अनुशासनपर्व
अध्यायः २३२
महेश्वर उवाच।
विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते।
प्रोच्यते तत्त्रिधा देवि सुकृतं च समासतः।।
यदौपरमिकं चैव सुकृतं निरुपद्रवम्।
तथैव सोपकरणं तावता सुकृतं विदुः।।
निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये।
मनोवाक्कायजा दोषाः शृणु मे वर्जनाच्छुभम्।।
त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया।
स हि प्राप्नोति सकलं सर्वदुष्कृतवर्जनात्।।
प्रथमं वर्जयेद्दोषान्युगपत्पृथगेव वा।
तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः।
दोषसाकल्यसंत्यागान्मुनिर्भवति मानवः।।
सौकर्यं पस्य धर्मस्य कार्यारम्भादृतेऽपि च।
आत्मा च लब्धोपरमो लभन्ते सुकृतं परम्।।
अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः।
एतादृशं न बुध्यन्ते आत्माधीनं न निर्व्यथाः।।
दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते।।
पापभीरुत्वमात्रेण दोषाणां परिवर्जनात्।
सुशोभनो भवेद्देवि क्रजुर्धर्मव्यपेक्षया।
इत्यौपरमिकं देवि कथितं सुकृतं तव।।
श्रुत्वा च वृद्धसंयोगादिन्द्रियाणां च निग्रहात्।
सन्तोषाच्च धृतेश्चैव शक्यते दोषवर्जनम्।।
तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये।
यमधर्मेण धर्मोस्ति नान्यः शुभतरः प्रिये।
यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम्।।
ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम्।
सफलो दोषसंत्यागो दानादपि शुभादपि।।
तपो दानं महादेवि दोषमल्पं हि निर्भरेत्।
सुकृतं यामिकं चोक्तं वक्ष्ये निरुपसाधनम्।।
सुखाभिसन्धिर्लोकानां सत्यं शौचमथार्जवम्।
व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमः शमः।।
एवमादि शुभं कर्म सुकृतं नियमाश्रितम्।
शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि।।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव।
नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः।।
यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम्।
तथा तस्याविकारेण वचनं सत्यलक्षणम्।।
यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत्।
सत्यमेव प्रवक्तव्यं पारावर्यं विजानता।।
दीर्घायुश्च भवेत्सत्यात्कुलसन्तानपालकः।
लोकसंस्थितिपालश्च भवेत्सत्येन मानवः।।
उमोवाच।
कथं सन्धारयन्मर्त्यो व्रतं शुभमवाप्नुयात्।।
महेश्वर उवाच।
पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः।
व्रतवत्तस्य संत्यागस्तपोव्रतमिति स्मृतम्।।
त्याज्यं वा यदि वा जोष्यमव्रतेनि वृथा चरन्।
तथा फलं न लभते तस्माद्धर्मं वृथा चरेत्।।
शुद्धकायो नरो भूत्वा स्नात्वा तीर्थ यथाविधि।
पञ्चभूतानि चन्द्रार्कौ संध्ये धर्मयमौ पितॄन्।।
आत्मनैव तथाऽऽत्मानं निवेद्य व्रतवच्चरेत्।
व्रतमामरणाद्वाऽपि कालच्छेदेन वा हरेत्।।
शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु।
ब्रह्मचर्यव्रतं कुर्यादुपवासव्रतं तथा।।
एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा।
व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः।
व्रतभङ्गे महत्पापमिति विद्धि शुभेक्षणे।।
औषधार्थं यदज्ञानाद्गुरूणां वचनादपि।
अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते।।
व्रतापवर्गकाले तु दैवब्राह्मणपूजनम्।
नरेण तु यथा विद्धि कार्यसिद्धिं यथाऽऽप्तुयात्।।
उमोवाच।
कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
बाह्ममाभ्यन्तरं चेति द्विविधं शौचमिष्यते।
मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम्।।
सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं च यत्।
बाह्यशौचं भवेदेतत्तथैवाचमनादिना।।
मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च।
द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च।
एतैः सम्मार्जयेत्कायमम्भसा च पुनः पुनः।।
अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतं च यज्जलम्।
प्रायशस्तादृशे मज्जेदन्यथा च विवर्जयेत्।।
त्रिस्त्रिराचमनं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः।
तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत्।
तथैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत्।।
शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम्।
तक्षणं घर्षणं चैव दारवाणां विशोधनम्।।
दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम्।
शेषाणां देवि सर्वेषामातपेन जलेन च।
ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत्।।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते।
एवमापदि संशुद्धिरेवं शौचं विधीयते।
उमोवाच।
आहारशुद्धिस्तु कथं देवदेव महेश्वर।।
महेश्वर उवाच।
अमांसमद्यमक्लेद्यमपर्युषितमेव च।
अतिकट्वम्ललवणहनं च शुभगन्धि च।।
क्रिमिकेशमलैर्हीनं संवृतं शुद्धदर्शम्।
एवंविधं सदाहार्यं देवब्राह्मणसात्कृतम्।।
श्रुतमित्येव तज्ज्ञेयमन्यथा मन्यसेऽशुभम्।
ग्राम्यादारण्यकैः सिद्धं श्रेष्ठमित्यवधारय।।
अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि।
यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम्।
इति ते कथितं देवि भूयः किं श्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि
द्वात्रिंशदधिकद्विशततमोऽध्यायः।। 232 ।।