अनुशासनपर्व

अध्यायः २३

Anusasana Parva (Sanskrit) · Adhyaya 23
अक्षर का आकार

`भीष्य उवाच।

श्रुत्वा तु वचनं मातुः क्रुद्धायास्ते भुजङ्गमाः।
कृच्छ्रेणैवान्वमोदन्त केचिद्धित्वा दिशो गताः।।

ये प्रतस्थुर्दिशस्तत्र क्रुद्धा तानशपद्भृशम्।
भुजङ्गमानां माताऽसौ कद्रूर्वैरकरी तदा।।

उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः।
चतुर्थो धन्विनां श्रेष्ठात्कुन्तीपुत्राद्धनञ्जयात्।।

स सर्पसत्रमाहर्ता क्रुद्धः कुरुकुलोद्वहः।
तस्मिन्सत्रेऽग्निना युष्मान्पञ्चत्वमुपनेष्यति।।

एवं क्रुद्धाऽशपन्माता पन्नगान्धर्मचारिणः।
गुरोः परित्यागकृतं नैतदन्यद्भविष्यति।।

एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः।
विहाय मातरं क्रुद्धा गता वैरकरीं तदा।।

तत्र ये वृजिनं तस्या अनापन्ना भुजङ्गमाः।
ते तस्य वाजिनो वाला बभूवुरसितप्रभाः।।

तान्दृष्ट्वा वालधिस्थांश्च पुत्रान्कद्रूरथाब्रवीत्।
विनतामथ संहृष्टा हयोसौ दृश्यतामिति।।

एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः।
उतकादुत्तरन्तं तं हयं चैव च भामिनि।।

सा त्ववक्रमतिर्देवी विनता जिह्मगामिनीम्।
अब्रवीद्भगिनीं किञ्चिद्विहसन्तीव भारत।।

हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे।
दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि।।

एवं स्थिरं पणं कृत्वा हयं ते तं ददर्शतुः।
कृत्वा साक्षिणमात्मानं भगिन्यौ कुरुसत्तम।।

सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता।
श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम्।।

तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका।
उवाच कालवालोऽयं तुरगो विजितं त्वया।।

दासी मां प्रेषय स्वार्थे यथा कामवशां शुभे।
दास्यश्च कामकारा हि भर्तृणां नात्र संशयः'।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रयोविंशोऽध्यायः।। 23 ।।