अनुशासनपर्व

अध्यायः २४३

Anusasana Parva (Sanskrit) · Adhyaya 243
अक्षर का आकार

उमोवाच।

देवदेव नमस्तेऽस्तु कालसूदन शङ्कर।
लोकेषु विविधा धर्मास्त्वत्प्रसादान्मया श्रुताः।।

विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवमव्ययम्।
श्रुतुमिच्छाम्यहं सर्वमत्र मुह्यति मे मनः।।

केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः।
वानप्रस्थं पुनः केचिद्गार्हस्थ्यं केचिदाश्रमम्।।

राजधर्माश्रयं केचित्केचित्स्वाध्यायमेव च।
ब्रह्मचर्याश्रमं केचित्केचिद्वाक्संयमाश्रयम्।।

मातरं पितरं केचित्सेवमाना दिवं गताः।
अहिंसया परः स्वर्गे सत्येन च महीयते।।

आहवेऽभिमुखाः केचिन्निहतास्त्रिदिवं गताः।
केचिदुञ्छवृत्ते सिद्धाः स्वर्गमार्गं समाश्रिताः।।

आर्जवेनापरे युक्ता महतां पूजते रताः।
ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः।।

एवं बहुविधैर्लोके धर्मद्वारैः सुसंवृतैः।
ममापि मतिराविद्धा मेघलेखेव वायुना।।

एतस्मिन्संशयस्थाने संशयच्छेदकारि यत्।
वचनं ब्रूहि देवेश निश्चयज्ञानसंज्ञितम्।।

नारद उवाच।

एवं पृष्टः स्वया देव्या महादेवः पिनाकधृक्।
प्रोवाच मधुरं वाक्यं सूक्ष्ममध्यात्मसंश्रितम्।।

महेश्वर उवाच।

न्यायतस्त्वं महाभागे श्रोतुकामाऽसि निश्चयम्।
एतदेव विशिष्टं ते यत्त्वं पृच्छसि मां प्रिये।।

सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः।
बहुद्वारस्य धर्मस्य नेहास्ति विफलाः क्रियाः।।

यस्मिन्यस्मिंश्च विषये योयो याति विनिश्चयम्।
तं तमेवाभिजानाति नान्यं धर्मं शुचिस्मिते।।

शृणु देवि समासेन मोक्षद्वारसमनुत्तमम्।
एतद्धि सर्वधर्माणां विशिष्टं शुभमव्ययम्।।

नास्ति मोक्षात्परं देवि मोक्ष एव परा गतिः।
सुखमात्यन्तिकं श्रेष्ठमनिवृत्तं च तद्विदुः।।

नात्र देवि जरा मृत्युः शोको वा दुःखमेव वा।
अनुत्तममचिन्त्यं च तद्देवि परमं सुखम्।।

ज्ञानानामुत्तमं ज्ञानं मोक्षज्ञानं विदुर्बुधाः।
ऋषिभिर्देवसङ्घैश्च प्रोच्यते परमं पदम्।।

नित्यमक्षरमक्षोभ्यमजेयं शाश्वतं शिवम्।
विशन्ति तत्पदं प्राज्ञाः स्पृहणीयं सुरोत्तमैः।।

दुःखादिश्च दुरन्तश्च संसारोयं प्रकीर्तितः।
शोकव्याधिजरादोषैर्मरणेन च संयुतः।।

यथा ज्योतिर्गणा व्योम्नि विवर्तन्ते पुनःपुनः।
तस्य मोक्षस्य मार्गोऽयं श्रुयतां शुभलक्षणे।।

ब्रह्मादिस्थावरान्तश्च संसारो यः प्रकीर्तितः।
संसारे प्राणिनः सर्वे निवर्तन्ते यथा पुनः।।

तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते।
अध्यात्मतत्वविज्ञानं ज्ञानमित्यभिधीयते।।

ज्ञानस्य ग्रहणोपायमाचारं ज्ञानिनस्तथा।
यथावत्सम्प्रवक्ष्यामि तत्त्वमेकमनाः शृणु।।

ब्राह्मणः क्षत्रियो वाऽपि भूत्वा पूर्वं गृहे स्थितः।
आनृण्यं सर्वतः प्राप्य ततस्तान्संत्यजेद्गृहान्।।

ततः संत्यज्य गार्हस्थ्यं निश्चितो वनमाश्रयेत्।।

वने गुरुं समाज्ञाय दीक्षितो विधिपूर्वकम्।
दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत्।।

गृह्णीयादप्युपाध्यायान्मोक्षज्ञानमनिन्दितः।
द्विविधं च पुनर्मोक्षं साङ्ख्ययोगमिति स्मृतिः।।

पञ्चविंशतिविज्ञानं साङ्ख्यमित्यभिधीयते।
ऐश्वर्यं देवसारूप्यं योगशास्त्रस्य निर्णयः।
तयोरन्यतरं ज्ञानं शृणुयाच्छिष्यतां गतः।।

नाकालो नाप्यकाषायी नाप्यसंवत्सरोषितः।
नासाङ्ख्ययोगो नाश्राद्धं गुरुणा स्नेहपूर्वकम्।
समः शीतोष्णहर्षादीन्विषहेत स वै मुनिः।।

अमृष्यः क्षुत्पिपासाभ्यामुचितेभ्यो निवर्तयेत्।
त्यजेत्सङ्कल्पजान्ग्रन्थीन्सदा ध्यानपरो भवेत्।।

कुण्डिकाचमसं शिक्यं छत्रं यष्टिमुपानहौ।
चेलमित्येव नैतेषु स्थापयेत्साम्यमात्मनः।।

गुरोः पूर्वं समुत्तिष्ठेज्जघन्यं तस्य संविशेत्।
नैवाविज्ञाप्य भर्तारमावश्यकमपि व्रजेत्।।

द्विरह्नि स्नानशाटेन संध्ययोरभिषेचनम्।
एककालाशनं चास् विहितं यतिभिः पुरा।।

भैक्षं सर्वत्र गृह्णीयाच्चिन्तयेत्सततं निशि।
कारणे चापि सम्प्राप्ते न ज्ञाप्येत कदाचन।।

ब्रह्मिचर्यं वने वासं शौचमिन्द्रियसंयमः।
दया च सर्वभूतेषु तस्य धर्मः सनातनः।।

विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः।
आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम्।।

यदा भावं न कुरुते सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्र्हम सम्पद्यते तदा।।

अनिष्ठुरोऽनहङ्कारो निर्द्वन्द्वो वीतमत्सरः।
वीतशोकभयाबाधं पदं प्राप्नोत्यनुत्तमम्।।

तुल्यनिन्दास्तुतिर्मौनी समलोष्टाश्मकाञ्चनः।
समः शत्रौ च मित्रे च निर्वाणमधिगच्छति।।

एवं युक्तसमाचारस्तत्परोऽध्यात्मचिन्तकः।
ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः।। 243 ।।