अनुशासनपर्व

अध्यायः २४२

Anusasana Parva (Sanskrit) · Adhyaya 242
अक्षर का आकार

उमोवाच।

भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः।
प्राणमोक्षं कथं कृत्वा परत्रि हितमाप्नुयुः।।

महेश्वर उवाच।

हन्त ते कथयिष्यामि शृणु देवि समाहिता।
द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा।।

तयोः स्वभावं नापायं यत्नतः करणोद्भवम्।
एतयोरुभयोर्देवि विधानं शृणु शोभने।।

कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम्।
यत्नजं नाम मरणमात्मत्यागो मुमूर्षया।।

तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम्।
महाप्रस्थानगमनं तथा प्रायोपवेशनम्।
जलावगाहनं चैव अग्निचित्यां प्रवेशनम्।।

एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम्।
एतेषां क्रमयोगेन विधानं शृणु शोभने।।

स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः।
तत्रानृण्यं च सम्प्राप्य वृद्धो वा व्याधितोऽपि वा।।

दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च।
सर्वं विहाय बन्धूंश्च क्रमाणां भरणं तथा।।

दानानि विधिवत्कृत्वा धर्मिकार्यर्थमात्मनः।
अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन्।।

अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना।
उपस्पृश्च प्रतिज्ञाय व्यवसायपुरसरम्।।

परित्यज्य ततो ग्राम्यं धर्मं कुर्याद्यथेप्सितम्।
महाप्रस्तानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम्।।

भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम्।
चेष्टाहानौ शयित्वाऽपि तन्मनाः प्राणमुत्सृजेत्।
एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते।।

प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः।
देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत्।।

अप्राणं तु शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः।
पुण्यं परित्यजेत्प्राणानेष धर्मः सनातनः।
एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते।।

अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे।
कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा।।

दैवतेभ्यो नमस्कृत्वा कृत्वा चापि प्रदक्षिणम्।
भूत्वा शुचिर्व्यवसितः प्रविशेदग्निसंस्तरम्।
सोपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम्।।

जलावगाहनं चेच्छेत्तेनैव विधिना शुभे।
ख्याते पुण्यतमे तीर्थे निमज्जेत्सुकृतं स्मरन्।।

सोपि पुण्यतमाँल्लोकान्निःसङ्गात्प्रतिपद्यते।
ततः कल्यशरीरस्य संत्यागं शृणु तत्वतः।।

रक्षार्थं क्षत्रियः श्रेष्ठः प्रजापालनकारणात्।
योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम्।।

गोब्राह्मणार्थं सर्वेषां प्राणत्यागो विधीयते।
स्वराज्यरक्षणार्तं वा कुजनैः पीडिताः प्रजाः।।

मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि।
सुसन्नद्धो व्यवसितः सम्प्रविश्यापराङ्मुखः।
एवं राजा मृतः सद्यः स्वर्गलोके महीयते।।

तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः।
भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते।।

कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया।
स्वाम्यर्थं संत्यजेत्प्राणान्पुण्याँल्लोकान्स गच्छति।।

स्पृहणीयः सुरगणैस्तत्र नास्ति विचारणा।
एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम्।।

सोपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया।
इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः।।

कामक्रोधाद्भयाद्वाऽपि यदि चेत्संत्यजेत्तनुम्।
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात्।।

स्वभावं मरणं नाम न तु चात्मेच्छया भवेत्।
यथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि।।

तत्रापि मरणं त्यागो मूढत्यागाद्विशिष्यते।
भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः।।

निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम्।
माल्यगन्धैरलङ्कृत्य सुवर्णेन च भामिनि।।

श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम्।
अथवा निक्षिपेद्भूमौ शरीरं जीववर्जितम्।।

दिवा च शुक्लपक्षश्च उत्तरायणमेव च।
मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम्।।

औदकं चाष्टकाश्राद्धं बहुभिर्बहुभिः कृतम्।
आप्यायनं मृतानां तत्परलोके भवेच्छुभम्।
एतत्सर्वं मया प्रोक्तं मानुषाणां हितं वचः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः।। 242 ।।