अनुशासनपर्व

अध्यायः २३५

Anusasana Parva (Sanskrit) · Adhyaya 235
अक्षर का आकार

उमोवाच।

भगवन्कानि देयानि धर्ममुद्दिश्य मानवैः।
तान्यहं श्रोतुमिच्छामि तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये।
अन्नं प्रतिश्रयो दीपः पानीयं तृणमिन्धनम्।।

स्नेहो गन्धश्च भैषज्यं तिलाश्च लवणं तथा।
एवमादि तथाऽन्यश्च दानमाजस्रमुच्यते।।

अजस्रदानात्सततमाजस्रमिति निश्चितम्।
सामान्यं सर्ववर्णानां दानं शृणु समाहिता।।

अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत्।
तस्माकदन्नं विशेषेण दातुमिच्छति मानवः।।

ब्राह्मणायाभिरूपाय यो दद्यादन्नमीप्सितम्।
निदधाति निधिं श्रेष्ठं सोऽनन्तं पारलौकिकम्।।

श्रान्तमध्वपरिश्रान्तमतिथिं गृहमागतम्।
अर्चयीत प्रयत्नेन स हि यज्ञो वरप्रदः।।

कृत्वा तु पातकं कर्म यो दद्यादन्नमर्थिनाम्।
ब्राह्मणानां विशेषेण सोपहन्ति स्वकं तमः।।

पितरस्तस्य नन्दन्ति सुवृष्ट्या कर्षका इव।
पुत्रो यस्य तु पौत्रो वा श्रोत्रियं भोजयिष्यति।।

अपि चण्डालशूद्राणामन्नदानं न गर्हते।
तस्मात्सर्वप्रयत्नेन दद्यादन्नममत्सरः।।

कलत्रं पीडयित्वाऽपि पोषयेदतिथीन्सदा।
जन्मापि मानुषे लोके तदर्थं हि विधीयते।।

अन्नदानाच्च लोकांस्तान्सम्प्रवक्ष्याम्यनिन्दिते।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्।।

अनेकशतभौमानि सान्तर्जलवनानि च।
वैडूर्यार्चिःप्रकाशपनि हेमरूप्यमयानि च।।

नानारूपाणि संस्थानां नानारत्नमयानि च।
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च।।

तरुणादित्यवर्णानि स्थावराणि चराणि च।
यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च।।

सर्वकामफलाश्चात्र वृक्षा भवनसंस्थिताः।
वाप्यो बह्व्यश्च कूपाश्च दीर्घिकाश्च सहस्रशः।।

अरुजानि विशोकानि नित्यानि विविधानि च।
भवनानि विचित्राणि प्राणदानां त्रिविष्टपे।।

विवस्वतश्च सोमस्य ब्रह्मणश्च प्रजापतेः।
विशन्ति लोकांस्ते नित्यं जगत्यन्नोदकप्रदाः।।

तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः।
जायन्ते मानुषे लोके सर्वकल्याणसंयुताः।।

बलसंहननोपेता नीरोगाश्चिरजीविनः।
कुलीना मतिमन्तश्च भवन्त्यन्नप्रदा नराः।।

तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता।
सर्वकालं च सर्वस्य सर्वत्र च सदैव च।।

सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत्।
तस्मात्ते वर्णयिष्यामि यथावदनुपूर्वशः।।

अपि पापकृतं क्रूरं दत्तं रुक्मं प्रकाशयेत्।।

सुवर्णं ये प्रयच्छन्ति श्रोत्रिभेभ्यः सुचेतसः।
देवतास्ते तर्पयन्ति समस्ता इति वैदिकम्।।

अग्निर्हि देवताः सर्वाः सुवर्णं चाग्निरुच्यते।
तस्मात्सुवर्णदानेन तृप्ताः स्युः सर्वदेवताः।।

अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम्।
तस्मात्सुवर्णदातारः सर्वान्कामानवाप्नुयुः।।

आदित्यस्य हुताशस्य लोकान्नानाविधाञ्शुभान्।
काञ्चनं सम्प्रदायाशु प्रविशन्ति न संशयः।।

अलङ्कारं कृतं चापि केवलान्प्रविशिष्यते।
सौवर्णैर्ब्राह्मणं काले तैरलङ्कृत्य भोजयेत्।।

य एतत्परमं दानं दत्त्वा सौवर्णमद्भुतम्।
द्युतिं मेधां वपुः कीर्तिं पुनर्जाते लबेद्ध्रुवम्।।

तस्मात्स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः।
न ह्येतस्मात्परं लोकेष्वन्यत्पापात्प्रमुच्यते।।

अत ऊर्ध्वं प्रवक्ष्यामि गवां दानमनिन्दिते।
नहि गोभ्यः परं दानं विद्यते जगति प्रिये।।

लोकान्सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयंभुवा।
वृत्त्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः।।

लोकज्येष्ठा लोकवृत्त्या प्रवृत्ता
मय्यायत्ताः सोमनिष्यन्दभूताः।
सौम्याः पुण्याः प्राणदाः कामदाश्च
तस्मात्पूज्याः पुण्यकामैर्मनुष्यैः।।

धेनुं दत्त्वा निभृतां सुशीलां
कल्याणवत्सां च पयस्विनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावत्समाः स्वर्गफलानि भुङ्क्ते।।

प्रयच्छते यः कपिलां सचेलां
सकांस्यदोहां कनकाग्र्यशृङ्गीम्।
पुत्राश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र च।।

अन्तर्जाताः क्रीतका द्यूतलब्धाः।
प्राणक्रीताः सोदकाश्चौजसा वा।
कृच्छ्रोत्सृष्टाः पोषणार्थागताश्च
द्वारैरेतैस्ताः प्रलब्धाः प्रदद्यात्।।

