अनुशासनपर्व
अध्यायः २४१
उमोवाच।
मानुषेष्वेव जीवत्सु गतिर्विज्ञायते न वा।
यथा शुभगतिर्जीवो नासौ त्वशुभभागिति।।
एतदिच्छाम्यहं श्रोतुं तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि जीवितं विद्यते यथा।
द्विविधाः प्राणिनो लोके दैवमासुरमाश्रिताः।।
मनसा कर्मणा वाचा प्रतिकला भवन्ति ये।
तादृशानासुरान्विद्धि मर्त्यास्ते नरकालयाः।।
हिंस्राश्चोराश्च धूर्ताश्च परदाराभिमर्शकाः।
नीचकर्मरता ये च शौचमङ्गलवर्जिताः।।
शुचिविद्वेषिणः पापा लोकचारित्रदूषकाः।
एवं युक्तसमाचारा जीवन्तो नरकालयाः।।
लोकोद्वेगकराश्चान्ये पशवश्च सरीसृपाः।
वृक्षाः कण्टकिनो रूक्षास्तादृशान्विद्धि चासुरान्।।
अपरान्देवपक्षांस्तु शृणु देवि समाहिता।।
मनोवाक्कर्मभिर्नित्यमनुकूला भवन्ति ये।
तादृशानमरान्विद्धि ते नराः स्वर्गगामिनः।।
शौचार्जवपरा धीराः परार्थं नाहरन्ति ये।
ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः।।
भयाद्वा वृत्तिहेतोर्वा अनृतं न वदन्ति ये।
सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः।।
धार्मिकाः शौचसम्पन्नाः शुक्ला मधुरवादिनः।
नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः।।
स्वदुःखमिव मन्यन्ते परेषां दुःखवेदनम्।
दरिद्रा अपि ये केचिद्याचिताः प्रीतिपूर्वकम्।
ददत्येव च यत्किञ्चित्ते नराः स्वर्गगामिनः।।
आस्तिका मङ्गलपराः सततं वृद्धसेविनः।
पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः।।
व्रतिनो दानशीलाश्च धर्मशीलाश्च मानवाः।।
ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः।।
गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः।
कृजज्ञाः कृतविद्याश्च ते नराः स्वर्गगामिनः।।
जितेन्द्रिया जितक्रोधा जितमानमदाः स्मृताः।
लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः।।
निर्मा निरहङ्कारः सानुक्रोशाः स्वबन्धुषु।
दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः।।
ऐहिकेन तु वृत्तेन पारत्रमनुमीयते।
एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः।।
यदन्यच्च शुभं लोके प्रजानुग्रहकारि च।
पशवश्चैव वृक्षाश्च प्रजानां हितकारिणः।
तादृशान्देवपक्षस्थानिति विद्धि शुभानने।।
शुभाशुभप्रयं लोके सर्वं स्थावरजङ्गमम्।
दैवं शुभमिति प्राहुरासुरं चाशुभं प्रिये।।
।। इति श्रीमन्यहाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः।। 241 ।।