अनुशासनपर्व

अध्यायः २४०

Anusasana Parva (Sanskrit) · Adhyaya 240
अक्षर का आकार

उमोवाच।

भगवन्सर्वभूतेश पुरमर्दन शङ्कर।
श्रुतं पापकृतां दुःखं यमलोके वरप्रद।।

श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम्।
कथं ते भुञ्जते भोगान्स्वर्गलोके महेश्वर।।

कथिताः कीदृशा लोका नृणां सुकृतकारिणाम्।
एतन्मे वद देवश श्रोतुं कौतूहलं हि मे।।

महेश्वर उवाच।

शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि शोभने।
विविधाः पुण्यलोकास्ते कर्मकर्मण्यतां गताः।।

मेरुं हि कनकात्मानं परितः सर्वतोदिशम्।
भद्राश्चः केतुमालश्च उत्तराः कुरवस्तथा।।

जम्बूवनादयः स्वर्गा इत्येते कर्मवर्जिताः।
तेषु भूत्वा स्वयंभूताः प्रदृश्यते यतस्ततः।।

योजनानां सहस्रं च एकैकं मानमात्रया।
नित्यं पुष्पफलोपेतास्तत्र वृक्षाः समन्ततः।।

आसक्तवस्त्राभरणाः सर्वे कनकसन्निभाः।
द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसन्निभाः।
विचित्राश्च मनोज्ञाश्च कूजितैः शोभयन्ति तान्।।

कुशेशयवनच्छन्ना नलिन्यश्च मनोरमाः।
तत्र वान्त्यनिला नित्यं दिव्यगन्धसुखावहाः।।

सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः।
एवं बहुविधा देवि दिव्यभोगाः सुखावहाः।।

स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः।
रमन्ते तत्र चान्योन्यं कामरागसमन्विताः।।

मनोहरा महाभागाः सर्वे ललितकुण्डलाः।
एवं तत्र स्थिता मर्त्याः प्रमदाः प्रियदर्शनाः।।

नानाभावसमायुक्ता यौवनस्थाः सदैव तु।
युवत्यः कल्पितास्तत्र कामजा ललितास्तथा।।

मनोनुकूला मधुरा भोगिनामुपकल्पिताः।
प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा।।

एवंविधाः स्त्रियश्चात्र पुरुषाश्च परस्परम्।
रमन्ते चेन्द्रियैः स्वस्थै शरीरैर्भोगसंस्कृतैः।।

कामहर्षगुणाभ्यस्ता नान्ये क्रोधादयः प्रिये।
क्षुत्पिपासा न चास्त्यत्रि गात्रक्लेशाश्च शोभने।।

सर्वतो रमणीयं च सर्वत्र कुसुमान्विम्।
यावत्पुण्यफलं तावद्दृश्यन्ते बहुसङ्गताः।
निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः।।

तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः।
नश्यन्ति जायमानास्ते शरीरैः सहसा प्रिये।।

स्वर्गलोकात्परिभ्रष्टाः जायन्ते मानुषे पुनः।
पूर्वपुण्यावशेषेण विशिष्टाः सम्भवन्ति ते।।

एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि।
अत ऊर्ध्वं पदान्यष्टौ सुकर्माणि शृणु प्रिये।
भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम्।।

विद्याधराः किम्पुरुषा यक्षगन्धर्वकिन्नराः।
अप्सरोदानवा देवा यथाक्रममुदाहृताः।।

तेषु स्थानेषु जायन्ते प्राणिनाः पुण्यकर्मणः।
तेषामपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः।।

स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च।
रूपसत्वबलोपेताः सर्वे दीर्घायुषस्तथा।।

तेषां सर्वक्रियारम्भो मानुषेष्विव दृश्यते।
अतिमानुषमैश्वर्यमत्र मायाबलात्कृतम्।।

जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते।
गुणा दोषाश्च सन्त्यत्र आकाशगमनं तथा।।

अन्तर्धानं बलं सत्त्वमायुश्च चिरजीवितम्।
तपोविशेषज्जायन्ते यथा कर्म्णि भामिनि।।

देवलोके प्रवृत्तिस्तु तेषामेव विधीयते।
न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः।।i

तत्र भोगमनिर्देश्यममृतत्वं च विद्यते।
विमानगमनं नित्यमप्सरोगणसेवितम्।।

एवमन्यच्च तत्कर्म देवताभ्यो विशिष्यते।
प्रत्यक्षं तव तत्सर्वं देवलोके प्रवर्तनम्।।

तस्मान्न वर्णये देवि विदितं च त्वया शुभे।
तत्सर्वं सुकृतैरेव प्राप्यते चोत्तमं पदम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि
चत्वारिंशदधिकद्विशततमोऽध्यायः।। 240 ।।