
रसायनप्रयोगाद्वै न तरन्ति जरान्तकौ।।

दानयज्ञतपःशीलरसायनविदोऽपि वा।
स्वाध्यायनिरता वाऽपि न तरन्ति जरान्तकौ।।

देवदानवगन्धर्वकिन्नरोरगराक्षसान्।
स्ववशे कुरुते कालो न कालस्यास्त्यगोचरः।।

न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः।
स्रेयं प्रपद्यते ध्यानमजस्रं ध्रुवमव्ययम्।।

स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव।
आयुरादाय मर्त्यानामहोरात्रेषु सन्ततम्।।

जीवितं सर्वभूतानामक्षयः क्षपयन्नसौ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च।।

यस्यां रात्र्यां व्यतीतायामायुरल्पतरं भवेत्।
गाधोदके मत्स्य इव किन्नु तस्य कुमारता।।

मरणं हि शरीरस्य नियतं ध्रुवमेव च।
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः।।

न म्रियेरन्न जीर्येरन्यदि स्युः सर्वदेहिनः।
न चानिष्टं प्रवर्तेत शोको वा प्राणिनं क्वचित्।।

अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति।
अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते।।

श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्।
कोपि तद्वेद यत्रासौ मृत्युना नाभिवीक्षितः।।

वर्षास्विदं करिष्यामि इदं ग्रीष्मवसन्तयोः।
इति बालश्चिन्तयति अन्तरायं न बुध्यति।।

इदं मे स्यादिदं मे स्यादित्येवं मनसा नराः।
अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति।।

कालपाशेन बद्धानामहन्यहनि जीर्यताम्।
का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा।।

युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्।
फलानामिव पक्वानां सदा हि पतनाद्भयम्।।

मर्त्यस्य किं धनैर्दारैः पुत्रैर्भोगैः प्रियैरपि।
एकाह्ना सर्वमुत्सृज्य मृत्योस्तु वशमन्वियात्।

जायामानांश्च सम्प्रेक्ष्य म्रियमाणांस्तथैव च।
न संवेगोस्ति चेत्पुंसः काष्ठलोसमो हि सः।।

विनाशिनो ह्यध्रुवजीवितस्य
किं बन्धुभिर्मित्रपरिग्रहैश्च।
विहाय यद्गच्छति सर्वमेवं
क्षणेन गत्वा न निवर्तते च।।

एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम्।
उद्वेगो जायते शीघ्रं निर्वाणस्य पुरस्सरः।।

तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः।
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते।।

वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे।
मोक्षस्योपनिषद्दिव्यं वैराग्यमिति निश्चितम्।।

एतत्ते कथितं देवि वैराग्योत्पादनं वचः।
एवं सञ्चिन्त्य सञ्चिन्त्य मुच्यन्ते हि मुमुक्षवः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः।। 244 ।।