अनुशासनपर्व

अध्यायः २३६

Anusasana Parva (Sanskrit) · Adhyaya 236
अक्षर का आकार

उमोवाच।

भगवन्देवदेवेश कथं देयं तिलान्वितम्।
तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च।।

महेश्वर उवाच।

तिलकल्पविधिं देवि तन्मे शृणु समाहिता।।

समृद्धैरसमृद्धैर्वा तिला देया विशेषतः।
तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः।।

न्यायतस्तु तिलाञ्शुद्धान्संहृत्याथ स्वशक्तिनः।
तिलराशिं पुनः कुर्यात्पर्वाताभं सुरस्नकम्।
महान्तं यदि वा स्तोकं नानाद्रव्यसमन्वितम्।।

सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः।
अलङ्कृत्य यथायोगं सपताकं सवेदिकम्।
सभूषणं सवस्त्रं च शयनासनसंमितम्।।

प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः।
भोजयित्वा च विधिवद्ब्राह्म्णानर्हतो बहून्।।

स्वयं कृतोपवासश्च वृत्तशौचसमन्वितः।
दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम्।।

एकस्यापि बहूनां वा दातव्यं भूतिमिच्छता।
तस्य दानफलं देवि अग्निष्टोमेन संयुतम्।।

केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम्।
सवस्त्रकं सरत्नं च पुंसा गोदानकाङ्क्षिणा।
तदर्हाय प्रदातव्यं तस्य गोदानतः फलम्।।

शरावांस्तिलसम्पूर्णान्सहिरण्यान्सचम्पकान्।
नृपोऽददद्ब्राह्मणाय सु पुण्यफलभाग्भवेत्।।

एवं तिलमयं देयं नरेण हितमिच्छता।
नानादानफलं भूयः शृणु देवि समाहिता।।

बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः।
पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः।।

वस्त्रदानाद्वपुःशोभामलङ्कारं लभेन्नरः।
दीपदो बुद्धिवैशद्यं द्युतिशोभां लभेन्नरः।।

राजपीडाविमोक्षं तु छत्रदो लभते फलम्।
दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः।
दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम्।।

यानानि वाहनं चैव तदर्हाय ददन्नरः।
पादरोगपरिक्लेशान्मुक्तः श्वसनवाहवान्।
विचित्र रमणीयं च लभते यानवाहनम्।।

प्रतिश्रयप्रदानं च तदर्हाय तदिच्छते।
वर्षाकाले तु रात्रौ वा लभेत्पक्षबलं शुभम्।।

सेतुकूपतटाकानां कर्ता तु लभते नरः।
दीर्घायुष्यं च सौभाग्यं तता प्रेत्य गतिं शुभां।।

वृक्षसंरोपको यस्तु छायापुष्पफलप्रदः।
प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः।।

यस्तु सङ्क्रमकृल्लोके नदीषु जलहारिणाम्।
लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम्।।

मार्गकृत्सततं मर्त्यो भवेत्सन्तानवान्नरः।
कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत्।।

औषधानां प्रदानात्तु सततं कृपयाऽन्वितः।
भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः।।

अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान्।
स च पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम्।।

वेदगोष्ठाः शुभाः शाला भिक्षूणां च प्रतिश्रयम्।
यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम्।।

प्रासादवासं विविधं यक्षशोभां लभेत्पुनः।
विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम्।।

रम्यं तं दैवगोवाटं यः कुर्याल्लभते नरः।
प्रेत्य भावे शुभां जातिं व्याधिमोक्षं तथैव च।।

एवं नानाविधं द्रव्यं दानकर्ता लभेत्फलम्।।

उमोवाच।

कृतं दत्तं यथा यावत्तस्य तल्लभते फलम्।
एतन्मे देवदेवेश तत्र कौतूहलं महत्।।

महेश्वर उवाच।

प्रेत्यिभावे शृणु फलं दत्तस्य च कृतस्य च।
दानं षङ्गुणयुक्तं तु तदर्हाय यथाविधिः।
यथाविभवतो दानं दातव्यमिति मानवैः।।

बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽऽगमम्।
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम्।।

इदं दत्तमिदं देयमित्येवं फलकाङ्क्षया।
यद्दत्तं तत्तदेव स्यान्न तु किञ्चन लभ्यते।।

ध्रुवं देव्यत्तमे दानं मध्यमे त्वधमं फलम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः।। 236 ।।