अनुशासनपर्व

अध्यायः २३४

Anusasana Parva (Sanskrit) · Adhyaya 234
अक्षर का आकार

महेश्वर उवाच।

एतदर्थमवाप्नोति नरः प्रेत्य शुभेक्षणे।।

उमोवाच।

लोकसिद्धं तु यद्द्रव्यं सर्वसाधारणं भवेत्।
तददत्सर्विसामान्यं कथं धर्मं लभेन्नरः।
एवं साधारणे द्रव्ये तस्य स्वत्वं कथं भवेत्।।

महेश्वर उवाच।

लोके भूतमयं द्रव्यं सर्वसाधारणं तथा।
तथैव तद्ददन्मर्त्यो लभेत्पुण्यं स तच्छृणु।।

दाता प्रतिग्रहीता च देयं सोपक्रमं तथा।
देशकालौ च यत्त्वेतद्दानं षङ्गुणमुच्यते।
तेषां सम्पद्विशेषांश्च कीर्त्यमानान्निबोध मे।।

आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः।

सत्यवादी जितक्रोधस्त्वलुब्धो नाभ्यसूयकः।

श्रुद्धावानास्तिकश्चैवक एवं दाता प्रशस्यते।।

शुद्रो दान्तो जितक्रोधस्तथा दीनकुलोद्भवः।
श्रुतचारित्रसम्पन्नस्तथा बहुकलत्रवान्।।

पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान्।
एतान्पात्रगुणान्विद्धि तादृक्पात्रं प्रशस्यते।।

पितृदेवाग्निकार्येषु तस्य दत्तं महाफलम्।
यद्यदर्हति यो लोके पात्रं तस्य भवेच्च सः।

मुच्येदापद आपन्नो येन पात्रं तदस्य तु।।

अन्नस्य क्षुधितं पात्रं तृषितस्तु जलस्य वै।
एवं पात्रेषु नानात्वमिष्यते पुरुषं प्रति।।

जारश्चोरश्च षण्डश्च हिंस्रः समयभेदकः।
लोकविघ्नकराश्चान्ये वर्जितव्याः सर्वशः प्रिये।।

परोपघाताद्यद्द्रव्यं चौर्याद्वा लभ्यते नृभिः।
निर्दयाल्लभ्यते यच्च धूर्तभावेन वै तथा।।

अधर्मादर्थमोहाद्वा बहूनामुपरोधनात्।
यल्लभ्यते धनं देवि तदत्यन्तविगर्हितम्।।

तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि।
तस्मान्न्यायागतेनैव दातव्यं शुभमिच्छता।।

यद्यदात्मप्रियं नित्यं तत्तद्देयमिति स्थितिः।
उपक्रममिमं विद्धि दातॄणां परमं हितम्।।

पात्रभूतं तु दूरस्थमभिगम्य प्रसाद्य च।
दाता दानं तथा दद्याद्यथा तुष्येत तेन सः।

एष दानविधइः श्रेष्ठः समाहूय तु मध्यमः।।

पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च।
शौचाचमनसंयुक्तं दातव्यं श्रद्धया प्रिये।।

याचितॄणां तु परममाभिमुख्यं पुरस्कृतम्।
संमानपूर्वं सङ्ग्राह्यं दातव्यं देशकालयो।।

अपात्रेभ्योपि चान्येभ्यो दातव्यं भूतिमिच्छता।।
पात्राणि सम्परीक्ष्यैव दात्रा वै नाममात्रया।

अतिशक्तया परं दानं यथाशक्ति तु मध्यमम्।
तृतीयं चापरं दानं नानुरूपमिवात्मनः।।

यथा सम्भाषितं पूर्वं दातव्यं तत्तथैव च।
पुण्यिक्षेत्रेषु यद्दत्तं पुण्यकालेषु वा यथा।

तच्छोभनतरं विद्धि गौरवाद्देशकालयोः।।

उमोवाच।

यश्च पुण्यतमो देशस्तथा कालश्च शंस मे।।

महेश्वर उवाच।।।

कुरुक्षेत्रं महानन्यो यश्च देवर्षिसेवितः।
गिरिर्वरश्च तीर्थानि देशभागेषु पूजितः।
ग्रहीतुमीप्सितो यत्र तत्र दत्तं महाफमल्।।

शरद्वसन्तकालश्च पुण्यमासस्तथैव च।
शुक्लपक्षश्च पक्षाणां पौर्णमासी च पर्वसु।।

पितृदैवतनक्षत्रनिर्मलो दिवसस्तथा।
तच्छोभनतरं विद्धि चन्द्रसूर्यग्रहे तथा।।

प्रतिग्रहीतुर्यः कालो मनसा कीर्तितः शुभे।
एवमादिष्टकालेषु दत्तं दानं महद्भवेत्।।

दाता देयं च पात्रं च उपक्रमयुता क्रिया।
देशकालं तथा तेषां सम्पच्छुद्धिः प्रकीर्तिता।।

यथैव युगपत्सम्पत्तत्र दानं महद्भवेत्।।

अत्यल्पमपि यद्दानमेभिः षड्भिर्गुणैर्युतम्।
भूत्वाऽनन्तं नयेत्स्वर्गं दातारं दोषवर्जितम्।।

सुमहद्वाऽपि यद्दानं गुणैरेभिर्विनाकृतम्।
अत्यल्पफलनिर्योगमफलं वा फलोद्धतम्।।

उमोवाच।

एवंगुणयुतं दानं दत्तं च फलतां व्रजेत्।
तदस्ति चेन्महद्देयं तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।।

तदप्यस्ति महाभागे नराणां भावदोषतः।।

कृत्वा धर्मं तु विधिवत्पश्चात्तापं करोति चेत्।
श्लाघया वा यदि ब्रूयाद्वृथा संसदिं यत्कृतम्।।

प्रकल्पयेच्च मनसा तत्फलं प्रेत्यभावतः।
कर्म धर्मकृतं यच्च सततं फलकाङ्क्षया।

एतत्कृतं वा दत्तं वा परत्र विफलं भवेत्।।

एते दोषा विवर्ज्याश्च दातृभिः पुण्यकाङ्क्षिभिः।
सनातनमिदं वृत्तं सद्भिराचरितं तथा।।

अनुग्रहात्परेषां तु गृहस्थानामृणं हि तत्।
इत्येवं मन आविश्य दातव्यं सततं बुधैः।।

एवमेव कृतं नित्यं सुकृतं तद्भवेन्महत्।
सर्वसाधारणं द्रव्यमेवं दत्त्वा महत्फलम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः।। 234 ।।