अनुशासनपर्व

अध्यायः २३०

Anusasana Parva (Sanskrit) · Adhyaya 230
अक्षर का आकार

उमोवाच।

भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै।
कति ते नरका घोराः कीदृशास्ते महेश्वर।।

महेश्वर उवाच।

शृणु भामिनि तत्सर्वं पञ्चैते नरकाः स्मृताः।
भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम्।।

प्रथमं रौरवं नाम शतयोजनमायतम्।
तावत्प्रमाणविस्तीर्णं तामसं पापपीडितम्।।

भृशं दुर्गन्धि परुषं क्रिमिभिर्दारुणैर्वृतम्।
अतिघोरमनिर्देश्यं प्रतिकूलं ततस्ततः।।

ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने।
क्रिमिभिर्भक्ष्यमाणाश्च विष्ठागन्धसमायुताः।।

एवंप्रमाणमुद्विग्ना यावत्तिष्ठन्ति तत्र ते।
यातनाभ्यो दशगुणं नरके दुःखमिष्यते।।

तत्र चात्यन्तिकं दुःखमिष्यते च शुभेक्षणे
क्रोशन्तश्च रुद्रन्तश्च वेदनास्तत्रि भुञ्जते।।

भ्रमन्ति दुःखमोक्षार्थं ज्ञाता कश्चिन्न विद्यते।
दुःखस्यान्तरमात्रं तु ज्ञानं वा न च लभ्यते।।

महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये।
तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात्।।

तृतीयं नरकं तत्र कण्टिकावनसंज्ञितम्।
ततो द्विगुणितं तच्च पूर्वाभ्यां दुःखमानयोः।
महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि।।

अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये।
एतद्द्विगुणितं तस्माद्यथानिष्टसुखं तथा।।

ततो दुःखं हि सुमहदमानुषमिति स्मृतम्।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः।।

तत्र दुःखमनिर्देश्यं वहद्धोरं यथा तथा।
पञ्चेन्द्रियैरसम्बाधात्पञ्चकष्टमिति स्मृतम्।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः।।

अमानुषार्हजं दुःखं महाभूतैश्च भुञ्जते।
अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम्।।

पञ्च् कष्टेन हि समं नास्ति दुःखं तथा परम्।
दुःखस्थानमिति प्राहुः पञ्चकष्टमिति प्रिये।।

एवं त्वेतेषु तिष्ठन्ति प्राणिनोः दुःखभागिनः।
अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये।।

क्रोशन्तश्च रुदन्तश्च वेदनर्ता भृशातुराः।
केचिद्भमन्तश्चेष्टन्ते केचिद्धावन्ति चातुराः।।

आधावन्तो निवार्यन्ते शूलहस्तैर्यतस्ततः।
रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः।।

यावत्पूर्वकृतं तावन्न मुच्यन्ते कथञ्चन।
क्रिमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः।।

संस्मरन्तः स्वकं पापं कृतमात्मापराधजम्।
शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये।
एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात्।।

उमोवाच।

भगवन्कतिकालं ते तिष्ठन्ति नरकेषु वै।।

महेश्वर उवाच।

शतवर्षसहस्राणामादिं कृत्वा हि जन्तवः।

तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः।।

उमोवाच।

भगवंस्तेषु के तत्र तिष्ठन्तीति वद प्रभो।।

महेश्वर उवाच।

रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः।

मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः।।

द्वितीये द्विगुणं कालं पच्यन्ते तादृशा नराः।
महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः।।

एतावन्मानुषसहं परमन्येषु लक्ष्यते।।

यक्षा विद्याधराश्चैव काद्रवेयाश्च किंनराः।
गन्धर्वभूतसङ्घाश्च तेषां पापयुता भृशम्।
चतुर्थे परिपच्यन्ते तादृशा नरकाः स्मृताः।।
चतुर्थे परितप्यन्ते यावद्युगविपर्ययः।

सहन्तस्तादृशं घोरं पञ्चकष्टे तु यादृशम्।
तत्रास्य चिरदुःखस्य ह्यधोन्यान्विद्धि मानुषान्।।

एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः।
नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु।।

उद्भेदजेषु वा केचिदत्रापि क्षीणकल्मषाः।
पुनरेव प्रजायन्ते मृगपक्षिषु शोभने।
मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम्।।

उमोवाच।

नानाजातिषु केनैव जायन्ते पापकारिणः।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि शोभने।
सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते।।

यश्च मांसप्रियो नित्यं काकगृध्नान्स संस्पृशेत्।
सुरापः सततं मर्त्यः सूकरत्वं व्रजेद्भुवम्।।

अभक्ष्यभक्षणो मर्त्यः काकजातिषु जायते।
आत्मघ्नो यो नरः कोपात्प्रेतजातिसु तिष्ठति।।

पैशुन्यात्परिवादाच्च कुक्कुटत्वमवाप्नुयात्।
नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति।।

हिंसाविहारस्तु नरः क्रिमिकीटेषु जायते।
अतिमानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत्।।

अगम्यागमनाच्चैव परदारनिषेवणात्।
मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा।।

कृतघ्नो मित्रघाती च सृगालवृकजातिषु।
कृतघ्नः पुत्रघाती च स्थावरेष्वथ तिष्ठति।।

एवमाद्यशुभं कृत्वा नरा निरयगामिनः।
तांस्तान्भावान्प्रपद्यन्ते स्वकृतस्यैव कारणात्।।

एवंजातिषु निर्देश्याः प्राणिनः पापकारिणः।
कथंचित्पुनरुत्पद्यि लभन्ते मानुषं पदम्।।

बहुशश्चाग्निसङ्क्रान्तं लोहं शुचिमयं तथा।
बहुदुःखाभिसन्तप्तस्तथाऽऽत्मा शोध्यते बलात्।
तस्मात्सुदुर्लभं चेति विद्धि जन्मसु मानुषम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः।। 230 ।।