कृसाय बहुपुत्राय श्रोत्रियायाहिताग्नये।
प्रदाय नीरुजां धेनुं लोकान्प्राप्नोत्यनुत्तमान्।।

नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः।
हव्यकव्यव्यपेतस्य न दद्याद्गाः कथञ्चन।।

समानवत्सां यो दद्याद्धेर्नुं विप्रे पयस्विनीम्।
सुवृत्तां वस्त्रसंछन्नां सोमलोके महीयते।।

समानवत्सां यो दद्यात्कृष्णां धेनुं पयस्विनीम्।
सुवृत्तां वस्त्रसंछन्नां लोकान्प्राप्नोत्यपांपतेः।।

हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसम्पन्नां यान्ति कौकबेरसद्मनः।।

वायुरेणुसवर्मां च सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसम्पन्नां वायुलोके महीयते।।

समानवत्सां यो धेनुं दत्त्वा गौरीं पयस्विनीम्।
सुवृत्तां वस्त्रसंछन्नामग्निलोके महीयते।।

युवानं बलिनं श्यामं शतेन सह यूथपम्।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम्।।

ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम्।
ऐश्वर्यमभिजायन्ते जायमानाः पुनःपुनः।।

गवां मूत्रपुरीषाणि नोद्विजेन कदाचन।
न चासां मांसमश्नीयाद्गोषु भक्तः सदा भवेत्।।

ग्रासमुष्टिं परगवे दद्यात्संवत्सरं शुचि।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम्।।

गवामुभयतः काले नित्यं स्वस्त्ययनं वदेत्।
न चासां चिन्तयेत्पापमिति धर्मविदो विदुः।।

गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः।
कथञ्चिन्नावमन्तव्या गावो लोकस्य मातरः।।

तस्मादेव गवां दानं विशिष्टमिति कथ्यते।
गोषु पूजा च भक्तिश्च नरस्यायुष्यतां वहेत्।।

अतःपरं प्रवक्ष्यामि भूमिदानं महाफलम्।
भूमिदानसमं दानं लोके नास्तीति निश्चयः।।

गृहयुक्क्षेत्रयुग्वाऽपि भूमिभागः प्रदीयते।
सुखभोगं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च।।

ग्रहीतारमलङ्कृत्य वस्त्रपुष्पानुलोपनैः।
सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः।
यो दद्याद्दक्षिणां काले त्रिरद्भिर्गृह्यतामिति।।

एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः।
यावत्तिष्ठति सा भूमिस्तावद्दत्तफलं विदुः।।

भूमिदः स्वर्गमारुह्य रमते शाश्वतीः समाः।
अचला ह्यक्षया भूमिः सर्वकामान्दुधुक्षति।।

यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः।
अपि गोकर्णमात्रेण भूमिदानन मुच्यते।।

सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च।
सर्वमेतन्महाभागे भूमिदाने प्रतिष्ठितम्।।

भर्तुर्निः श्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम्।।

हलकृष्टां महीं दद्यात्सर्वबीजफलान्विताम्।
सुकूपशरणां वाऽपि सा भवेत्सर्वकामदा।।

निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम्।
विमुक्तः कलुषैः सर्वैः शकलोकं स गच्छति।।

यथा जनित्री क्षीरेणि स्वपुत्रमभिवर्धयेत्।
एवं सर्वफलैर्भूमिर्दातारमभिवर्धयेत्।।

ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम्।
ग्राहयित्वा निजां भूमिं न यान्ति यमसादनम्।।

यथा चन्द्रमसो वृद्धिरहन्यहनि दृश्यते।
तथा भूमेः कृतं दानं सस्येसस्ये विवर्धते।।

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले।
तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः।।

पितरः पितृलोकस्था देवताश्च दिवि स्थिताः।
सन्तर्पयन्ति भोगैस्तं यो ददाति वसुन्धराम्।।

दीर्घायुष्यं वराङ्गत्वं स्फीतां च श्रियमुत्तमाम्।
परत्र लभते मर्त्यः सम्प्रदाय वसुन्धराम्।।

एतत्सर्वं मयोद्दिष्टं भूमिदानस्य यत्फलम्।
श्रद्दधानैर्नरैर्नित्यं श्राव्यमेतत्सनातनम्।।

अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि।
कन्या देया महादेवि परेषामात्मनोपि वा।।

कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम्।
यस्मै दित्सति पात्राय तेनापि भृशकामिताम्।।

प्रथमं तत्समाकल्प्य बन्धुभिः कृतनिश्चयः।
कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः।।

गृहोपकरणैश्चैव पशुधान्येन संयुताम्।
तदर्थिने तदर्हाय कन्यां तां समलङ्कृताम्।।

सविवाहं यथान्यायं प्रचच्छेदग्निसाक्षिकम्।
वृत्त्यातीं यथा कृत्वा सद्गृहे तौ निवेशयेत्।।

एवं कृत्वा वधूदानं तस्य दानस्य गौरवात्।
प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम्।।

पुनर्जातस्य सौभाग्यं कुलवृद्धिं तथाऽऽप्नुयात्।।

विद्यादानं तथा देवि पात्रभूताय वै ददत्।
प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम्।।

अनुरूपाय शिष्याय यश्च विद्यां प्रयच्छति।
यथोक्तस्य प्रदानस्य फलमानन्त्यमश्नुते।।

दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेदनैः।
स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने।।

एवं ते कथितान्येव महादानानि मानिनि।
त्वत्प्रियार्थं मया देवि भूयः श्रोतुं किमिच्छसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः।। 235 ।।