अनुशासनपर्व
अध्यायः २३१
उमोवाच।
भगवन्देवदेवेश शूलपाणे वृषध्वज।
श्रुतं मे परमं गुह्यं प्रसादात्ते वरप्रद।।
श्रोतुं भूयोऽहमिच्छामि प्रजानां हितकारणात्।
शुभाशुभमिति प्रोक्तं कर्म स्वस्वं समासतः।।
तन्मे विस्तरतो ब्रूहि शुभाशुभविधइं प्रति।
अशुभं कीदृशं कर्म प्राणिनो यन्निपातयेत्।।
शुभं वापि कथं देव प्रजानामूर्ध्वदं भवेत्।
एतन्मे वद देवेश श्रोतुकामाऽस्मि कीर्तय।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि तत्सर्वं शृणु शोभने।
सुकृतं दुष्कृतं चेति द्विविधं कर्मविस्तरम्।।
तयोर्यद्दुष्कृतं कर्म तच्च सञ्जायते त्रिधा।
मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवात्।।
मनःपूर्वं तु वा कर्म वर्तते वाङ्मयं ततः।
जायते वै क्रियायोगमनु चेष्टाक्रमः प्रिये।।
अभिद्रोहोऽभ्यसूया च परार्थेषु च वै स्पृहा।
शुभाशुभानां मर्त्यानां वर्तनं परिवारितम्।।
धर्मकार्ये यदाऽश्रद्धा पापकर्मणि हर्षणम्।
एवमाद्यशुभं कर्म मनसा पापमुच्यते।।
अनृतं यच्च परुषमबद्धवचनं कटु।
असत्यं परिवादश्च पापमेतत्तु वाङ्मयम्।।
अगम्यागमनं चैव परदारनिषेवणम्।
वधबन्धपरिक्लेशैः परप्राणोपतापनम्।।
चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा।
अभक्ष्यभक्षणं चैव व्यसनेष्वविषङ्गता।।
दर्पात्स्तम्भाभिमानाच्च परेषामुपतापनम्।
अकार्याणां च करणमशौचं पानसेवनम्।।
दौःशील्यं पापसम्पर्के साहाय्यं पापकर्मणि।
अधर्म्यमयशस्यं च कार्यं तस्य निषेवणम्।
एवमाद्यशुभं चान्यच्छारीरं पापमुच्यते।।
मानसाद्वाङ्मयं पापं विशिष्टमिति लक्ष्यते।
वाङ्मयादपि वै पापाच्छारीरं गण्यते बहु।।
एवं पापयुतं कर्म त्रिविधं पातयेन्नरम्।
परापकारजननमत्यन्तं पातकं स्मृतम्।।
त्रिविधं तत्कृतं पापं कर्तारं पापकं नयेत्।
पातकं चापि यत्कर्म कर्मणा बुद्धिपूर्वकम्।।
सापदेशमवश्यं तत्कर्तव्यमिति तत्कृतम्।
कथञ्चित्तत्कृतमपि कर्ता तेन स लिप्यते।।
अवश्यं पापदेशेन प्रतिहृन्येत कारणम्।।
उमोवाच।
भगवन्पापकं कर्म यथा कृत्वा न लिप्यते।।
महेश्वर उवाच।
यो नरोऽनपराधी च स्वात्मप्राणस्य रक्षणात्।
शत्रुमुद्यतशस्त्रं वा पूर्वं तेन हतोपि वा।
प्रतिहन्यान्नरो हिंस्यान्न स पापेन लिप्यते।।
चोरादधिकसंत्रस्तस्तत्प्रतीकारचेष्टया।
यः प्रजघ्नन्नरो हन्यान्न स पापेन लिप्यते।।
ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात्।
वधबन्धपरिक्लेशान्कुर्वन्पापात्प्रमुच्यते।।
दुर्भिक्षे चात्मवृत्त्यर्थमेकायतनगस्तथा।
अकार्यं वाऽप्यभक्ष्यं वा कृत्वा पपान्न लिप्यते
विधिरेष गृहस्थानां प्रायेणैवोपदिश्यते।
अवाच्यं वाऽप्यकार्यं वा देशकालवशेन तु।।
बुद्धिपूर्व नरः कुर्वस्तत्प्रयोजनमात्रया।
किञ्चिद्वा लिप्यते पापैरथवा न च लिप्यते।।
एवं देवि विजानीहि नास्ति तत्र विचारणा।।
