अनुशासनपर्व
अध्यायः २२९
उमोवाच।
भगवन्सर्वलोकेश त्रिपुरार्दन शङ्कर।
कीदृशा यमदण्डास्ते कीदृशाः परिचारकाः।।
कथं मृतास्ते गच्छन्ति प्राणिनो यमसादनम्।
कीदृशं भवनं तस्य कथं दण्डयति प्रजाः।
एतत्सर्वं महादेव श्रोतुमिच्छाम्यहं प्रभो।।
महेश्वर उवाच।
शृणु कल्याणि तत्सर्वं यत्ते देवि मनःप्रियम्।
दक्षिणस्यां दिशि शुभे यमस्य सदनं महत्।।
विचित्रं रमणीयं च नानाभावसमन्वितम्।
पितृभिः प्रेतसङ्घैश्च यमदूतैश्च सन्ततम्।।
प्राणिसङ्घैश्च बहुभिः कर्मवश्यैश्च पूरितम्।
तत्रास्ते दण्डयन्नित्यं यमो लोकहिते रतः।।
मायया सततं वेत्ति प्राणिनां यच्छुभाशुभम्।
मायया संहरंस्तत्र प्राणिसङ्घान्यतस्ततः।।
तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः।
को हि मानुषमात्रस्तु देवस्य चरितं महत्।।
एवं संवसतस्तस्य यमस्य परिचारकाः।
गृहीत्वा सन्नयन्त्येव प्राणिनः क्षीणकर्मणः।
यन केनापदेशेन त्वपदेशसमुद्भवाः।।
कर्मणा प्राणिनो लोके उत्तमाधममध्यमाः।
यथार्हं तान्समादाय नयन्ति यमसादनम्।।
धार्मिकानुत्तमान्विद्धि स्वर्गिणस्ते यथाऽमराः।
त्रिषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः।
तिर्यङनरकगन्तारो ह्यधमास्ते नराधमाः।।
पन्थानस्त्रिविधा दृष्टाः सर्वेषां गतजीविनाम्।
रमणीयं निराबाधं दुर्दर्शमिति नामतः।।
रमणीयं तु यन्मार्गं पताकाध्वजसङ्कुलम्।
धूपितं सिक्तसंमृष्टं पुष्पमालाभिसङ्कुलम्।।
मनोहरं सुखस्पर्शं गच्छतामेव तद्भवेत्।
निराबाधं यथालोकं सुप्रशस्तं कृतं भवेत्।।
तृतीयं यत्तु दुर्दर्शं दुर्गन्धि तमसा वृतम्।
परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम्।
किमिकीटसमाकीर्णं भजतामतिदुर्गमम्।।
मार्गैरेवं त्रिभिर्नित्यमुत्तमाधममध्यमान्।
सन्नयन्ति यथा काले तन्मे शृणु शुचिस्मिते।।
उत्तमानन्तकाले तु यमदूताः सुसंवृताः।
नयन्ति सुखमादाय रमणीयपथेन वै।।
उमोवाच।
भगवंस्तत्र चात्मानं त्यक्तदेहं निराश्रयम्।
अदृश्यं कथमादाय सन्नयन्ति यमान्तिकम्।।
महेश्वर उवाच।
शृणु भामिनि तत्स्रवं त्रिविधं देहकारणम्।
कर्मवश्यं भोगवश्यं दुःखवश्यमिति प्रिये।।
मानुषं कर्मवश्यं स्याद्द्वितीयं भोगसाधनम्।
तृतीयं यातनावश्यं शरीरं मायया कृतम्।
यमलोके न चान्यत्र दृश्यते यातनायुतम्।।
शरीरैर्यातनावश्यैर्जीवानामुच्य भामिनि।
नयन्ति यामिकास्तत्र प्राणिनो मायया मृतान्।।
मध्यमान्योधवेषेण मध्यमेन पथा तथा।।
चण्डालवेषास्त्वधमान्गृहीत्वा भर्त्सतर्जनैः।
आकर्षन्तस्तथा पाशैर्दुर्दर्शेन नयन्ति तान्।।
त्रिविधानेवमादाय नयन्ति यमसादनम्।
धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा।।
लोकपालं सहाध्यक्षं तथैव परिषद्गतम्।
दर्शयन्ति महाभागे यामिकास्तं निवेद्य ते।।
पूजयन्दण्डयन्कांश्चित्तेषां शृण्वञ्शुभाशुभम्।
व्याहृतो बहुसाहस्रैस्तत्रास्ते सततं यमः।।
गतानां तु यमस्तेषामुत्तमानभिपूजया।
अभिसङ्गृह्य विधिवत्पृष्ट्वा स्वागतकौशलम्।
प्रस्तुत्य तत्कृतं तेषां लोकं संदिशते यमः।।
यमेनैवमनुज्ञाता यान्ति पश्चात्त्रिविष्टपम्।।
मध्यमानां यमस्तेषां श्रुत्वा कर्म यथातथम्।
जायन्तां मानुषेष्वेव इति संदिशते च तान्।।
अधमान्पाशसंयुक्तान्यमो नावेक्षते गतान्।
यमस्य पुरुषा घोराश्चण्डालसमदर्शनाः।
यातनाः प्रापयन्त्येताँल्लोकपालस्य शासनात्।।
भिन्दन्तश्च तुदन्तश्च प्रकर्षन्तो यतस्ततः।
क्रोशन्तः पातयन्त्येतान्मिथो गर्तेष्ववाङ्मुखान्।।
संयामिन्यः शिलास्तेषां पतन्ति शिरसि प्रिये।
अयोमुखाः कङ्कवला भक्षयन्ति सुदारुणाः।।
असिपत्रवने घोरे चारयन्ति तथा परान्।
तीक्ष्णदंष्ट्रास्तथा श्वानः कांश्चित्तत्र ह्यदन्ति वै।।
तत्र वैतरणी नाम नदी ग्राहसमाकुला।
दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी।
तस्यां सम्मज्जयन्त्येते तृषितान्पाययन्ति तान्।।
आरोपयन्ति वै कांश्चित्तत्र कण्टकशल्मलीम्।
यन्त्रचक्रेषु तिलवत्पीड्यन्ते तत्र केचन।।
अङ्गरेषु च दह्यन्ते तथा दुष्कृतकारिणः।
कुम्भीपाकेषु पच्यन्ते पच्यन्ते सिकतासु वै।।
पाट्यन्ते तरुवच्छस्त्रैः पापिनः क्रकचादिभिः।
भिद्यन्ते भागशः शूलैस्तुद्यन्ते सूक्ष्मसूचिभिः।।
एवं त्वया कृतं दोषं तदर्थं दण्डनं त्विति।
वाचैव घोषयन्ति स्म दण्डमानाः समन्ततः।।
एवं ते यातनां प्राप्य शरीरैर्यातनाशयैः।
प्रसहन्तश्च तद्दुःखं स्मरन्तः स्वापराधजम्।।
क्रोशन्तश्च रुद्रन्तश्च न मुच्यन्ते कथञ्चन।
स्मरन्तस्तत्र तप्यन्ते पापमात्मकृतं भृशम्।।
एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः।
यातनाभिश्च पच्यन्ते नरकेषु पुनः पुनः।।
अपरे यातनां भुक्त्वा मुच्यन्ते तत्र किल्बिषात्।
पापदोषक्षयकरा यातनाः संस्मृता नृणाम्।
बहुतप्तं यथा लोहममलं तत्तथा भवेत्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः।। 229 ।।