अनुशासनपर्व

अध्यायः २३३

Anusasana Parva (Sanskrit) · Adhyaya 233
अक्षर का आकार

जनमेजय उवाच।

बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु।
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते।।

वैशंपायन उवाच।

बहवः पुरुषा लोके साङ्ग्ययोगविचारणे।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह।।

बहनां पुरुषाणां च यथैका योनिरुच्यते।
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम्।।

नमस्कृत्वा च गुरवे व्यासाय विदितात्मने।
तपोयुक्ताय दान्ताय वन्द्याय परमपये।।

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव।
ऋतं सत्यं च विख्यातमृपिसिंहेन चिन्तितम्।।

उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः।
अध्यान्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत।।

समासतेस्तु यद्व्यासः पुरुषैकत्वमुक्तवान्।
तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशांपते।।

क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः।
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप।।

तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन्।
वैराजसदनान्नित्यं वैजयन्तं निपेवते।।

अथ तत्राऽऽसतस्तस्य चतुर्वक्रस्य धीमतः।
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया।
आकाशेन महायोगी पुरा त्रिनयनः प्रभुः।।

ततः खान्निपपाताशु धरणीधरमूर्धनि।
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः।।

पितामह उवाच।

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोसि मेऽन्तिकम्।
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा।
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः।। 12-360-14a
12-360-14b
12-360-14c

रुद्र उवाच।

त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम।
कृशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ।।

चिरदृष्टोमि भगवन्वैराजसदने मया।
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम्।।

कौतूहलं चापि हि मे एकान्तगमनेन ते।
नैतत्कारणमल्पं हि भविष्यति पितामह।।

गन्धर्वैरेप्सरोभिश्च सततं संनिषेवितम्।
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि।।

रुद्र उवाच।

बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुव।
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट्।।

को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः।
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे।।

ब्रह्मोवाच। 12-360-23x

बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः।
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि।। 12-360-23a
12-360-23b

आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते।
बहूनां पुरुषाणां स यथैका योनिरुच्यते।।

तथा तं पुरुषं विश्वं परमं सुमहत्तमम्।
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्।। 12-360-25a
12-360-25b

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षष्ट्यधिकत्रिशततमोऽध्यायः।। 360।।

अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः।
भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः।।

बाढमित्येव कृत्वाऽसौ यथाऽऽज्ञां शिरसा हरेः।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत।।

प्राप चैनं मुहूर्तेन स्वं स्थानं देवसंज्ञितम्।
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत्।।

अथास्य बुद्धिरभवत्पुनरन्या तदा किल।
सृष्टाः प्रजा इमाः सर्वा ब्रह्मणा परमेष्ठिना।। 12-359-29a
12-359-29b

दैत्यदानवगन्धर्वरक्षोगणसमाकुला।
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी।। 12-359-30a
12-359-30b

बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः।
भविष्यन्ति तपोयुक्ता वरानप्राप्स्यन्ति चोत्तमान्।।

तत्र न्याय्यमिदं कर्तुं भारावतरणं मया।
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम्।।

मया ह्येषा हि ध्रियते पातालस्थेन भोगिना।
तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः।।

वाराहं नारसिहं च वामनं मानुषं तथा।
एभिर्मया निहन्तव्याः दुर्विनीताः सुरारयः।।

अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्।
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्।।

अपान्तरतमा नाम सुतो वाक्संभवः प्रभोः।
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः।।

तमुवाच नतं मूर्ध्ना देवानामादिवरव्ययः।
वेदाख्याने श्रुतिः कार्या त्वया मतिमतांवर।।

तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने।
तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेन्तरे।।

ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा।
तपसा च सुतप्तेन यमेन नियमेन च।। 12-359-42a
12-359-42b

मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः।
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः।।

पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः।
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि।।

तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति।
परस्परविनाशार्थं त्वामृते द्विजसत्तम।।

धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा।
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे।।

वीतरागश्च पुत्रस्ते परमात्मा भविष्यति।
महेश्वरप्रसादेन नैतद्वचनमन्यथा।।

यं मानसं वै प्रवदन्ति विप्राः
पितामहस्योत्तमबुद्धियुक्तम्।
वसिष्ठमग्र्यं च तपोनिधानं
यस्यातिसूर्यं व्यरिरिच्यते भाः।।

उमोवाच।

तस्यान्वपे चापि ततो महर्षिः
पराशरो नाम महाप्रभावः।
पिता स ते वेदनिधिर्वरिष्ठो
महातपा वै तपसो निवासः।।

कानीनगर्भः पितृकन्यकायां
तस्मादृषेस्त्वं भविता च पुत्रः।।

अनादिनिधनं लोके चक्रहस्तं च मां मुने।
अनुध्यानान्मम मुने नैतद्वचनमन्यथा।
भविष्यति महासत्व ख्यातिश्चाप्यतुला तव।।

[यत्किंचिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम्।
अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम्।।]

एवं सारस्वतमृषिमपांतरतमं तथा।
युक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्।।

सोहं तस्य प्रसादेन देवस्य हरिमेधसः।
अपांतरतमो नाम्ना ततो जातोऽऽज्ञया हरेः।।

त्रिराप्लुत्य जलाभ्यासे दत्त्वा ब्राह्मणदक्षिणाम्।
अभ्यर्च्य देवायतनं ततः प्रायाद्यथागतम्।।

एतद्विधानं सर्वेषां तीर्थंतीर्थमिति प्रिये।
समीपतीर्थस्नानात्तु दूरतीर्थं सुपूजितम्।।

आदिप्रभृतिशुद्धस्य तीर्थस्नानं शुभं भवेत्।
तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम्।।

वैशंपायन उवाच।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मिपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः।। 233 ।।