उमोवाच।
भगवन्पानदोषांश्च पेयापेयत्वकारणम्।
एतदिच्छाम्यहं श्रोतुं तन्मे वद महेश्वर।।
महेश्वर उवाच।
हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते।।
पुरा सर्वेऽभवन्मर्त्या बुद्धिमन्तो नयानुगाः।
शुचयश्च शुभाचाराः सर्वे चोन्मनसः प्रिये।।
एवंभूते तदा लोके प्रेष्यकृन्न परस्परम्।
प्रेष्याबावान्मनुष्याणां कर्मारम्भो ननाश ह।।
उभयोर्लोकयोर्नाशं दृष्ट्वा कर्मक्षयात्प्रभुः।
यज्ञकर्म कथं लोके वर्तेतेति पितामहः।।
आज्ञापयत्सुरान्देवि मोहयस्वेति मानुषान्।
तमसः सारमुद्धृत्य पानं बुद्धिप्रणाशनम्इ।
न्यपातयन्मनुष्येषु पापदोषावहं प्रिये।।
तदाप्रभृति तत्पानान्मुमुहुर्मानवा भुवि।
कार्याकार्यमजानन्तो वाच्यावाच्यं गुणागुणम्।।
केचिद्धसन्ति तत्पीत्वा प्रवदन्ति तथा परे।
नृत्यन्ति मुदिताः केचिद्गायन्ति शुभाशुभान्।
कलिं ते कुर्वतेऽभीष्टं प्रहरन्ति परस्परम्।
क्वचिद्धावन्ति सहसा प्रस्खलन्ति पतन्ति च।।
अयुक्तं बहु भाषन्ते यत्र क्वचन शोभने।
नग्ना विक्षिप्य गात्राणि नष्टज्ञाना इवासते।।
एवं बहुविधान्भावान्कुर्वन्ति भ्रान्तचेतनाः।
ये पिबन्ति महामोहं पानं पापयुता नराः।।
धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत्।
तस्मान्नराः सम्भवन्ति निर्लज्जा निरपत्रपाः।।
बुद्धिसत्वैः परिक्षीणास्तेजोहीना मलान्विताः।
पीत्वापीत्वा तृषायुक्ताः पानपाः सम्भवन्ति च।।
पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः।
पानार्थं कर्मवश्यास्ते सम्भवन्ति नराधमाः।।
पानकामास्तृषायोगाद्बुद्धिसत्वपरिक्षयात्।
पानदानां प्रेष्यकाराः पानपाः सहसाऽभवन्।।
तदाप्रभृति वै लोके दीनैः पानवशैर्नरैः।
कारयन्ति च कर्माणि बुद्धिमन्तस्तु पानपाः।।
कारुत्वमथ दासत्वं प्रेष्यतामेत्य पानपाः।
सर्वकर्मकराश्चासन्पशुवद्रज्जुबन्धिताः।।
पानपस्तु सुरां पीत्वा तदा बुद्धिप्रणाशनात्।
कार्याकार्यस्य चाज्ञानाद्यथेष्टकरणात्स्वयम्।
विदुषामविधेयत्वात्पापमेवाभिपद्यते।।
परिभूतो भवेल्लोके मद्यपो मित्रभेदकः।
सर्वकालमशुद्धिं च सर्वभक्षस्तथा भवेत्।।
विनष्टो ज्ञातिविद्वद्भ्यः सततं कलिभावगः।
परुषं कटुकं घोरं वाक्यं वदति सर्वशः।।
गुरूनतिवदेन्मत्तः परदारान्प्रधर्षयेत्।
संविदं कुरुते शौण्डेर्न शृणोति हितं क्वचित्।।
एवं बहुविधा दोषाः पानपे सन्ति शोभने।
केवलं नरकं यान्ति नास्ति तत्र विचारणा।
तस्मात्तद्वर्जितं सद्भिः पानमात्महितैषिभिः।।
यदि पानं न वर्जेरन्सन्तश्चारित्रकारणात्।
भवेदेतज्जगत्सर्वममर्यादं च निष्क्रियम्।।
तस्माद्बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम्।
इति ते दुष्कृतं सर्वं कथितं त्रिविधं प्रिये।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकत्रिंशदधिकद्विशततमोऽद्यायः।। 231 ।।